शुक उवाच:
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे |
१ क
शुक उवाच:
यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम ||
१ ख
व्यास उवाच:
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते |
२ क
व्यास उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु ||
२ ख
व्यास उवाच:
भूमिरापस्तथा ज्योतिर्वाय़ुराकाशमेव च |
३ क
व्यास उवाच:
महाभूतानि भूतानां सागरस्योर्मय़ो यथा ||
३ ख
व्यास उवाच:
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः |
४ क
व्यास उवाच:
तद्वन्महान्ति भूतानि यवीय़ःसु विकुर्वते ||
४ ख
व्यास उवाच:
इति तन्मय़मेवेदं सर्वं स्थावरजङ्गमम् |
५ क
व्यास उवाच:
सर्गे च प्रलय़े चैव तस्मान्निर्दिश्यते तथा ||
५ ख
व्यास उवाच:
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् |
६ क
व्यास उवाच:
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ||
६ ख
शुक उवाच:
अकरोद्यच्छरीरेषु कथं तदुपलक्षय़ेत् |
७ क
शुक उवाच:
इन्द्रिय़ाणि गुणाः केचित्कथं तानुपलक्षय़ेत् ||
७ ख
व्यास उवाच:
एतत्ते वर्तय़िष्यामि यथावदिह दर्शनम् |
८ क
व्यास उवाच:
शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् ||
८ ख
व्यास उवाच:
शव्दः श्रोत्रं तथा खानि त्रय़माकाशसम्भवम् |
९ क
व्यास उवाच:
प्राणश्चेष्टा तथा स्पर्श एते वाय़ुगुणास्त्रय़ः ||
९ ख
व्यास उवाच:
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीय़ते |
१० क
व्यास उवाच:
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रय़ोऽम्भसाम् ||
१० ख
व्यास उवाच:
घ्रेय़ं घ्राणं शरीरं च भूमेरेते गुणास्त्रय़ः |
११ क
व्यास उवाच:
एतावानिन्द्रिय़ग्रामो व्याख्यातः पाञ्चभौतिकः ||
११ ख
व्यास उवाच:
वाय़ोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते |
१२ क
व्यास उवाच:
आकाशप्रभवः शव्दो गन्धो भूमिगुणः स्मृतः ||
१२ ख
व्यास उवाच:
मनो वुद्धिश्च भावश्च त्रय़ एतेऽऽत्मय़ोनिजाः |
१३ क
व्यास उवाच:
न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ||
१३ ख
व्यास उवाच:
इन्द्रिय़ाणि नरे पञ्च षष्ठं तु मन उच्यते |
१४ क
व्यास उवाच:
सप्तमीं वुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ||
१४ ख
व्यास उवाच:
चक्षुरालोचनाय़ैव संशय़ं कुरुते मनः |
१५ क
व्यास उवाच:
वुद्धिरध्यवसानाय़ साक्षी क्षेत्रज्ञ उच्यते ||
१५ ख
व्यास उवाच:
रजस्तमश्च सत्त्वं च त्रय़ एते स्वय़ोनिजाः |
१६ क
व्यास उवाच:
समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षय़ेत् ||
१६ ख
व्यास उवाच:
यथा कूर्म इहाङ्गानि प्रसार्य विनिय़च्छति |
१७ क
व्यास उवाच:
एवमेवेन्द्रिय़ग्रामं वुद्धिः सृष्ट्वा निय़च्छति ||
१७ ख
व्यास उवाच:
यदूर्ध्वं पादतलय़ोरवाङ्मूर्ध्नश्च पश्यति |
१८ क
व्यास उवाच:
एतस्मिन्नेव कृत्ये वै वर्तते वुद्धिरुत्तमा ||
१८ ख
व्यास उवाच:
गुणान्नेनीय़ते वुद्धिर्वुद्धिरेवेन्द्रिय़ाण्यपि |
१९ क
व्यास उवाच:
मनःषष्ठानि सर्वाणि वुद्ध्यभावे कुतो गुणाः ||
१९ ख
व्यास उवाच:
तत्र यत्प्रीतिसंय़ुक्तं किञ्चिदात्मनि लक्षय़ेत् |
२० क
व्यास उवाच:
प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारय़ेत् ||
२० ख
व्यास उवाच:
यत्तु सन्तापसंय़ुक्तं काय़े मनसि वा भवेत् |
२१ क
व्यास उवाच:
रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् ||
२१ ख
व्यास उवाच:
यत्तु संमोहसंय़ुक्तमव्यक्तविषय़ं भवेत् |
२२ क
व्यास उवाच:
अप्रतर्क्यमविज्ञेय़ं तमस्तदुपधार्यताम् ||
२२ ख
व्यास उवाच:
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता |
२३ क
व्यास उवाच:
अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः ||
२३ ख
व्यास उवाच:
अभिमानो मृषावादो लोभो मोहस्तथाक्षमा |
२४ क
व्यास उवाच:
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ||
२४ ख
व्यास उवाच:
तथा मोहः प्रमादश्च तन्द्री निद्राप्रवोधिता |
२५ क
व्यास उवाच:
कथञ्चिदभिवर्तन्ते विज्ञेय़ास्तामसा गुणाः ||
२५ ख