वैशम्पाय़न उवाच:
पार्थः प्राप्य धनुःश्रेष्ठमक्षय़्यौ च महेषुधी |
१ क
वैशम्पाय़न उवाच:
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||
१ ख
वैशम्पाय़न उवाच:
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो वलम् |
२ क
वैशम्पाय़न उवाच:
प्राप्तमेतन्मय़ा राजन्दुष्प्रापं यदभीप्सितम् ||
२ ख
वैशम्पाय़न उवाच:
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् |
३ क
वैशम्पाय़न उवाच:
करमाहारय़िष्यामि राज्ञः सर्वान्नृपोत्तम ||
३ ख
वैशम्पाय़न उवाच:
विजय़ाय़ प्रय़ास्यामि दिशं धनदरक्षिताम् |
४ क
वैशम्पाय़न उवाच:
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ||
४ ख
वैशम्पाय़न उवाच:
धनञ्जय़वचः श्रुत्वा धर्मराजो युधिष्ठिरः |
५ क
वैशम्पाय़न उवाच:
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ||
५ ख
वैशम्पाय़न उवाच:
स्वस्ति वाच्यार्हतो विप्रान्प्रय़ाहि भरतर्षभ |
६ क
वैशम्पाय़न उवाच:
दुर्हृदामप्रहर्षाय़ सुहृदां नन्दनाय़ च |
६ ख
वैशम्पाय़न उवाच:
विजय़स्ते ध्रुवं पार्थ प्रिय़ं काममवाप्नुहि ||
६ ग
वैशम्पाय़न उवाच:
इत्युक्तः प्रय़यौ पार्थः सैन्येन महता वृतः |
७ क
वैशम्पाय़न उवाच:
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ||
७ ख
वैशम्पाय़न उवाच:
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ |
८ क
वैशम्पाय़न उवाच:
ससैन्याः प्रय़युः सर्वे धर्मराजाभिपूजिताः ||
८ ख
वैशम्पाय़न उवाच:
दिशं धनपतेरिष्टामजय़त्पाकशासनिः |
९ क
वैशम्पाय़न उवाच:
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ||
९ ख
वैशम्पाय़न उवाच:
प्रतीचीं नकुलो राजन्दिशं व्यजय़दस्त्रवित् |
१० क
वैशम्पाय़न उवाच:
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ||
१० ख
जनमेजय़ उवाच:
दिशामभिजय़ं व्रह्मन्विस्तरेणानुकीर्तय़ |
११ क
जनमेजय़ उवाच:
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||
११ ख
वैशम्पाय़न उवाच:
धनञ्जय़स्य वक्ष्यामि विजय़ं पूर्वमेव ते |
१२ क
वैशम्पाय़न उवाच:
यौगपद्येन पार्थैर्हि विजितेय़ं वसुन्धरा ||
१२ ख
वैशम्पाय़न उवाच:
पूर्वं कुणिन्दविषय़े वशे चक्रे महीपतीन् |
१३ क
वैशम्पाय़न उवाच:
धनञ्जय़ो महावाहुर्नातितीव्रेण कर्मणा ||
१३ ख
वैशम्पाय़न उवाच:
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः |
१४ क
वैशम्पाय़न उवाच:
सुमण्डलं पापजितं कृतवाननुसैनिकम् ||
१४ ख
वैशम्पाय़न उवाच:
स तेन सहितो राजन्सव्यसाची परन्तपः |
१५ क
वैशम्पाय़न उवाच:
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ||
१५ ख
वैशम्पाय़न उवाच:
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः |
१६ क
वैशम्पाय़न उवाच:
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ||
१६ ख
वैशम्पाय़न उवाच:
स तानपि महेष्वासो विजित्य भरतर्षभ |
१७ क
वैशम्पाय़न उवाच:
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ||
१७ ख
वैशम्पाय़न उवाच:
तत्र राजा महानासीद्भगदत्तो विशां पते |
१८ क
वैशम्पाय़न उवाच:
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ||
१८ ख
वैशम्पाय़न उवाच:
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् |
१९ क
वैशम्पाय़न उवाच:
अन्यैश्च वहुभिर्योधैः सागरानूपवासिभिः ||
१९ ख
वैशम्पाय़न उवाच:
ततः स दिवसानष्टौ योधय़ित्वा धनञ्जय़म् |
२० क
वैशम्पाय़न उवाच:
प्रहसन्नव्रवीद्राजा सङ्ग्रामे विगतक्लमः ||
२० ख
वैशम्पाय़न उवाच:
उपपन्नं महावाहो त्वय़ि पाण्डवनन्दन |
२१ क
वैशम्पाय़न उवाच:
पाकशासनदाय़ादे वीर्यमाहवशोभिनि ||
२१ ख
वैशम्पाय़न उवाच:
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे |
२२ क
वैशम्पाय़न उवाच:
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ||
२२ ख
वैशम्पाय़न उवाच:
किमीप्सितं पाण्डवेय़ व्रूहि किं करवाणि ते |
२३ क
वैशम्पाय़न उवाच:
यद्वक्ष्यसि महावाहो तत्करिष्यामि पुत्रक ||
२३ ख
अर्जुन उवाच:
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः |
२४ क
अर्जुन उवाच:
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीय़ताम् ||
२४ ख
अर्जुन उवाच:
भवान्पितृसखा चैव प्रीय़माणो मय़ापि च |
२५ क
अर्जुन उवाच:
ततो नाज्ञापय़ामि त्वां प्रीतिपूर्वं प्रदीय़ताम् ||
२५ ख
भगदत्त उवाच:
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः |
२६ क
भगदत्त उवाच:
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ||
२६ ख