मार्कण्डेय़ उवाच:
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः |
१ क
मार्कण्डेय़ उवाच:
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ||
१ ख
मार्कण्डेय़ उवाच:
अचरन्त तपस्तीव्रं पुत्रार्थे वहुवार्षिकम् |
२ क
मार्कण्डेय़ उवाच:
पुत्रं लभेम धर्मिष्ठं यशसा व्रह्मणा समम् ||
२ ख
मार्कण्डेय़ उवाच:
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ |
३ क
मार्कण्डेय़ उवाच:
जज्ञे तेजोमय़ोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ||
३ ख
मार्कण्डेय़ उवाच:
समिद्धोऽग्निः शिरस्तस्य वाहू सूर्यनिभौ तथा |
४ क
मार्कण्डेय़ उवाच:
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ||
४ ख
मार्कण्डेय़ उवाच:
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः |
५ क
मार्कण्डेय़ उवाच:
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ||
५ ख
मार्कण्डेय़ उवाच:
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः |
६ क
मार्कण्डेय़ उवाच:
जनय़त्पावकं घोरं पितॄणां स प्रजाः सृजन् ||
६ ख
मार्कण्डेय़ उवाच:
वृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ |
७ क
मार्कण्डेय़ उवाच:
शिवं नाभ्यां वलादिन्द्रं वाय़्वग्नी प्राणतोऽसृजत् ||
७ ख
मार्कण्डेय़ उवाच:
वाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह |
८ क
मार्कण्डेय़ उवाच:
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ||
८ ख
मार्कण्डेय़ उवाच:
वृहदूर्जस्य प्रणिधिः काश्यपस्य वृहत्तरः |
९ क
मार्कण्डेय़ उवाच:
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ||
९ ख
मार्कण्डेय़ उवाच:
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः |
१० क
मार्कण्डेय़ उवाच:
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ||
१० ख
मार्कण्डेय़ उवाच:
अभीममतिभीमं च भीमं भीमवलावलम् |
११ क
मार्कण्डेय़ उवाच:
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ||
११ ख
मार्कण्डेय़ उवाच:
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् |
१२ क
मार्कण्डेय़ उवाच:
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ||
१२ ख
मार्कण्डेय़ उवाच:
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् |
१३ क
मार्कण्डेय़ उवाच:
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ||
१३ ख
मार्कण्डेय़ उवाच:
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् |
१४ क
मार्कण्डेय़ उवाच:
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञय़ाजिनः ||
१४ ख
मार्कण्डेय़ उवाच:
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि |
१५ क
मार्कण्डेय़ उवाच:
स्पर्धय़ा हव्यवाहानां निघ्नन्त्येते हरन्ति च ||
१५ ख
मार्कण्डेय़ उवाच:
हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् |
१६ क
मार्कण्डेय़ उवाच:
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ||
१६ ख
मार्कण्डेय़ उवाच:
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रवाधते |
१७ क
मार्कण्डेय़ उवाच:
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञिय़म् ||
१७ ख
मार्कण्डेय़ उवाच:
वृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः |
१८ क
मार्कण्डेय़ उवाच:
अग्निहोत्रे हूय़माने पृथिव्यां सद्भिरिज्यते ||
१८ ख
मार्कण्डेय़ उवाच:
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते |
१९ क
मार्कण्डेय़ उवाच:
मित्रविन्दाय़ वै तस्य हविरध्वर्यवो विदुः |
१९ ख
मार्कण्डेय़ उवाच:
मुमुदे परमप्रीतः सह पुत्रैर्महाय़शाः ||
१९ ग