सञ्जय़ उवाच:
अलम्वुसं तथा युद्धे विचरन्तमभीतवत् |
१ क
सञ्जय़ उवाच:
हैडिम्वः प्रय़यौ तूर्णं विव्याध च शितैः शरैः ||
१ ख
सञ्जय़ उवाच:
तय़ोः प्रतिभय़ं युद्धमासीद्राक्षससिंहय़ोः |
२ क
सञ्जय़ उवाच:
कुर्वतोर्विविधा माय़ाः शक्रशम्वरय़ोरिव ||
२ ख
सञ्जय़ उवाच:
अलम्वुसो भृशं क्रुद्धो घटोत्कचमताडय़त् |
३ क
सञ्जय़ उवाच:
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे |
३ ख
सञ्जय़ उवाच:
अलम्वुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ||
३ ग
सञ्जय़ उवाच:
तथैवालम्वुसो राजन्हैडिम्वं युद्धदुर्मदम् |
४ क
सञ्जय़ उवाच:
विद्ध्वा विद्ध्वानदद्धृष्टः पूरय़न्खं समन्ततः ||
४ ख
सञ्जय़ उवाच:
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महावलौ |
५ क
सञ्जय़ उवाच:
निर्विशेषमय़ुध्येतां माय़ाभिरितरेतरम् ||
५ ख
सञ्जय़ उवाच:
माय़ाशतसृजौ दृप्तौ मोहय़न्तौ परस्परम् |
६ क
सञ्जय़ उवाच:
माय़ाय़ुद्धे सुकुशलौ माय़ाय़ुद्धमय़ुध्यताम् ||
६ ख
सञ्जय़ उवाच:
यां यां घटोत्कचो युद्धे माय़ां दर्शय़ते नृप |
७ क
सञ्जय़ उवाच:
तां तामलम्वुसो राजन्माय़यैव निजघ्निवान् ||
७ ख
सञ्जय़ उवाच:
तं तथा युध्यमानं तु माय़ाय़ुद्धविशारदम् |
८ क
सञ्जय़ उवाच:
अलम्वुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ||
८ ख
सञ्जय़ उवाच:
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः |
९ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादय़ो नृप ||
९ ख
सञ्जय़ उवाच:
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
१० क
सञ्जय़ उवाच:
सर्वतो व्यकिरन्वाणैरुल्काभिरिव कुञ्जरम् ||
१० ख
सञ्जय़ उवाच:
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमाय़या |
११ क
सञ्जय़ उवाच:
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ||
११ ख
सञ्जय़ उवाच:
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् |
१२ क
सञ्जय़ उवाच:
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः |
१२ ख
सञ्जय़ उवाच:
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ||
१२ ग
सञ्जय़ उवाच:
नकुलं च त्रिसप्तत्या द्रुपदेय़ांश्च मारिष |
१३ क
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ||
१३ ख
सञ्जय़ उवाच:
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः |
१४ क
सञ्जय़ उवाच:
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत |
१४ ख
सञ्जय़ उवाच:
नकुलश्च चतुःषष्ट्या द्रौपदेय़ास्त्रिभिस्त्रिभिः ||
१४ ग
सञ्जय़ उवाच:
हैडिम्वो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः |
१५ क
सञ्जय़ उवाच:
पुनर्विव्याध सप्तत्या ननाद च महावलः ||
१५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः |
१६ क
सञ्जय़ उवाच:
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ||
१६ ख
सञ्जय़ उवाच:
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः |
१७ क
सञ्जय़ उवाच:
हैडिम्वो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ||
१७ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता राक्षसेन्द्रो महावलः |
१८ क
सञ्जय़ उवाच:
व्यसृजत्साय़कांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ||
१८ ख
सञ्जय़ उवाच:
ते शरा नतपर्वाणो विविशू राक्षसं तदा |
१९ क
सञ्जय़ उवाच:
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महावलाः ||
१९ ख
सञ्जय़ उवाच:
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् |
२० क
सञ्जय़ उवाच:
प्रेषय़ामासुरुद्विग्ना हैडिम्वश्च घटोत्कचः ||
२० ख
सञ्जय़ उवाच:
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः |
२१ क
सञ्जय़ उवाच:
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचय़ोपमम् ||
२१ ख
सञ्जय़ उवाच:
समुत्क्षिप्य च वाहुभ्यामाविध्य च पुनः पुनः |
२२ क
सञ्जय़ उवाच:
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ||
२२ ख
सञ्जय़ उवाच:
वललाघवसम्पन्नः सम्पन्नो विक्रमेण च |
२३ क
सञ्जय़ उवाच:
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषय़त् ||
२३ ख
सञ्जय़ उवाच:
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः |
२४ क
सञ्जय़ उवाच:
घटोत्कचेन वीरेण हतः सालकटङ्कटः ||
२४ ख
सञ्जय़ उवाच:
ततः सुमनसः पार्था हते तस्मिन्निशाचरे |
२५ क
सञ्जय़ उवाच:
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ||
२५ ख
सञ्जय़ उवाच:
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महावलम् |
२६ क
सञ्जय़ उवाच:
अलम्वुसं भीमरूपं विशीर्णमिव पर्वतम् |
२६ ख
सञ्जय़ उवाच:
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ||
२६ ग
सञ्जय़ उवाच:
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः |
२७ क
सञ्जय़ उवाच:
यदृच्छय़ा निपतितं भूमावङ्गारकं यथा ||
२७ ख
सञ्जय़ उवाच:
घटोत्कचस्तु तद्धत्वा रक्षो वलवतां वरम् |
२८ क
सञ्जय़ उवाच:
मुमोच वलवन्नादं वलं हत्वेव वासवः ||
२८ ख
सञ्जय़ उवाच:
स पूज्यमानः पितृभिः सवान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते |
२९ क
सञ्जय़ उवाच:
रिपुं निहत्याभिननन्द वै तदा; अलम्वुसं पक्वमलम्वुसं यथा ||
२९ ख
सञ्जय़ उवाच:
ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधवाणघोषवान् |
३० क
सञ्जय़ उवाच:
निशम्य तं प्रत्यनदंस्तु कौरवा; स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ||
३० ख