शुक उवाच:
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा |
१ क
शुक उवाच:
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ||
१ ख
व्यास उवाच:
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् |
२ क
व्यास उवाच:
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ||
२ ख
व्यास उवाच:
कषाय़ं पाचय़ित्वा तु श्रेणिस्थानेषु च त्रिषु |
३ क
व्यास उवाच:
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ||
३ ख
व्यास उवाच:
तद्भवानेवमभ्यस्य वर्ततां श्रूय़तां तथा |
४ क
व्यास उवाच:
एक एव चरेन्नित्यं सिद्ध्यर्थमसहाय़वान् ||
४ ख
व्यास उवाच:
एकश्चरति यः पश्यन्न जहाति न हीय़ते |
५ क
व्यास उवाच:
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रय़ेत् ||
५ ख
व्यास उवाच:
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः |
६ क
व्यास उवाच:
लघ्वाशी निय़ताहारः सकृदन्ननिषेविता ||
६ ख
व्यास उवाच:
कपालं वृक्षमूलानि कुचेलमसहाय़ता |
७ क
व्यास उवाच:
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ||
७ ख
व्यास उवाच:
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव |
८ क
व्यास उवाच:
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ||
८ ख
व्यास उवाच:
नैव पश्येन्न शृणुय़ादवाच्यं जातु कस्यचित् |
९ क
व्यास उवाच:
व्राह्मणानां विशेषेण नैव व्रूय़ात्कथञ्चन ||
९ ख
व्यास उवाच:
यद्व्राह्मणस्य कुशलं तदेव सततं वदेत् |
१० क
व्यास उवाच:
तूष्णीमासीत निन्दाय़ां कुर्वन्भेषजमात्मनः ||
१० ख
व्यास उवाच:
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा |
११ क
व्यास उवाच:
शून्यं येन जनाकीर्णं तं देवा व्राह्मणं विदुः ||
११ ख
व्यास उवाच:
येन केनचिदाच्छन्नो येन केनचिदाशितः |
१२ क
व्यास उवाच:
यत्रक्वचनशाय़ी च तं देवा व्राह्मणं विदुः ||
१२ ख
व्यास उवाच:
अहेरिव गणाद्भीतः सौहित्यान्नरकादिव |
१३ क
व्यास उवाच:
कुणपादिव च स्त्रीभ्यस्तं देवा व्राह्मणं विदुः ||
१३ ख
व्यास उवाच:
न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः |
१४ क
व्यास उवाच:
सर्वभूतेष्वभय़दस्तं देवा व्राह्मणं विदुः ||
१४ ख
व्यास उवाच:
नाभिनन्देत मरणं नाभिनन्देत जीवितम् |
१५ क
व्यास उवाच:
कालमेव प्रतीक्षेत निदेशं भृतको यथा ||
१५ ख
व्यास उवाच:
अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा |
१६ क
व्यास उवाच:
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भय़म् ||
१६ ख
व्यास उवाच:
अभय़ं सर्वभूतेभ्यो भूतानामभय़ं यतः |
१७ क
व्यास उवाच:
तस्य देहाद्विमुक्तस्य भय़ं नास्ति कुतश्चन ||
१७ ख
व्यास उवाच:
यथा नागपदेऽन्यानि पदानि पदगामिनाम् |
१८ क
व्यास उवाच:
सर्वाण्येवापिधीय़न्ते पदजातानि कौञ्जरे ||
१८ ख
व्यास उवाच:
एवं सर्वमहिंसाय़ां धर्मार्थमपिधीय़ते |
१९ क
व्यास उवाच:
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ||
१९ ख
व्यास उवाच:
अहिंसकः समः सत्यो धृतिमान्निय़तेन्द्रिय़ः |
२० क
व्यास उवाच:
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ||
२० ख
व्यास उवाच:
एवं प्रज्ञानतृप्तस्य निर्भय़स्य मनीषिणः |
२१ क
व्यास उवाच:
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ||
२१ ख
व्यास उवाच:
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् |
२२ क
व्यास उवाच:
अस्वमेकचरं शान्तं तं देवा व्राह्मणं विदुः ||
२२ ख
व्यास उवाच:
जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च |
२३ क
व्यास उवाच:
अहोरात्राश्च पुण्यार्थं तं देवा व्राह्मणं विदुः ||
२३ ख
व्यास उवाच:
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् |
२४ क
व्यास उवाच:
अक्षीणं क्षीणकर्माणं तं देवा व्राह्मणं विदुः ||
२४ ख
व्यास उवाच:
सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति |
२५ क
व्यास उवाच:
तेषां भय़ोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः ||
२५ ख
व्यास उवाच:
दानं हि भूताभय़दक्षिणाय़ाः; सर्वाणि दानान्यधितिष्ठतीह |
२६ क
व्यास उवाच:
तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभय़ं प्रजाभ्यः ||
२६ ख
व्यास उवाच:
उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा |
२७ क
व्यास उवाच:
तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे ||
२७ ख
व्यास उवाच:
प्रादेशमात्रे हृदि निश्रितं य; त्तस्मिन्प्राणानात्मय़ाजी जुहोति |
२८ क
व्यास उवाच:
तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु ||
२८ ख
व्यास उवाच:
दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च |
२९ क
व्यास उवाच:
ते सर्वलोकेषु महीय़माना; देवाः समर्थाः सुकृतं व्रजन्ति ||
२९ ख
व्यास उवाच:
वेदांश्च वेद्यं च विधिं च कृत्स्न; मथो निरुक्तं परमार्थतां च |
३० क
व्यास उवाच:
सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहय़न्ति नित्यम् ||
३० ख
व्यास उवाच:
भूमावसक्तं दिवि चाप्रमेय़ं; हिरण्मय़ं योऽण्डजमण्डमध्ये |
३१ क
व्यास उवाच:
पतत्रिणं पक्षिणमन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः ||
३१ ख
व्यास उवाच:
आवर्तमानमजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व |
३२ क
व्यास उवाच:
यस्येदमास्ये परिय़ाति विश्वं; तत्कालचक्रं निहितं गुहाय़ाम् ||
३२ ख
व्यास उवाच:
यः सम्प्रसादं जगतः शरीरं; सर्वान्स लोकानधिगच्छतीह |
३३ क
व्यास उवाच:
तस्मिन्हुतं तर्पय़तीह देवां; स्ते वै तृप्तास्तर्पय़न्त्यास्यमस्य ||
३३ ख
व्यास उवाच:
तेजोमय़ो नित्यतनुः पुराणो; लोकाननन्तानभय़ानुपैति |
३४ क
व्यास उवाच:
भूतानि यस्मान्न त्रसन्ते कदा चि; त्स भूतेभ्यो न त्रसते कदाचित् ||
३४ ख
व्यास उवाच:
अगर्हणीय़ो न च गर्हतेऽन्या; न्स वै विप्रः परमात्मानमीक्षेत् |
३५ क
व्यास उवाच:
विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च योऽर्थमृच्छति ||
३५ ख
व्यास उवाच:
अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसन्धिविग्रहः |
३६ क
व्यास उवाच:
अपेतनिन्दास्तुतिरप्रिय़ाप्रिय़; श्चरन्नुदासीनवदेष भिक्षुकः ||
३६ ख