chevron_left कर्ण पर्व अध्याय २३
सञ्जय़ उवाच:
पुत्रस्तव महाराज मद्रराजमिदं वचः |
१ क
सञ्जय़ उवाच:
विनय़ेनोपसङ्गम्य प्रणय़ाद्वाक्यमव्रवीत् ||
१ ख
सञ्जय़ उवाच:
सत्यव्रत महाभाग द्विषतामघवर्धन |
२ क
सञ्जय़ उवाच:
मद्रेश्वर रणे शूर परसैन्यभय़ङ्कर ||
२ ख
सञ्जय़ उवाच:
श्रुतवानसि कर्णस्य व्रुवतो वदतां वर |
३ क
सञ्जय़ उवाच:
यथा नृपतिसिंहानां मध्ये त्वां वरय़त्ययम् ||
३ ख
सञ्जय़ उवाच:
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि |
४ क
सञ्जय़ उवाच:
सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ||
४ ख
सञ्जय़ उवाच:
अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः |
५ क
सञ्जय़ उवाच:
स पातु सर्वतः कर्णं भवान्व्रह्मेव शङ्करम् ||
५ ख
सञ्जय़ उवाच:
पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः |
६ क
सञ्जय़ उवाच:
तथा त्वमपि राधेय़ं सर्वतः परिपालय़ ||
६ ख
सञ्जय़ उवाच:
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् |
७ क
सञ्जय़ उवाच:
शकुनिः सौवलो द्रौणिरहमेव च नो वलम् |
७ ख
सञ्जय़ उवाच:
एषामेव कृतो भागो नवधा पृतनापते ||
७ ग
सञ्जय़ उवाच:
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः |
८ क
सञ्जय़ उवाच:
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ||
८ ख
सञ्जय़ उवाच:
वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ |
९ क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ||
९ ख
सञ्जय़ उवाच:
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि |
१० क
सञ्जय़ उवाच:
अस्मदीय़ाश्च वहवः स्वर्गाय़ोपगता रणे |
१० ख
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ||
१० ग
सञ्जय़ उवाच:
कर्णो ह्येको महावाहुरस्मत्प्रिय़हिते रतः |
११ क
सञ्जय़ उवाच:
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः |
११ ख
सञ्जय़ उवाच:
तस्मिञ्जय़ाशा विपुला मम मद्रजनाधिप ||
११ ग
सञ्जय़ उवाच:
पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः |
१२ क
सञ्जय़ उवाच:
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव |
१२ ख
सञ्जय़ उवाच:
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ||
१२ ग
सञ्जय़ उवाच:
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् |
१३ क
सञ्जय़ उवाच:
अहन्यहनि मद्रेश द्रावय़न्दृश्यते युधि ||
१३ ख
सञ्जय़ उवाच:
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते |
१४ क
सञ्जय़ उवाच:
तं भागं सह कर्णेन युगपन्नाशय़ाहवे ||
१४ ख
सञ्जय़ उवाच:
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष |
१५ क
सञ्जय़ उवाच:
तथा नश्यन्तु कौन्तेय़ाः सपाञ्चालाः ससृञ्जय़ाः ||
१५ ख
सञ्जय़ उवाच:
रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् |
१६ क
सञ्जय़ उवाच:
संनिपातः समो लोके भवतोर्नास्ति कश्चन ||
१६ ख
सञ्जय़ उवाच:
यथा सर्वास्ववस्थासु वार्ष्णेय़ः पाति पाण्डवम् |
१७ क
सञ्जय़ उवाच:
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ||
१७ ख
सञ्जय़ उवाच:
त्वय़ा सारथिना ह्येष अप्रधृष्यो भविष्यति |
१८ क
सञ्जय़ उवाच:
देवतानामपि रणे सशक्राणां महीपते |
१८ ख
सञ्जय़ उवाच:
किं पुनः पाण्डवेय़ानां मातिशङ्कीर्वचो मम ||
१८ ग
सञ्जय़ उवाच:
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः |
१९ क
सञ्जय़ उवाच:
त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ||
१९ ख
सञ्जय़ उवाच:
क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः |
२० क
सञ्जय़ उवाच:
कुलैश्वर्यश्रुतिवलैर्दृप्तः शल्योऽव्रवीदिदम् ||
२० ख
सञ्जय़ उवाच:
अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे |
२१ क
सञ्जय़ उवाच:
यन्मां व्रवीषि विस्रव्धं सारथ्यं क्रिय़तामिति ||
२१ ख
सञ्जय़ उवाच:
अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि |
२२ क
सञ्जय़ उवाच:
न चाहं युधि राधेय़ं गणय़े तुल्यमात्मना ||
२२ ख
सञ्जय़ उवाच:
आदिश्यतामभ्यधिको ममांशः पृथिवीपते |
२३ क
सञ्जय़ उवाच:
तमहं समरे हत्वा गमिष्यामि यथागतम् ||
२३ ख
सञ्जय़ उवाच:
अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन |
२४ क
सञ्जय़ उवाच:
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ||
२४ ख
सञ्जय़ उवाच:
न चाभिकामान्कौरव्य विधाय़ हृदय़े पुमान् |
२५ क
सञ्जय़ उवाच:
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ||
२५ ख
सञ्जय़ उवाच:
युधि चाप्यवमानो मे न कर्तव्यः कथञ्चन |
२६ क
सञ्जय़ उवाच:
पश्य हीमौ मम भुजौ वज्रसंहननोपमौ ||
२६ ख
सञ्जय़ उवाच:
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् |
२७ क
सञ्जय़ उवाच:
रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः |
२७ ख
सञ्जय़ उवाच:
गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ||
२७ ग
सञ्जय़ उवाच:
दारय़ेय़ं महीं क्रुद्धो विकिरेय़ं च पर्वतान् |
२८ क
सञ्जय़ उवाच:
शोषय़ेय़ं समुद्रांश्च तेजसा स्वेन पार्थिव ||
२८ ख
सञ्जय़ उवाच:
तन्मामेवंविधं जानन्समर्थमरिनिग्रहे |
२९ क
सञ्जय़ उवाच:
कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ||
२९ ख
सञ्जय़ उवाच:
न नाम धुरि राजेन्द्र प्रय़ोक्तुं त्वमिहार्हसि |
३० क
सञ्जय़ उवाच:
न हि पापीय़सः श्रेय़ान्भूत्वा प्रेष्यत्वमुत्सहे ||
३० ख
सञ्जय़ उवाच:
यो ह्यभ्युपगतं प्रीत्या गरीय़ांसं वशे स्थितम् |
३१ क
सञ्जय़ उवाच:
वशे पापीय़सो धत्ते तत्पापमधरोत्तरम् ||
३१ ख
सञ्जय़ उवाच:
व्राह्मणा व्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः |
३२ क
सञ्जय़ उवाच:
ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः |
३२ ख
सञ्जय़ उवाच:
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ||
३२ ग
सञ्जय़ उवाच:
अथान्योन्यस्य संय़ोगाच्चातुर्वर्ण्यस्य भारत |
३३ क
सञ्जय़ उवाच:
गोप्तारः सङ्ग्रहीतारो दातारः क्षत्रिय़ाः स्मृताः ||
३३ ख
सञ्जय़ उवाच:
याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः |
३४ क
सञ्जय़ उवाच:
लोकस्यानुग्रहार्थाय़ स्थापिता व्रह्मणा भुवि ||
३४ ख
सञ्जय़ उवाच:
कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः |
३५ क
सञ्जय़ उवाच:
व्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ||
३५ ख
सञ्जय़ उवाच:
व्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः |
३६ क
सञ्जय़ उवाच:
न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ||
३६ ख
सञ्जय़ उवाच:
सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसम्भवः |
३७ क
सञ्जय़ उवाच:
महारथः समाख्यातः सेव्यः स्तव्यश्च वन्दिनाम् ||
३७ ख
सञ्जय़ उवाच:
सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन |
३८ क
सञ्जय़ उवाच:
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ||
३८ ख
सञ्जय़ उवाच:
अवमानमहं प्राप्य न योत्स्यामि कथञ्चन |
३९ क
सञ्जय़ उवाच:
आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ||
३९ ख
सञ्जय़ उवाच:
एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः |
४० क
सञ्जय़ उवाच:
उत्थाय़ प्रय़यौ तूर्णं राजमध्यादमर्षितः ||
४० ख
सञ्जय़ उवाच:
प्रणय़ाद्वहुमानाच्च तं निगृह्य सुतस्तव |
४१ क
सञ्जय़ उवाच:
अव्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ||
४१ ख
सञ्जय़ उवाच:
यथा शल्य त्वमात्थेदमेवमेतदसंशय़म् |
४२ क
सञ्जय़ उवाच:
अभिप्राय़स्तु मे कश्चित्तं निवोध जनेश्वर ||
४२ ख
सञ्जय़ उवाच:
न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथञ्चन |
४३ क
सञ्जय़ उवाच:
न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ||
४३ ख
सञ्जय़ उवाच:
ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः |
४४ क
सञ्जय़ उवाच:
तस्मादार्ताय़निः प्रोक्तो भवानिति मतिर्मम ||
४४ ख
सञ्जय़ उवाच:
शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद |
४५ क
सञ्जय़ उवाच:
तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ||
४५ ख
सञ्जय़ उवाच:
यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण |
४६ क
सञ्जय़ उवाच:
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ||
४६ ख
सञ्जय़ उवाच:
न च त्वत्तो हि राधेय़ो न चाहमपि वीर्यवान् |
४७ क