व्यास उवाच:
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः |
१ क
व्यास उवाच:
साङ्ख्यन्याय़ेन संय़ुक्तं यदेतत्कीर्तितं मय़ा ||
१ ख
व्यास उवाच:
योगकृत्यं तु ते कृत्स्नं वर्तय़िष्यामि तच्छृणु |
२ क
व्यास उवाच:
एकत्वं वुद्धिमनसोरिन्द्रिय़ाणां च सर्वशः |
२ ख
व्यास उवाच:
आत्मनो ध्याय़िनस्तात ज्ञानमेतदनुत्तमम् ||
२ ग
व्यास उवाच:
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना |
३ क
व्यास उवाच:
आत्मारामेण वुद्धेन वोद्धव्यं शुचिकर्मणा ||
३ ख
व्यास उवाच:
योगदोषान्समुच्छिद्य पञ्च यान्कवय़ो विदुः |
४ क
व्यास उवाच:
कामं क्रोधं च लोभं च भय़ं स्वप्नं च पञ्चमम् ||
४ ख
व्यास उवाच:
क्रोधं शमेन जय़ति कामं सङ्कल्पवर्जनात् |
५ क
व्यास उवाच:
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ||
५ ख
व्यास उवाच:
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा |
६ क
व्यास उवाच:
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ||
६ ख
व्यास उवाच:
अप्रमादाद्भय़ं जह्याल्लोभं प्राज्ञोपसेवनात् |
७ क
व्यास उवाच:
एवमेतान्योगदोषाञ्जय़ेन्नित्यमतन्द्रितः ||
७ ख
व्यास उवाच:
अग्नींश्च व्राह्मणांश्चार्चेद्देवताः प्रणमेत च |
८ क
व्यास उवाच:
वर्जय़ेद्रुषितां वाचं हिंसाय़ुक्तां मनोनुगाम् ||
८ ख
व्यास उवाच:
व्रह्म तेजोमय़ं शुक्रं यस्य सर्वमिदं रसः |
९ क
व्यास उवाच:
एकस्य भूतं भूतस्य द्वय़ं स्थावरजङ्गमम् ||
९ ख
व्यास उवाच:
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा |
१० क
व्यास उवाच:
शौचमाहारसंशुद्धिरिन्द्रिय़ाणां च निग्रहः ||
१० ख
व्यास उवाच:
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति |
११ क
व्यास उवाच:
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ||
११ ख
व्यास उवाच:
समः सर्वेषु भूतेषु लव्धालव्धेन वर्तय़न् |
१२ क
व्यास उवाच:
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रिय़ः |
१२ ख
व्यास उवाच:
कामक्रोधौ वशे कृत्वा निनीषेद्व्रह्मणः पदम् ||
१२ ग
व्यास उवाच:
मनसश्चेन्द्रिय़ाणां च कृत्वैकाग्र्यं समाहितः |
१३ क
व्यास उवाच:
प्राग्रात्रापररात्रेषु धारय़ेन्मन आत्मना ||
१३ ख
व्यास उवाच:
जन्तोः पञ्चेन्द्रिय़स्यास्य यदेकं छिद्रमिन्द्रिय़म् |
१४ क
व्यास उवाच:
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ||
१४ ख
व्यास उवाच:
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा |
१५ क
व्यास उवाच:
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ||
१५ ख
व्यास उवाच:
तत एतानि संय़म्य मनसि स्थापय़ेद्यतिः |
१६ क
व्यास उवाच:
तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारय़ेत् ||
१६ ख
व्यास उवाच:
पञ्च ज्ञानेन सन्धाय़ मनसि स्थापय़ेद्यतिः |
१७ क
व्यास उवाच:
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि |
१७ ख
व्यास उवाच:
प्रसीदन्ति च संस्थाय़ तदा व्रह्म प्रकाशते ||
१७ ग
व्यास उवाच:
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् |
१८ क
व्यास उवाच:
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना |
१८ ख
व्यास उवाच:
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ||
१८ ग
व्यास उवाच:
तं पश्यन्ति महात्मानो व्राह्मणा ये मनीषिणः |
१९ क
व्यास उवाच:
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ||
१९ ख
व्यास उवाच:
एवं परिमितं कालमाचरन्संशितव्रतः |
२० क
व्यास उवाच:
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ||
२० ख
व्यास उवाच:
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने |
२१ क
व्यास उवाच:
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ||
२१ ख
व्यास उवाच:
प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः |
२२ क
व्यास उवाच:
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तय़ेत् ||
२२ ख
व्यास उवाच:
कुर्यात्परिचय़ं योगे त्रैकाल्यं निय़तो मुनिः |
२३ क
व्यास उवाच:
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ||
२३ ख
व्यास उवाच:
संनिय़म्येन्द्रिय़ग्रामं गोष्ठे भाण्डमना इव |
२४ क
व्यास उवाच:
एकाग्रश्चिन्तय़ेन्नित्यं योगान्नोद्वेजय़ेन्मनः ||
२४ ख
व्यास उवाच:
येनोपाय़ेन शक्येत संनिय़न्तुं चलं मनः |
२५ क
व्यास उवाच:
तं तं युक्तो निषेवेत न चैव विचलेत्ततः ||
२५ ख
व्यास उवाच:
शून्या गिरिगुहाश्चैव देवताय़तनानि च |
२६ क
व्यास उवाच:
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ||
२६ ख
व्यास उवाच:
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा |
२७ क
व्यास उवाच:
उपेक्षको यताहारो लव्धालव्धे समो भवेत् ||
२७ ख
व्यास उवाच:
यश्चैनमभिनन्देत यश्चैनमपवादय़ेत् |
२८ क
व्यास उवाच:
समस्तय़ोश्चाप्युभय़ोर्नाभिध्याय़ेच्छुभाशुभम् ||
२८ ख
व्यास उवाच:
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तय़ेत् |
२९ क
व्यास उवाच:
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ||
२९ ख
व्यास उवाच:
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः |
३० क
व्यास उवाच:
षण्मासान्नित्ययुक्तस्य शव्दव्रह्मातिवर्तते ||
३० ख
व्यास उवाच:
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः |
३१ क
व्यास उवाच:
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ||
३१ ख
व्यास उवाच:
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी |
३२ क
व्यास उवाच:
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ||
३२ ख
व्यास उवाच:
अजं पुराणमजरं सनातनं; यदिन्द्रिय़ैरुपलभते नरोऽचलः |
३३ क
व्यास उवाच:
अणोरणीय़ो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् ||
३३ ख
व्यास उवाच:
इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च |
३४ क
व्यास उवाच:
अवेक्ष्य चेय़ात्परमेष्ठिसात्म्यतां; प्रय़ान्ति यां भूतगतिं मनीषिणः ||
३४ ख