व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ||
१ ख
व्राह्मण उवाच:
प्राणापानावुदानश्च समानो व्यान एव च |
२ क
व्राह्मण उवाच:
पञ्चहोतॄनथैतान्वै परं भावं विदुर्वुधाः ||
२ ख
व्राह्मण्यु उवाच:
स्वभावात्सप्त होतार इति ते पूर्विका मतिः |
३ क
व्राह्मण्यु उवाच:
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ||
३ ख
व्राह्मण उवाच:
प्राणेन सम्भृतो वाय़ुरपानो जाय़ते ततः |
४ क
व्राह्मण उवाच:
अपाने सम्भृतो वाय़ुस्ततो व्यानः प्रवर्तते ||
४ ख
व्राह्मण उवाच:
व्यानेन सम्भृतो वाय़ुस्ततोदानः प्रवर्तते |
५ क
व्राह्मण उवाच:
उदाने सम्भृतो वाय़ुः समानः सम्प्रवर्तते ||
५ ख
व्राह्मण उवाच:
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् |
६ क
व्राह्मण उवाच:
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ||
६ ख
व्रह्मो उवाच:
यस्मिन्प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
७ क
व्रह्मो उवाच:
यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः ||
७ ख
प्राण उवाच:
मय़ि प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
८ क
प्राण उवाच:
मय़ि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||
८ ख
व्राह्मण उवाच:
प्राणः प्रलीय़त ततः पुनश्च प्रचचार ह |
९ क
व्राह्मण उवाच:
समानश्चाप्युदानश्च वचोऽव्रूतां ततः शुभे ||
९ ख
व्राह्मण उवाच:
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वय़म् |
१० क
व्राह्मण उवाच:
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव |
१० ख
व्राह्मण उवाच:
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ||
१० ग
व्राह्मण उवाच:
मय़ि प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
११ क
व्राह्मण उवाच:
मय़ि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||
११ ख
व्राह्मण उवाच:
व्यानश्च तमुदानश्च भाषमाणमथोचतुः |
१२ क
व्राह्मण उवाच:
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ||
१२ ख
व्राह्मण उवाच:
अपानः प्रचचाराथ व्यानस्तं पुनरव्रवीत् |
१३ क
व्राह्मण उवाच:
श्रेष्ठोऽहमस्मि सर्वेषां श्रूय़तां येन हेतुना ||
१३ ख
व्राह्मण उवाच:
मय़ि प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
१४ क
व्राह्मण उवाच:
मय़ि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||
१४ ख
व्राह्मण उवाच:
प्रालीय़त ततो व्यानः पुनश्च प्रचचार ह |
१५ क
व्राह्मण उवाच:
प्राणापानावुदानश्च समानश्च तमव्रुवन् |
१५ ख
व्राह्मण उवाच:
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ||
१५ ग
व्राह्मण उवाच:
प्रचचार पुनर्व्यानः समानः पुनरव्रवीत् |
१६ क
व्राह्मण उवाच:
श्रेष्ठोऽहमस्मि सर्वेषां श्रूय़तां येन हेतुना ||
१६ ख
व्राह्मण उवाच:
मय़ि प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
१७ क
व्राह्मण उवाच:
मय़ि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||
१७ ख
व्राह्मण उवाच:
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह |
१८ क
व्राह्मण उवाच:
प्राणापानावुदानश्च व्यानश्चैव तमव्रुवन् |
१८ ख
व्राह्मण उवाच:
समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||
१८ ग
व्राह्मण उवाच:
समानः प्रचचाराथ उदानस्तमुवाच ह |
१९ क
व्राह्मण उवाच:
श्रेष्ठोऽहमस्मि सर्वेषां श्रूय़तां येन हेतुना ||
१९ ख
व्राह्मण उवाच:
मय़ि प्रलीने प्रलय़ं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
२० क
व्राह्मण उवाच:
मय़ि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||
२० ख
व्राह्मण उवाच:
ततः प्रालीय़तोदानः पुनश्च प्रचचार ह |
२१ क
व्राह्मण उवाच:
प्राणापानौ समानश्च व्यानश्चैव तमव्रुवन् |
२१ ख
व्राह्मण उवाच:
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||
२१ ग
व्राह्मण उवाच:
ततस्तानव्रवीद्व्रह्मा समवेतान्प्रजापतिः |
२२ क
व्राह्मण उवाच:
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः |
२२ ख
व्राह्मण उवाच:
सर्वे स्वविषय़े श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ||
२२ ग
व्राह्मण उवाच:
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वाय़वः |
२३ क
व्राह्मण उवाच:
एक एव ममैवात्मा वहुधाप्युपचीय़ते ||
२३ ख
व्राह्मण उवाच:
परस्परस्य सुहृदो भावय़न्तः परस्परम् |
२४ क
व्राह्मण उवाच:
स्वस्ति व्रजत भद्रं वो धारय़ध्वं परस्परम् ||
२४ ख