chevron_left शान्ति पर्व अध्याय २३०
व्यास उवाच:
एषा पूर्वतरा वृत्तिर्व्राह्मणस्य विधीय़ते |
१ क
व्यास उवाच:
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति ||
१ ख
व्यास उवाच:
तत्र चेन्न भवेदेवं संशय़ः कर्मनिश्चय़े |
२ क
व्यास उवाच:
किं नु कर्म स्वभावोऽय़ं ज्ञानं कर्मेति वा पुनः ||
२ ख
व्यास उवाच:
तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति |
३ क
व्यास उवाच:
उपपत्त्युपलव्धिभ्यां वर्णय़िष्यामि तच्छृणु ||
३ ख
व्यास उवाच:
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः |
४ क
व्यास उवाच:
दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः ||
४ ख
व्यास उवाच:
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः |
५ क
व्यास उवाच:
त्रय़मेतत्पृथग्भूतमविवेकं तु केचन ||
५ ख
व्यास उवाच:
एवमेतन्न चाप्येवमुभे चापि न चाप्युभे |
६ क
व्यास उवाच:
कर्मस्था विषमं व्रूय़ुः सत्त्वस्थाः समदर्शिनः ||
६ ख
व्यास उवाच:
त्रेताय़ां द्वापरे चैव कलिजाश्च ससंशय़ाः |
७ क
व्यास उवाच:
तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे ||
७ ख
व्यास उवाच:
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च |
८ क
व्यास उवाच:
कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते ||
८ ख
व्यास उवाच:
तपोधर्मेण संय़ुक्तस्तपोनित्यः सुसंशितः |
९ क
व्यास उवाच:
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ||
९ ख
व्यास उवाच:
तपसा तदवाप्नोति यद्भूत्वा सृजते जगत् |
१० क
व्यास उवाच:
तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः ||
१० ख
व्यास उवाच:
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः |
११ क
व्यास उवाच:
वेदान्तेषु पुनर्व्यक्तं क्रमय़ोगेन लक्ष्यते ||
११ ख
व्यास उवाच:
आरम्भय़ज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः |
१२ क
व्यास उवाच:
परिचारय़ज्ञाः शूद्राश्च जपय़ज्ञा द्विजातय़ः ||
१२ ख
व्यास उवाच:
परिनिष्ठितकार्यो हि स्वाध्याय़ेन द्विजो भवेत् |
१३ क
व्यास उवाच:
कुर्यादन्यन्न वा कुर्यान्मैत्रो व्राह्मण उच्यते ||
१३ ख
व्यास उवाच:
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा |
१४ क
व्यास उवाच:
संरोधादाय़ुषस्त्वेते व्यस्यन्ते द्वापरे युगे ||
१४ ख
व्यास उवाच:
द्वापरे विप्लवं यान्ति वेदाः कलिय़ुगे तथा |
१५ क
व्यास उवाच:
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः ||
१५ ख
व्यास उवाच:
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः |
१६ क
व्यास उवाच:
गवां भूमेश्च ये चापामोषधीनां च ये रसाः ||
१६ ख
व्यास उवाच:
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः |
१७ क
व्यास उवाच:
विक्रिय़न्ते स्वधर्मस्थाः स्थावराणि चराणि च ||
१७ ख
व्यास उवाच:
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति |
१८ क
व्यास उवाच:
सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे ||
१८ ख
व्यास उवाच:
विसृतं कालनानात्वमनादिनिधनं च यत् |
१९ क
व्यास उवाच:
कीर्तितं तत्पुरस्तान्मे यतः संय़ान्ति यान्ति च ||
१९ ख
व्यास उवाच:
धातेदं प्रभवस्थानं भूतानां संय़मो यमः |
२० क
व्यास उवाच:
स्वभावेन प्रवर्तन्ते द्वन्द्वसृष्टानि भूरिशः ||
२० ख
व्यास उवाच:
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिय़ा फलम् |
२१ क
व्यास उवाच:
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ||
२१ ख