वैशम्पाय़न उवाच:
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जय़ः |
१ क
वैशम्पाय़न उवाच:
उपप्लव्यं यय़ौ द्रष्टुं पाण्डवानमितौजसः ||
१ ख
वैशम्पाय़न उवाच:
स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् |
२ क
वैशम्पाय़न उवाच:
प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ||
२ ख
वैशम्पाय़न उवाच:
गावल्गणिः सञ्जय़ः सूतसूनु; रजातशत्रुमवदत्प्रतीतः |
३ क
वैशम्पाय़न उवाच:
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहाय़वन्तं च महेन्द्रकल्पम् ||
३ ख
वैशम्पाय़न उवाच:
अनामय़ं पृच्छति त्वाम्विकेय़ो; वृद्धो राजा धृतराष्ट्रो मनीषी |
४ क
वैशम्पाय़न उवाच:
कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनञ्जय़स्तौ च माद्रीतनूजौ ||
४ ख
वैशम्पाय़न उवाच:
कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा |
५ क
वैशम्पाय़न उवाच:
मनस्विनी यत्र च वाञ्छसि त्व; मिष्टान्कामान्भारत स्वस्तिकामः ||
५ ख
युधिष्ठिर उवाच:
गावल्गणे सञ्जय़ स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत |
६ क
युधिष्ठिर उवाच:
अनामय़ं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् ||
६ ख
युधिष्ठिर उवाच:
चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत |
७ क
युधिष्ठिर उवाच:
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां सञ्जय़ प्रीतिय़ोगात् ||
७ ख
युधिष्ठिर उवाच:
पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः |
८ क
युधिष्ठिर उवाच:
स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित् ||
८ ख
युधिष्ठिर उवाच:
कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा |
९ क
युधिष्ठिर उवाच:
महाराजो वाह्लिकः प्रातिपेय़ः; कच्चिद्विद्वान्कुशली सूतपुत्र ||
९ ख
युधिष्ठिर उवाच:
स सोमदत्तः कुशली तात कच्चि; द्भूरिश्रवाः सत्यसन्धः शलश्च |
१० क
युधिष्ठिर उवाच:
द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः ||
१० ख
युधिष्ठिर उवाच:
महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम् |
११ क
युधिष्ठिर उवाच:
कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः ||
११ ख
युधिष्ठिर उवाच:
सर्वे कुरुभ्यः स्पृहय़न्ति सञ्जय़; धनुर्धरा ये पृथिव्यां युवानः |
१२ क
युधिष्ठिर उवाच:
येषां राष्ट्रे निवसति दर्शनीय़ो; महेष्वासः शीलवान्द्रोणपुत्रः ||
१२ ख
युधिष्ठिर उवाच:
वैश्यापुत्रः कुशली तात कच्चि; न्महाप्राज्ञो राजपुत्रो युय़ुत्सुः |
१३ क
युधिष्ठिर उवाच:
कर्णोऽमात्यः कुशली तात कच्चि; त्सुय़ोधनो यस्य मन्दो विधेय़ः ||
१३ ख
युधिष्ठिर उवाच:
स्त्रिय़ो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत |
१४ क
युधिष्ठिर उवाच:
वध्वः पुत्रा भागिनेय़ा भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः ||
१४ ख
युधिष्ठिर उवाच:
कच्चिद्राजा व्राह्मणानां यथाव; त्प्रवर्तते पूर्ववत्तात वृत्तिम् |
१५ क
युधिष्ठिर उवाच:
कच्चिद्दाय़ान्मामकान्धार्तराष्ट्रो; द्विजातीनां सञ्जय़ नोपहन्ति ||
१५ ख
युधिष्ठिर उवाच:
कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते व्राह्मणातिक्रमान्वै |
१६ क
युधिष्ठिर उवाच:
कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम् ||
१६ ख
युधिष्ठिर उवाच:
एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा |
१७ क
युधिष्ठिर उवाच:
ते चेल्लोभं न निय़च्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम् ||
१७ ख
युधिष्ठिर उवाच:
कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वुभूषते वृत्तिममात्यवर्गे |
१८ क
युधिष्ठिर उवाच:
कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः ||
१८ ख
युधिष्ठिर उवाच:
कच्चिन्न पापं कथय़न्ति तात; ते पाण्डवानां कुरवः सर्व एव |
१९ क
युधिष्ठिर उवाच:
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता; न्स्मरन्ति पार्थस्य युधां प्रणेतुः ||
१९ ख
युधिष्ठिर उवाच:
मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूय़मानेन धनुर्धरेण |
२० क
युधिष्ठिर उवाच:
गाण्डीवमुक्तान्स्तनय़ित्नुघोषा; नजिह्मगान्कच्चिदनुस्मरन्ति ||
२० ख
युधिष्ठिर उवाच:
न ह्यपश्यं कञ्चिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन |
२१ क
युधिष्ठिर उवाच:
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः ||
२१ ख
युधिष्ठिर उवाच:
गदापाणिर्भीमसेनस्तरस्वी; प्रवेपय़ञ्शत्रुसङ्घाननीके |
२२ क
युधिष्ठिर उवाच:
नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति ||
२२ ख
युधिष्ठिर उवाच:
माद्रीपुत्रः सहदेवः कलिङ्गा; न्समागतानजय़द्दन्तकूरे |
२३ क
युधिष्ठिर उवाच:
वामेनास्यन्दक्षिणेनैव यो वै; महावलं कच्चिदेनं स्मरन्ति ||
२३ ख
युधिष्ठिर उवाच:
उद्यन्नय़ं नकुलः प्रेषितो वै; गावल्गणे सञ्जय़ पश्यतस्ते |
२४ क
युधिष्ठिर उवाच:
दिशं प्रतीचीं वशमानय़न्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति ||
२४ ख
युधिष्ठिर उवाच:
अभ्याभवो द्वैतवने य आसी; द्दुर्मन्त्रिते घोषय़ात्रागतानाम् |
२५ क
युधिष्ठिर उवाच:
यत्र मन्दाञ्शत्रुवशं प्रय़ाता; नमोचय़द्भीमसेनो जय़श्च ||
२५ ख
युधिष्ठिर उवाच:
अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे |
२६ क
युधिष्ठिर उवाच:
गाण्डीवभृच्छत्रुसङ्घानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ||
२६ ख
युधिष्ठिर उवाच:
न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह सञ्जय़ |
२७ क
युधिष्ठिर उवाच:
सर्वात्मना परिजेतुं वय़ं चे; न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ||
२७ ख