chevron_left भीष्म पर्व अध्याय २३
धृतराष्ट्र उवाच:
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युय़ुत्सवः |
१ क
धृतराष्ट्र उवाच:
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
२ क
सञ्जय़ उवाच:
आचार्यमुपसङ्गम्य राजा वचनमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
३ क
सञ्जय़ उवाच:
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||
३ ख
सञ्जय़ उवाच:
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
४ क
सञ्जय़ उवाच:
युय़ुधानो विराटश्च द्रुपदश्च महारथः ||
४ ख
सञ्जय़ उवाच:
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
५ क
सञ्जय़ उवाच:
पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः ||
५ ख
सञ्जय़ उवाच:
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
६ क
सञ्जय़ उवाच:
सौभद्रो द्रौपदेय़ाश्च सर्व एव महारथाः ||
६ ख
सञ्जय़ उवाच:
अस्माकं तु विशिष्टा ये तान्निवोध द्विजोत्तम |
७ क
सञ्जय़ उवाच:
नाय़का मम सैन्यस्य सञ्ज्ञार्थं तान्व्रवीमि ते ||
७ ख
सञ्जय़ उवाच:
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय़ः |
८ क
सञ्जय़ उवाच:
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||
८ ख
सञ्जय़ उवाच:
अन्ये च वहवः शूरा मदर्थे त्यक्तजीविताः |
९ क
सञ्जय़ उवाच:
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||
९ ख
सञ्जय़ उवाच:
अपर्याप्तं तदस्माकं वलं भीष्माभिरक्षितम् |
१० क
सञ्जय़ उवाच:
पर्याप्तं त्विदमेतेषां वलं भीमाभिरक्षितम् ||
१० ख
सञ्जय़ उवाच:
अय़नेषु च सर्वेषु यथाभागमवस्थिताः |
११ क
सञ्जय़ उवाच:
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||
११ ख
सञ्जय़ उवाच:
तस्य सञ्जनय़न्हर्षं कुरुवृद्धः पितामहः |
१२ क
सञ्जय़ उवाच:
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||
१२ ख
सञ्जय़ उवाच:
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
१३ क
सञ्जय़ उवाच:
सहसैवाभ्यहन्यन्त स शव्दस्तुमुलोऽभवत् ||
१३ ख
सञ्जय़ उवाच:
ततः श्वेतैर्हय़ैर्युक्ते महति स्यन्दने स्थितौ |
१४ क
सञ्जय़ उवाच:
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||
१४ ख
सञ्जय़ उवाच:
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय़ः |
१५ क
सञ्जय़ उवाच:
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||
१५ ख
सञ्जय़ उवाच:
अनन्तविजय़ं राजा कुन्तीपुत्रो युधिष्ठिरः |
१६ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||
१६ ख
सञ्जय़ उवाच:
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
१७ क
सञ्जय़ उवाच:
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||
१७ ख
सञ्जय़ उवाच:
द्रुपदो द्रौपदेय़ाश्च सर्वशः पृथिवीपते |
१८ क
सञ्जय़ उवाच:
सौभद्रश्च महावाहुः शङ्खान्दध्मुः पृथक्पृथक् ||
१८ ख
सञ्जय़ उवाच:
स घोषो धार्तराष्ट्राणां हृदय़ानि व्यदारय़त् |
१९ क
सञ्जय़ उवाच:
नभश्च पृथिवीं चैव तुमुलो व्यनुनादय़न् ||
१९ ख
सञ्जय़ उवाच:
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः |
२० क
सञ्जय़ उवाच:
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||
२० ख
सञ्जय़ उवाच:
हृषीकेशं तदा वाक्यमिदमाह महीपते |
२१ क
सञ्जय़ उवाच:
सेनय़ोरुभय़ोर्मध्ये रथं स्थापय़ मेऽच्युत ||
२१ ख
सञ्जय़ उवाच:
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
२२ क
सञ्जय़ उवाच:
कैर्मय़ा सह योद्धव्यमस्मिन्रणसमुद्यमे ||
२२ ख
सञ्जय़ उवाच:
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
२३ क
सञ्जय़ उवाच:
धार्तराष्ट्रस्य दुर्वुद्धेर्युद्धे प्रिय़चिकीर्षवः ||
२३ ख
सञ्जय़ उवाच:
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
२४ क
सञ्जय़ उवाच:
सेनय़ोरुभय़ोर्मध्ये स्थापय़ित्वा रथोत्तमम् ||
२४ ख
सञ्जय़ उवाच:
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
२५ क
सञ्जय़ उवाच:
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||
२५ ख
सञ्जय़ उवाच:
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
२६ क
सञ्जय़ उवाच:
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||
२६ ख
सञ्जय़ उवाच:
श्वशुरान्सुहृदश्चैव सेनय़ोरुभय़ोरपि |
२७ क
सञ्जय़ उवाच:
तान्समीक्ष्य स कौन्तेय़ः सर्वान्वन्धूनवस्थितान् ||
२७ ख
सञ्जय़ उवाच:
कृपय़ा परय़ाविष्टो विषीदन्निदमव्रवीत् |
२८ क
सञ्जय़ उवाच:
दृष्ट्वेमान्स्वजनान्कृष्ण युय़ुत्सून्समवस्थितान् ||
२८ ख
सञ्जय़ उवाच:
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
२९ क
सञ्जय़ उवाच:
वेपथुश्च शरीरे मे रोमहर्षश्च जाय़ते ||
२९ ख
सञ्जय़ उवाच:
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
३० क
सञ्जय़ उवाच:
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||
३० ख
सञ्जय़ उवाच:
निमित्तानि च पश्यामि विपरीतानि केशव |
३१ क
सञ्जय़ उवाच:
न च श्रेय़ोऽनुपश्यामि हत्वा स्वजनमाहवे ||
३१ ख
सञ्जय़ उवाच:
न काङ्क्षे विजय़ं कृष्ण न च राज्यं सुखानि च |
३२ क
सञ्जय़ उवाच:
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||
३२ ख
सञ्जय़ उवाच:
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
३३ क
सञ्जय़ उवाच:
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||
३३ ख
सञ्जय़ उवाच:
आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
३४ क
सञ्जय़ उवाच:
मातुलाः श्वशुराः पौत्राः स्यालाः सम्वन्धिनस्तथा ||
३४ ख
सञ्जय़ उवाच:
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
३५ क
सञ्जय़ उवाच:
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||
३५ ख
सञ्जय़ उवाच:
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
३६ क
सञ्जय़ उवाच:
पापमेवाश्रय़ेदस्मान्हत्वैतानातताय़िनः ||
३६ ख
सञ्जय़ उवाच:
तस्मान्नार्हा वय़ं हन्तुं धार्तराष्ट्रान्सवान्धवान् |
३७ क
सञ्जय़ उवाच:
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||
३७ ख
सञ्जय़ उवाच:
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
३८ क
सञ्जय़ उवाच:
कुलक्षय़कृतं दोषं मित्रद्रोहे च पातकम् ||
३८ ख
सञ्जय़ उवाच:
कथं न ज्ञेय़मस्माभिः पापादस्मान्निवर्तितुम् |
३९ क
सञ्जय़ उवाच:
कुलक्षय़कृतं दोषं प्रपश्यद्भिर्जनार्दन ||
३९ ख
सञ्जय़ उवाच:
कुलक्षय़े प्रणश्यन्ति कुलधर्माः सनातनाः |
४० क
सञ्जय़ उवाच:
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||
४० ख
सञ्जय़ उवाच:
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय़ः |
४१ क
सञ्जय़ उवाच:
स्त्रीषु दुष्टासु वार्ष्णेय़ जाय़ते वर्णसङ्करः ||
४१ ख
सञ्जय़ उवाच:
सङ्करो नरकाय़ैव कुलघ्नानां कुलस्य च |
४२ क
सञ्जय़ उवाच:
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिय़ाः ||
४२ ख
सञ्जय़ उवाच:
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
४३ क
सञ्जय़ उवाच:
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||
४३ ख
सञ्जय़ उवाच:
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
४४ क
सञ्जय़ उवाच:
नरके निय़तं वासो भवतीत्यनुशुश्रुम ||
४४ ख
सञ्जय़ उवाच:
अहो वत महत्पापं कर्तुं व्यवसिता वय़म् |
४५ क
सञ्जय़ उवाच:
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||
४५ ख
सञ्जय़ उवाच:
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय़ः |
४६ क
सञ्जय़ उवाच:
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||
४६ ख
सञ्जय़ उवाच:
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
४७ क
सञ्जय़ उवाच:
विसृज्य सशरं चापं शोकसंविग्नमानसः ||
४७ ख