वैशम्पाय़न उवाच:
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः |
१ क
वैशम्पाय़न उवाच:
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारय़न् ||
१ ख
वैशम्पाय़न उवाच:
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः |
२ क
वैशम्पाय़न उवाच:
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ||
२ ख
वैशम्पाय़न उवाच:
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभय़ोः |
३ क
वैशम्पाय़न उवाच:
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ||
३ ख
वैशम्पाय़न उवाच:
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे |
४ क
वैशम्पाय़न उवाच:
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ||
४ ख
वैशम्पाय़न उवाच:
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः |
५ क
वैशम्पाय़न उवाच:
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ||
५ ख
वैशम्पाय़न उवाच:
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा |
६ क
वैशम्पाय़न उवाच:
लक्षय़ित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ||
६ ख
वैशम्पाय़न उवाच:
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् |
७ क
वैशम्पाय़न उवाच:
आग्नेय़ेनार्जुनः सङ्ख्ये गन्धर्वाणां वलोत्कटः ||
७ ख
वैशम्पाय़न उवाच:
तथा भीमो महेष्वासः संय़ुगे वलिनां वरः |
८ क
वैशम्पाय़न उवाच:
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ||
८ ख
वैशम्पाय़न उवाच:
माद्रीपुत्रावपि तथा युध्यमानौ वलोत्कटौ |
९ क
वैशम्पाय़न उवाच:
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ||
९ ख
वैशम्पाय़न उवाच:
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः |
१० क
वैशम्पाय़न उवाच:
उत्पेतुः खमुपादाय़ धृतराष्ट्रसुतांस्ततः ||
१० ख
वैशम्पाय़न उवाच:
तानुत्पतिष्णून्वुद्ध्वा तु कुन्तीपुत्रो धनञ्जय़ः |
११ क
वैशम्पाय़न उवाच:
महता शरजालेन समन्तात्पर्यवारय़त् ||
११ ख
वैशम्पाय़न उवाच:
ते वद्धाः शरजालेन शकुन्ता इव पञ्जरे |
१२ क
वैशम्पाय़न उवाच:
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ||
१२ ख
वैशम्पाय़न उवाच:
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् |
१३ क
वैशम्पाय़न उवाच:
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जय़ः ||
१३ ख
वैशम्पाय़न उवाच:
शिरोभिः प्रपतद्भिश्च चरणैर्वाहुभिस्तथा |
१४ क
वैशम्पाय़न उवाच:
अश्मवृष्टिरिवाभाति परेषामभवद्भय़म् ||
१४ ख
वैशम्पाय़न उवाच:
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना |
१५ क
वैशम्पाय़न उवाच:
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ||
१५ ख
वैशम्पाय़न उवाच:
तेषां तु शरवर्षाणि सव्यसाची परन्तपः |
१६ क
वैशम्पाय़न उवाच:
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ||
१६ ख
वैशम्पाय़न उवाच:
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः |
१७ क
वैशम्पाय़न उवाच:
आग्नेय़ं चापि सौम्यं च ससर्ज कुरुनन्दनः ||
१७ ख
वैशम्पाय़न उवाच:
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य साय़कैः |
१८ क
वैशम्पाय़न उवाच:
दैतेय़ा इव शक्रेण विषादमगमन्परम् ||
१८ ख
वैशम्पाय़न उवाच:
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः |
१९ क
वैशम्पाय़न उवाच:
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ||
१९ ख
वैशम्पाय़न उवाच:
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता |
२० क
वैशम्पाय़न उवाच:
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ||
२० ख
वैशम्पाय़न उवाच:
तस्याभिपततस्तूर्णं गदाहस्तस्य संय़ुगे |
२१ क
वैशम्पाय़न उवाच:
गदां सर्वाय़सीं पार्थः शरैश्चिच्छेद सप्तधा ||
२१ ख
वैशम्पाय़न उवाच:
स गदां वहुधा दृष्ट्वा कृत्तां वाणैस्तरस्विना |
२२ क
वैशम्पाय़न उवाच:
संवृत्य विद्ययात्मानं योधय़ामास पाण्डवम् |
२२ ख
वैशम्पाय़न उवाच:
अस्त्राणि तस्य दिव्यानि योधय़ामास खे स्थितः ||
२२ ग
वैशम्पाय़न उवाच:
गन्धर्वराजो वलवान्माय़यान्तर्हितस्तदा |
२३ क
वैशम्पाय़न उवाच:
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः |
२३ ख
वैशम्पाय़न उवाच:
ताडय़ामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ||
२३ ग
वैशम्पाय़न उवाच:
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा |
२४ क
वैशम्पाय़न उवाच:
शव्दवेध्यमुपाश्रित्य वहुरूपो धनञ्जय़ः ||
२४ ख
वैशम्पाय़न उवाच:
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना |
२५ क
वैशम्पाय़न उवाच:
अथास्य दर्शय़ामास तदात्मानं प्रिय़ः सखा ||
२५ ख
वैशम्पाय़न उवाच:
चित्रसेनमथालक्ष्य सखाय़ं युधि दुर्वलम् |
२६ क
वैशम्पाय़न उवाच:
सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ||
२६ ख
वैशम्पाय़न उवाच:
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जय़म् |
२७ क
वैशम्पाय़न उवाच:
सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ||
२७ ख
वैशम्पाय़न उवाच:
चित्रसेनश्च भीमश्च सव्यसाची यमावपि |
२८ क
वैशम्पाय़न उवाच:
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ||
२८ ख