chevron_left वन पर्व अध्याय २३०
वैशम्पाय़न उवाच:
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् |
१ क
वैशम्पाय़न उवाच:
अव्रुवंश्च महाराज यदूचुः कौरवं प्रति ||
१ ख
वैशम्पाय़न उवाच:
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् |
२ क
वैशम्पाय़न उवाच:
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ||
२ ख
वैशम्पाय़न उवाच:
शासतैनानधर्मज्ञान्मम विप्रिय़कारिणः |
३ क
वैशम्पाय़न उवाच:
यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ||
३ ख
वैशम्पाय़न उवाच:
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महावलाः |
४ क
वैशम्पाय़न उवाच:
सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ||
४ ख
वैशम्पाय़न उवाच:
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्वलात् |
५ क
वैशम्पाय़न उवाच:
सिंहनादेन महता पूरय़न्तो दिशो दश ||
५ ख
वैशम्पाय़न उवाच:
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः |
६ क
वैशम्पाय़न उवाच:
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप |
६ ख
वैशम्पाय़न उवाच:
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ||
६ ग
वैशम्पाय़न उवाच:
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः |
७ क
वैशम्पाय़न उवाच:
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदय़न् ||
७ ख
वैशम्पाय़न उवाच:
गन्धर्वराजस्तान्सर्वानव्रवीत्कौरवान्प्रति |
८ क
वैशम्पाय़न उवाच:
अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ||
८ ख
वैशम्पाय़न उवाच:
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत |
९ क
वैशम्पाय़न उवाच:
प्रगृहीताय़ुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ||
९ ख
वैशम्पाय़न उवाच:
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यताय़ुधान् |
१० क
वैशम्पाय़न उवाच:
सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः ||
१० ख
वैशम्पाय़न उवाच:
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |
११ क
वैशम्पाय़न उवाच:
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ||
११ ख
वैशम्पाय़न उवाच:
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् |
१२ क
वैशम्पाय़न उवाच:
महता शरवर्षेण राधेय़ः प्रत्यवारय़त् ||
१२ ख
वैशम्पाय़न उवाच:
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाय़सैः |
१३ क
वैशम्पाय़न उवाच:
गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ||
१३ ख
वैशम्पाय़न उवाच:
पातय़न्नुत्तमाङ्गानि गन्धर्वाणां महारथः |
१४ क
वैशम्पाय़न उवाच:
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ||
१४ ख
वैशम्पाय़न उवाच:
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता |
१५ क
वैशम्पाय़न उवाच:
भूय़ एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ||
१५ ख
वैशम्पाय़न उवाच:
गन्धर्वभूता पृथिवी क्षणेन समपद्यत |
१६ क
वैशम्पाय़न उवाच:
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ||
१६ ख
वैशम्पाय़न उवाच:
अथ दुर्योधनो राजा शकुनिश्चापि सौवलः |
१७ क
वैशम्पाय़न उवाच:
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः |
१७ ख
वैशम्पाय़न उवाच:
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ||
१७ ग
वैशम्पाय़न उवाच:
भूय़श्च योधय़ामासुः कृत्वा कर्णमथाग्रतः |
१८ क
वैशम्पाय़न उवाच:
महता रथघोषेण हय़चारेण चाप्युत |
१८ ख
वैशम्पाय़न उवाच:
वैकर्तनं परीप्सन्तो गन्धर्वान्समवारय़न् ||
१८ ग
वैशम्पाय़न उवाच:
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह |
१९ क
वैशम्पाय़न उवाच:
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ||
१९ ख
वैशम्पाय़न उवाच:
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः |
२० क
वैशम्पाय़न उवाच:
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ||
२० ख
वैशम्पाय़न उवाच:
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः |
२१ क
वैशम्पाय़न उवाच:
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ||
२१ ख
वैशम्पाय़न उवाच:
ततो माय़ास्त्रमास्थाय़ युय़ुधे चित्रमार्गवित् |
२२ क
वैशम्पाय़न उवाच:
तय़ामुह्यन्त कौरव्याश्चित्रसेनस्य माय़या ||
२२ ख
वैशम्पाय़न उवाच:
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत |
२३ क
वैशम्पाय़न उवाच:
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ||
२३ ख
वैशम्पाय़न उवाच:
ततः सम्पीड्यमानास्ते वलेन महता तदा |
२४ क
वैशम्पाय़न उवाच:
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ||
२४ ख
वैशम्पाय़न उवाच:
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः |
२५ क
वैशम्पाय़न उवाच:
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ||
२५ ख
वैशम्पाय़न उवाच:
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौवलः |
२६ क
वैशम्पाय़न उवाच:
गन्धर्वान्योधय़ां चक्रुः समरे भृशविक्षताः ||
२६ ख
वैशम्पाय़न उवाच:
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः |
२७ क
वैशम्पाय़न उवाच:
जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ||
२७ ख
वैशम्पाय़न उवाच:
असिभिः पट्टिशैः शूलैर्गदाभिश्च महावलाः |
२८ क
वैशम्पाय़न उवाच:
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारय़न् ||
२८ ख
वैशम्पाय़न उवाच:
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातय़न् |
२९ क
वैशम्पाय़न उवाच:
ईषामन्ये हय़ानन्ये सूतमन्ये न्यपातय़न् ||
२९ ख
वैशम्पाय़न उवाच:
अन्ये छत्रं वरूथं च वन्धुरं च तथापरे |
३० क
वैशम्पाय़न उवाच:
गन्धर्वा वहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ||
३० ख
वैशम्पाय़न उवाच:
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् |
३१ क
वैशम्पाय़न उवाच:
विकर्णरथमास्थाय़ मोक्षाय़ाश्वानचोदय़त् ||
३१ ख