वैशम्पाय़न उवाच:
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः |
१ क
वैशम्पाय़न उवाच:
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ||
१ ख
वैशम्पाय़न उवाच:
अभेद्यानि ततः सर्वे समनह्यन्त भारत |
२ क
वैशम्पाय़न उवाच:
जाम्वूनदविचित्राणि कवचानि महारथाः ||
२ ख
वैशम्पाय़न उवाच:
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः |
३ क
वैशम्पाय़न उवाच:
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ||
३ ख
वैशम्पाय़न उवाच:
तान्रथान्साधु सम्पन्नान्संय़ुक्ताञ्जवनैर्हय़ैः |
४ क
वैशम्पाय़न उवाच:
आस्थाय़ रथशार्दूलाः शीघ्रमेव यय़ुस्ततः ||
४ ख
वैशम्पाय़न उवाच:
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः |
५ क
वैशम्पाय़न उवाच:
प्रय़ातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ||
५ ख
वैशम्पाय़न उवाच:
जितकाशिनश्च खचरास्त्वरिताश्च महारथाः |
६ क
वैशम्पाय़न उवाच:
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ||
६ ख
वैशम्पाय़न उवाच:
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः |
७ क
वैशम्पाय़न उवाच:
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ||
७ ख
वैशम्पाय़न उवाच:
तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् |
८ क
वैशम्पाय़न उवाच:
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ||
८ ख
वैशम्पाय़न उवाच:
राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः |
९ क
वैशम्पाय़न उवाच:
क्रमेण मृदुना युद्धमुपक्रामन्त भारत ||
९ ख
वैशम्पाय़न उवाच:
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः |
१० क
वैशम्पाय़न उवाच:
शक्यन्ते मृदुना श्रेय़ः प्रतिपादय़ितुं तदा ||
१० ख
वैशम्पाय़न उवाच:
ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः |
११ क
वैशम्पाय़न उवाच:
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ||
११ ख
वैशम्पाय़न उवाच:
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् |
१२ क
वैशम्पाय़न उवाच:
परदाराभिमर्शश्च मानुषैश्च समागमः ||
१२ ख
वैशम्पाय़न उवाच:
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् |
१३ क
वैशम्पाय़न उवाच:
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ||
१३ ख
वैशम्पाय़न उवाच:
एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना |
१४ क
वैशम्पाय़न उवाच:
उत्स्मय़न्तस्तदा पार्थमिदं वचनमव्रुवन् ||
१४ ख
वैशम्पाय़न उवाच:
एकस्यैव वय़ं तात कुर्याम वचनं भुवि |
१५ क
वैशम्पाय़न उवाच:
यस्य शासनमाज्ञाय़ चराम विगतज्वराः ||
१५ ख
वैशम्पाय़न उवाच:
तेनैकेन यथादिष्टं तथा वर्ताम भारत |
१६ क
वैशम्पाय़न उवाच:
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जय़ः |
१७ क
वैशम्पाय़न उवाच:
गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ||
१७ ख
वैशम्पाय़न उवाच:
यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् |
१८ क
वैशम्पाय़न उवाच:
मोक्षय़िष्यामि विक्रम्य स्वय़मेव सुय़ोधनम् ||
१८ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जय़ः |
१९ क
वैशम्पाय़न उवाच:
ससर्ज निशितान्वाणान्खचरान्खचरान्प्रति ||
१९ ख
वैशम्पाय़न उवाच:
तथैव शरवर्षेण गन्धर्वास्ते वलोत्कटाः |
२० क
वैशम्पाय़न उवाच:
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ||
२० ख
वैशम्पाय़न उवाच:
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् |
२१ क
वैशम्पाय़न उवाच:
वभूव भीमवेगानां पाण्डवानां च भारत ||
२१ ख