युधिष्ठिर उवाच:
अस्मानभिगतांस्तात भय़ार्ताञ्शरणैषिणः |
१ क
युधिष्ठिर उवाच:
कौरवान्विषमप्राप्तान्कथं व्रूय़ास्त्वमीदृशम् ||
१ ख
युधिष्ठिर उवाच:
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर |
२ क
युधिष्ठिर उवाच:
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ||
२ ख
युधिष्ठिर उवाच:
यदा तु कश्चिज्ज्ञातीनां वाह्यः प्रार्थय़ते कुलम् |
३ क
युधिष्ठिर उवाच:
न मर्षय़न्ति तत्सन्तो वाह्येनाभिप्रमर्षणम् ||
३ ख
युधिष्ठिर उवाच:
जानाति ह्येष दुर्वुद्धिरस्मानिह चिरोषितान् |
४ क
युधिष्ठिर उवाच:
स एष परिभूय़ास्मानकार्षीदिदमप्रिय़म् ||
४ ख
युधिष्ठिर उवाच:
दुर्योधनस्य ग्रहणाद्गन्धर्वेण वलाद्रणे |
५ क
युधिष्ठिर उवाच:
स्त्रीणां वाह्याभिमर्शाच्च हतं भवति नः कुलम् ||
५ ख
युधिष्ठिर उवाच:
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः |
६ क
युधिष्ठिर उवाच:
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ||
६ ख
युधिष्ठिर उवाच:
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः |
७ क
युधिष्ठिर उवाच:
मोक्षय़ध्वं धार्तराष्ट्रं ह्रिय़माणं सुय़ोधनम् ||
७ ख
युधिष्ठिर उवाच:
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः |
८ क
युधिष्ठिर उवाच:
इन्द्रसेनादिभिः सूतैः संय़ताः कनकध्वजाः ||
८ ख
युधिष्ठिर उवाच:
एतानास्थाय़ वै तात गन्धर्वान्योद्धुमाहवे |
९ क
युधिष्ठिर उवाच:
सुय़ोधनस्य मोक्षाय़ प्रय़तध्वमतन्द्रिताः ||
९ ख
युधिष्ठिर उवाच:
य एव कश्चिद्राजन्यः शरणार्थमिहागतम् |
१० क
युधिष्ठिर उवाच:
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ||
१० ख
युधिष्ठिर उवाच:
क इहान्यो भवेत्त्राणमभिधावेति चोदितः |
११ क
युधिष्ठिर उवाच:
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ||
११ ख
युधिष्ठिर उवाच:
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव |
१२ क
युधिष्ठिर उवाच:
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ||
१२ ख
युधिष्ठिर उवाच:
किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुय़ोधनः |
१३ क
युधिष्ठिर उवाच:
त्वद्वाहुवलमाश्रित्य जीवितं परिमार्गति ||
१३ ख
युधिष्ठिर उवाच:
स्वय़मेव प्रधावेय़ं यदि न स्याद्वृकोदर |
१४ क
युधिष्ठिर उवाच:
विततोऽय़ं क्रतुर्वीर न हि मेऽत्र विचारणा ||
१४ ख
युधिष्ठिर उवाच:
साम्नैव तु यथा भीम मोक्षय़ेथाः सुय़ोधनम् |
१५ क
युधिष्ठिर उवाच:
तथा सर्वैरुपाय़ैस्त्वं यतेथाः कुरुनन्दन ||
१५ ख
युधिष्ठिर उवाच:
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ |
१६ क
युधिष्ठिर उवाच:
पराक्रमेण मृदुना मोक्षय़ेथाः सुय़ोधनम् ||
१६ ख
युधिष्ठिर उवाच:
अथासौ मृदुय़ुद्धेन न मुञ्चेद्भीम कौरवान् |
१७ क
युधिष्ठिर उवाच:
सर्वोपाय़ैर्विमोच्यास्ते निगृह्य परिपन्थिनः ||
१७ ख
युधिष्ठिर उवाच:
एतावद्धि मय़ा शक्यं सन्देष्टुं वै वृकोदर |
१८ क
युधिष्ठिर उवाच:
वैताने कर्मणि तते वर्तमाने च भारत ||
१८ ख
वैशम्पाय़न उवाच:
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जय़ः |
१९ क
वैशम्पाय़न उवाच:
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ||
१९ ख
अर्जुन उवाच:
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् |
२० क
अर्जुन उवाच:
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ||
२० ख
वैशम्पाय़न उवाच:
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः |
२१ क
वैशम्पाय़न उवाच:
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ||
२१ ख