भीष्म उवाच:
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् |
१ क
भीष्म उवाच:
तदनन्तरमुक्तं यत्तन्निवोध युधिष्ठिर ||
१ ख
भीष्म उवाच:
क्रमशस्त्ववधूय़ैनां तृतीय़ां वृत्तिमुत्तमाम् |
२ क
भीष्म उवाच:
संय़ोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ||
२ ख
भीष्म उवाच:
श्रूय़तां पार्थ भद्रं ते सर्वलोकाश्रय़ात्मनाम् |
३ क
भीष्म उवाच:
प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् ||
३ ख
व्यास उवाच:
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः |
४ क
व्यास उवाच:
अपत्यस्यैव चापत्यं वनमेव तदाश्रय़ेत् ||
४ ख
व्यास उवाच:
तृतीय़माय़ुषो भागं वानप्रस्थाश्रमे वसेत् |
५ क
व्यास उवाच:
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ||
५ ख
व्यास उवाच:
निय़तो निय़ताहारः षष्ठभक्तोऽप्रमादवान् |
६ क
व्यास उवाच:
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ||
६ ख
व्यास उवाच:
अकृष्टं वै व्रीहिय़वं नीवारं विघसानि च |
७ क
व्यास उवाच:
हवींषि सम्प्रय़च्छेत मखेष्वत्रापि पञ्चसु ||
७ ख
व्यास उवाच:
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तय़ः स्मृताः |
८ क
व्यास उवाच:
सद्यःप्रक्षालकाः केचित्केचिन्मासिकसञ्चय़ाः ||
८ ख
व्यास उवाच:
वार्षिकं सञ्चय़ं केचित्केचिद्द्वादशवार्षिकम् |
९ क
व्यास उवाच:
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धय़े ||
९ ख
व्यास उवाच:
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रय़ाः |
१० क
व्यास उवाच:
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ||
१० ख
व्यास उवाच:
भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि |
११ क
व्यास उवाच:
स्थानासनैर्वर्तय़न्ति सवनेष्वभिषिञ्चते ||
११ ख
व्यास उवाच:
दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे |
१२ क
व्यास उवाच:
शुक्लपक्षे पिवन्त्येके यवागूं क्वथितां सकृत् ||
१२ ख
व्यास उवाच:
कृष्णपक्षे पिवन्त्येके भुञ्जते च यथाक्रमम् |
१३ क
व्यास उवाच:
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ||
१३ ख
व्यास उवाच:
वर्तय़न्ति यथान्याय़ं वैखानसमतं श्रिताः |
१४ क
व्यास उवाच:
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ||
१४ ख
व्यास उवाच:
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः |
१५ क
व्यास उवाच:
वानप्रस्थो गृहस्थश्च ततोऽन्यः सम्प्रवर्तते ||
१५ ख
व्यास उवाच:
अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः |
१६ क
व्यास उवाच:
अगस्त्यः सप्त ऋषय़ो मधुच्छन्दोऽघमर्षणः ||
१६ ख
व्यास उवाच:
साङ्कृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः |
१७ क
व्यास उवाच:
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्वुधः ||
१७ ख
व्यास उवाच:
शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः |
१८ क
व्यास उवाच:
एवन्धर्मसु विद्वांसस्ततः स्वर्गमुपागमन् ||
१८ ख
व्यास उवाच:
तात प्रत्यक्षधर्माणस्तथा याय़ावरा गणाः |
१९ क
व्यास उवाच:
ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् ||
१९ ख
व्यास उवाच:
अवाच्यापरिमेय़ाश्च व्राह्मणा वनमाश्रिताः |
२० क
व्यास उवाच:
वैखानसा वालखिल्याः सिकताश्च तथापरे ||
२० ख
व्यास उवाच:
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रिय़ाः |
२१ क
व्यास उवाच:
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः |
२१ ख
व्यास उवाच:
अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः ||
२१ ग
व्यास उवाच:
जरय़ा च परिद्यूनो व्याधिना च प्रपीडितः |
२२ क
व्यास उवाच:
चतुर्थे चाय़ुषः शेषे वानप्रस्थाश्रमं त्यजेत् |
२२ ख
व्यास उवाच:
सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ||
२२ ग
व्यास उवाच:
आत्मय़ाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रय़ः |
२३ क
व्यास उवाच:
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ||
२३ ख
व्यास उवाच:
सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा |
२४ क
व्यास उवाच:
सदैव याजिनां यज्ञादात्मनीज्या निवर्तते ||
२४ ख
व्यास उवाच:
त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् |
२५ क
व्यास उवाच:
प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीय़ादकुत्सय़न् ||
२५ ख
व्यास उवाच:
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः |
२६ क
व्यास उवाच:
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः ||
२६ ख
व्यास उवाच:
अभय़ं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः |
२७ क
व्यास उवाच:
लोकास्तेजोमय़ास्तस्य प्रेत्य चानन्त्यमश्नुते ||
२७ ख
व्यास उवाच:
सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते |
२८ क
व्यास उवाच:
अरोषमोहो गतसन्धिविग्रहो; भवेदुदासीनवदात्मविन्नरः ||
२८ ख
व्यास उवाच:
यमेषु चैवात्मगतेषु न व्यथे; त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः |
२९ क
व्यास उवाच:
भवेद्यथेष्टा गतिरात्मय़ाजिनो; न संशय़ो धर्मपरे जीतेन्द्रिय़े ||
२९ ख
व्यास उवाच:
ततः परं श्रेष्ठमतीव सद्गुणै; रधिष्ठितं त्रीनधिवृत्तमुत्तमम् |
३० क
व्यास उवाच:
चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं पराय़णम् ||
३० ख