chevron_left शल्य पर्व अध्याय २३
सञ्जय़ उवाच:
तस्मिञ्शव्दे मृदौ जाते पाण्डवैर्निहते वले |
१ क
सञ्जय़ उवाच:
अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौवलः ||
१ ख
सञ्जय़ उवाच:
स यात्वा वाहिनीं तूर्णमव्रवीत्त्वरय़न्युधि |
२ क
सञ्जय़ उवाच:
युध्यध्वमिति संहृष्टाः पुनः पुनररिन्दमः |
२ ख
सञ्जय़ उवाच:
अपृच्छत्क्षत्रिय़ांस्तत्र क्व नु राजा महारथः ||
२ ग
सञ्जय़ उवाच:
शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ |
३ क
सञ्जय़ उवाच:
असौ तिष्ठति कौरव्यो रणमध्ये महारथः ||
३ ख
सञ्जय़ उवाच:
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् |
४ क
सञ्जय़ उवाच:
यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः ||
४ ख
सञ्जय़ उवाच:
यत्रैष शव्दस्तुमुलः पर्जन्यनिनदोपमः |
५ क
सञ्जय़ उवाच:
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ||
५ ख
सञ्जय़ उवाच:
एवमुक्तस्तु तैः शूरैः शकुनिः सौवलस्तदा |
६ क
सञ्जय़ उवाच:
प्रय़यौ तत्र यत्रासौ पुत्रस्तव नराधिप |
६ ख
सञ्जय़ उवाच:
सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः ||
६ ग
सञ्जय़ उवाच:
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् |
७ क
सञ्जय़ उवाच:
सरथांस्तावकान्सर्वान्हर्षय़ञ्शकुनिस्ततः ||
७ ख
सञ्जय़ उवाच:
दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते |
८ क
सञ्जय़ उवाच:
कृतकार्यमिवात्मानं मन्यमानोऽव्रवीन्नृपम् ||
८ ख
सञ्जय़ उवाच:
जहि राजन्रथानीकमश्वाः सर्वे जिता मय़ा |
९ क
सञ्जय़ उवाच:
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ||
९ ख
सञ्जय़ उवाच:
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते |
१० क
सञ्जय़ उवाच:
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ||
१० ख
सञ्जय़ उवाच:
श्रुत्वा तु वचनं तस्य तावका जय़गृद्धिनः |
११ क
सञ्जय़ उवाच:
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ||
११ ख
सञ्जय़ उवाच:
सर्वे विवृततूणीराः प्रगृहीतशरासनाः |
१२ क
सञ्जय़ उवाच:
शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे ||
१२ ख
सञ्जय़ उवाच:
ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते |
१३ क
सञ्जय़ उवाच:
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ||
१३ ख
सञ्जय़ उवाच:
तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् |
१४ क
सञ्जय़ उवाच:
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जय़ः ||
१४ ख
सञ्जय़ उवाच:
चोदय़ाश्वानसम्भ्रान्तः प्रविशैतद्वलार्णवम् |
१५ क
सञ्जय़ उवाच:
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ||
१५ ख
सञ्जय़ उवाच:
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन |
१६ क
सञ्जय़ उवाच:
वर्तमानस्य महतः समासाद्य परस्परम् ||
१६ ख
सञ्जय़ उवाच:
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् |
१७ क
सञ्जय़ उवाच:
क्षय़मद्य गता युद्धे पश्य दैवं यथाविधम् ||
१७ ख
सञ्जय़ उवाच:
समुद्रकल्पं तु वलं धार्तराष्ट्रस्य माधव |
१८ क
सञ्जय़ उवाच:
अस्मानासाद्य सञ्जातं गोष्पदोपममच्युत ||
१८ ख
सञ्जय़ उवाच:
हते भीष्मे च सन्दध्याच्छिवं स्यादिह माधव |
१९ क
सञ्जय़ उवाच:
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुवालिशः ||
१९ ख
सञ्जय़ उवाच:
उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव |
२० क
सञ्जय़ उवाच:
तच्चापि नासौ कृतवान्वीतवुद्धिः सुय़ोधनः ||
२० ख
सञ्जय़ उवाच:
तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले |
२१ क
सञ्जय़ उवाच:
न जाने कारणं किं नु येन युद्धमवर्तत ||
२१ ख
सञ्जय़ उवाच:
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुवालिशान् |
२२ क
सञ्जय़ उवाच:
पतिते शन्तनोः पुत्रे येऽकार्षुः संय़ुगं पुनः ||
२२ ख
सञ्जय़ उवाच:
अनन्तरं च निहते द्रोणे व्रह्मविदां वरे |
२३ क
सञ्जय़ उवाच:
राधेय़े च विकर्णे च नैवाशाम्यत वैशसम् ||
२३ ख
सञ्जय़ उवाच:
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते |
२४ क
सञ्जय़ उवाच:
सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् ||
२४ ख
सञ्जय़ उवाच:
श्रुताय़ुषि हते शूरे जलसन्धे च पौरवे |
२५ क
सञ्जय़ उवाच:
श्रुताय़ुधे च नृपतौ नैवाशाम्यत वैशसम् ||
२५ ख
सञ्जय़ उवाच:
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन |
२६ क
सञ्जय़ उवाच:
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् ||
२६ ख
सञ्जय़ उवाच:
जय़द्रथे च निहते राक्षसे चाप्यलाय़ुधे |
२७ क
सञ्जय़ उवाच:
वाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् ||
२७ ख
सञ्जय़ उवाच:
भगदत्ते हते शूरे काम्वोजे च सुदक्षिणे |
२८ क
सञ्जय़ उवाच:
दुःशासने च निहते नैवाशाम्यत वैशसम् ||
२८ ख
सञ्जय़ उवाच:
दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् |
२९ क
सञ्जय़ उवाच:
वलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् ||
२९ ख
सञ्जय़ उवाच:
अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् |
३० क
सञ्जय़ उवाच:
मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् ||
३० ख
सञ्जय़ उवाच:
को नु राजकुले जातः कौरवेय़ो विशेषतः |
३१ क
सञ्जय़ उवाच:
निरर्थकं महद्वैरं कुर्यादन्यः सुय़ोधनात् ||
३१ ख
सञ्जय़ उवाच:
गुणतोऽभ्यधिकं ज्ञात्वा वलतः शौर्यतोऽपि वा |
३२ क
सञ्जय़ उवाच:
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ||
३२ ख
सञ्जय़ उवाच:
यन्न तस्य मनो ह्यासीत्त्वय़ोक्तस्य हितं वचः |
३३ क
सञ्जय़ उवाच:
प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुय़ात्कथम् ||
३३ ख
सञ्जय़ उवाच:
येन शान्तनवो भीष्मो द्रोणो विदुर एव च |
३४ क
सञ्जय़ उवाच:
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् ||
३४ ख
सञ्जय़ उवाच:
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन |
३५ क
सञ्जय़ उवाच:
तथा माता हितं वाक्यं भाषमाणा हितैषिणी |
३५ ख
सञ्जय़ उवाच:
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचय़ेद्वचः ||
३५ ग
सञ्जय़ उवाच:
कुलान्तकरणो व्यक्तं जात एष जनार्दन |
३६ क
सञ्जय़ उवाच:
तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते |
३६ ख
सञ्जय़ उवाच:
नैष दास्यति नो राज्यमिति मे मतिरच्युत ||
३६ ग
सञ्जय़ उवाच:
उक्तोऽहं वहुशस्तात विदुरेण महात्मना |
३७ क
सञ्जय़ उवाच:
न जीवन्दास्यते भागं धार्तराष्ट्रः कथञ्चन ||
३७ ख
सञ्जय़ उवाच:
यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद |
३८ क
सञ्जय़ उवाच:
तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् ||
३८ ख
सञ्जय़ उवाच:
न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव |
३९ क
सञ्जय़ उवाच:
इत्यव्रवीत्सदा मां हि विदुरः सत्यदर्शनः ||
३९ ख
सञ्जय़ उवाच:
तत्सर्वमद्य जानामि व्यवसाय़ं दुरात्मनः |
४० क
सञ्जय़ उवाच:
यदुक्तं वचनं तेन विदुरेण महात्मना ||
४० ख
सञ्जय़ उवाच:
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् |
४१ क
सञ्जय़ उवाच:
अवामन्यत दुर्वुद्धिर्ध्रुवं नाशमुखे स्थितः ||
४१ ख
सञ्जय़ उवाच:
उक्तं हि वहुभिः सिद्धैर्जातमात्रे सुय़ोधने |
४२ क
सञ्जय़ उवाच:
एनं प्राप्य दुरात्मानं क्षय़ं क्षत्रं गमिष्यति ||
४२ ख
सञ्जय़ उवाच:
तदिदं वचनं तेषां निरुक्तं वै जनार्दन |
४३ क
सञ्जय़ उवाच:
क्षय़ं याता हि राजानो दुर्योधनकृते भृशम् ||
४३ ख
सञ्जय़ उवाच:
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव |
४४ क
सञ्जय़ उवाच:
क्षत्रिय़ेषु हतेष्वाशु शून्ये च शिविरे कृते ||
४४ ख
सञ्जय़ उवाच:
वधाय़ चात्मनोऽस्माभिः संय़ुगं रोचय़िष्यति |
४५ क
सञ्जय़ उवाच:
तदन्तं हि भवेद्वैरमनुमानेन माधव ||
४५ ख
सञ्जय़ उवाच:
एवं पश्यामि वार्ष्णेय़ चिन्तय़न्प्रज्ञय़ा स्वय़ा |
४६ क
सञ्जय़ उवाच:
विदुरस्य च वाक्येन चेष्टय़ा च दुरात्मनः ||
४६ ख
सञ्जय़ उवाच:
संय़ाहि भारतीं वीर यावद्धन्मि शितैः शरैः |
४७ क
सञ्जय़ उवाच:
दुर्योधनं दुरात्मानं वाहिनीं चास्य संय़ुगे ||
४७ ख
सञ्जय़ उवाच:
क्षेममद्य करिष्यामि धर्मराजस्य माधव |
४८ क
सञ्जय़ उवाच:
हत्वैतद्दुर्वलं सैन्यं धार्तराष्ट्रस्य पश्यतः ||
४८ ख