chevron_left वन पर्व अध्याय २८५
सूर्य उवाच:
माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा |
१ क
सूर्य उवाच:
पुत्राणामथ भार्याणामथो मातुरथो पितुः ||
१ ख
सूर्य उवाच:
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर |
२ क
सूर्य उवाच:
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ||
२ ख
सूर्य उवाच:
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् |
३ क
सूर्य उवाच:
सा ते प्राणान्समादाय़ गमिष्यति न संशय़ः ||
३ ख
सूर्य उवाच:
जीवतां कुरुते कार्यं पिता माता सुतास्तथा |
४ क
सूर्य उवाच:
ये चान्ये वान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ |
४ ख
सूर्य उवाच:
राजानश्च नरव्याघ्र पौरुषेण निवोध तत् ||
४ ग
सूर्य उवाच:
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते |
५ क
सूर्य उवाच:
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः |
५ ख
सूर्य उवाच:
मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ||
५ ग
सूर्य उवाच:
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गताय़ुषः |
६ क
सूर्य उवाच:
अहं तु त्वां व्रवीम्येतद्भक्तोऽसीति हितेप्सय़ा ||
६ ख
सूर्य उवाच:
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना |
७ क
सूर्य उवाच:
भक्तोऽय़ं परय़ा भक्त्या मामित्येव महाभुज |
७ ख
सूर्य उवाच:
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ||
७ ग
सूर्य उवाच:
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् |
८ क
सूर्य उवाच:
अतश्च त्वां व्रवीम्येतत्क्रिय़तामविशङ्कय़ा ||
८ ख
सूर्य उवाच:
देवगुह्यं त्वय़ा ज्ञातुं न शक्यं पुरुषर्षभ |
९ क
सूर्य उवाच:
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ||
९ ख
सूर्य उवाच:
पुनरुक्तं च वक्ष्यामि त्वं राधेय़ निवोध तत् |
१० क
सूर्य उवाच:
मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणय़े ||
१० ख
सूर्य उवाच:
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते |
११ क
सूर्य उवाच:
विशाखय़ोर्मध्यगतः शशीव विमलो दिवि ||
११ ख
सूर्य उवाच:
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् |
१२ क
सूर्य उवाच:
प्रत्याख्येय़स्त्वय़ा तात कुण्डलार्थे पुरन्दरः ||
१२ ख
सूर्य उवाच:
शक्या वहुविधैर्वाक्यैः कुण्डलेप्सा त्वय़ानघ |
१३ क
सूर्य उवाच:
विहन्तुं देवराजस्य हेतुय़ुक्तैः पुनः पुनः ||
१३ ख
सूर्य उवाच:
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः |
१४ क
सूर्य उवाच:
पुरन्दरस्य कर्ण त्वं वुद्धिमेतामपानुद ||
१४ ख
सूर्य उवाच:
त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना |
१५ क
सूर्य उवाच:
सव्यसाची त्वय़ा चैव युधि शूरः समेष्यति ||
१५ ख
सूर्य उवाच:
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् |
१६ क
सूर्य उवाच:
विजेतुं युधि यद्यस्य स्वय़मिन्द्रः शरो भवेत् ||
१६ ख
सूर्य उवाच:
तस्मान्न देय़े शक्राय़ त्वय़ैते कुण्डले शुभे |
१७ क
सूर्य उवाच:
सङ्ग्रामे यदि निर्जेतुं कर्ण कामय़सेऽर्जुनम् ||
१७ ख