chevron_left भीष्म पर्व अध्याय २४
सञ्जय़ उवाच:
तं तथा कृपय़ाविष्टमश्रुपूर्णाकुलेक्षणम् |
१ क
सञ्जय़ उवाच:
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||
१ ख
श्रीभगवानु उवाच:
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
२ क
श्रीभगवानु उवाच:
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||
२ ख
श्रीभगवानु उवाच:
क्लैव्यं मा स्म गमः पार्थ नैतत्त्वय़्युपपद्यते |
३ क
श्रीभगवानु उवाच:
क्षुद्रं हृदय़दौर्वल्यं त्यक्त्वोत्तिष्ठ परन्तप ||
३ ख
अर्जुन उवाच:
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
४ क
अर्जुन उवाच:
इषुभिः प्रतिय़ोत्स्यामि पूजार्हावरिसूदन ||
४ ख
अर्जुन उवाच:
गुरूनहत्वा हि महानुभावा; ञ्श्रेय़ो भोक्तुं भैक्षमपीह लोके |
५ क
अर्जुन उवाच:
हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय़ भोगान्रुधिरप्रदिग्धान् ||
५ ख
अर्जुन उवाच:
न चैतद्विद्मः कतरन्नो गरीय़ो; यद्वा जय़ेम यदि वा नो जय़ेय़ुः |
६ क
अर्जुन उवाच:
यानेव हत्वा न जिजीविषाम; स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||
६ ख
अर्जुन उवाच:
कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः |
७ क
अर्जुन उवाच:
यच्छ्रेय़ः स्यान्निश्चितं व्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||
७ ख
अर्जुन उवाच:
न हि प्रपश्यामि ममापनुद्या; द्यच्छोकमुच्छोषणमिन्द्रिय़ाणाम् |
८ क
अर्जुन उवाच:
अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ||
८ ख
सञ्जय़ उवाच:
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
९ क
सञ्जय़ उवाच:
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं वभूव ह ||
९ ख
सञ्जय़ उवाच:
तमुवाच हृषीकेशः प्रहसन्निव भारत |
१० क
सञ्जय़ उवाच:
सेनय़ोरुभय़ोर्मध्ये विषीदन्तमिदं वचः ||
१० ख
श्रीभगवानु उवाच:
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
११ क
श्रीभगवानु उवाच:
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||
११ ख
श्रीभगवानु उवाच:
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
१२ क
श्रीभगवानु उवाच:
न चैव न भविष्यामः सर्वे वय़मतः परम् ||
१२ ख
श्रीभगवानु उवाच:
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
१३ क
श्रीभगवानु उवाच:
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||
१३ ख
श्रीभगवानु उवाच:
मात्रास्पर्शास्तु कौन्तेय़ शीतोष्णसुखदुःखदाः |
१४ क
श्रीभगवानु उवाच:
आगमापाय़िनोऽनित्यास्तांस्तितिक्षस्व भारत ||
१४ ख
श्रीभगवानु उवाच:
यं हि न व्यथय़न्त्येते पुरुषं पुरुषर्षभ |
१५ क
श्रीभगवानु उवाच:
समदुःखसुखं धीरं सोऽमृतत्वाय़ कल्पते ||
१५ ख
श्रीभगवानु उवाच:
नासतो विद्यते भावो नाभावो विद्यते सतः |
१६ क
श्रीभगवानु उवाच:
उभय़ोरपि दृष्टोऽन्तस्त्वनय़ोस्तत्त्वदर्शिभिः ||
१६ ख
श्रीभगवानु उवाच:
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
१७ क
श्रीभगवानु उवाच:
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||
१७ ख
श्रीभगवानु उवाच:
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
१८ क
श्रीभगवानु उवाच:
अनाशिनोऽप्रमेय़स्य तस्माद्युध्यस्व भारत ||
१८ ख
श्रीभगवानु उवाच:
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
१९ क
श्रीभगवानु उवाच:
उभौ तौ न विजानीतो नाय़ं हन्ति न हन्यते ||
१९ ख
श्रीभगवानु उवाच:
न जाय़ते म्रिय़ते वा कदा चि; न्नाय़ं भूत्वा भविता वा न भूय़ः |
२० क
श्रीभगवानु उवाच:
अजो नित्यः शाश्वतोऽय़ं पुराणो; न हन्यते हन्यमाने शरीरे ||
२० ख
श्रीभगवानु उवाच:
वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
२१ क
श्रीभगवानु उवाच:
कथं स पुरुषः पार्थ कं घातय़ति हन्ति कम् ||
२१ ख
श्रीभगवानु उवाच:
वासांसि जीर्णानि यथा विहाय़; नवानि गृह्णाति नरोऽपराणि |
२२ क
श्रीभगवानु उवाच:
तथा शरीराणि विहाय़ जीर्णा; न्यन्यानि संय़ाति नवानि देही ||
२२ ख
श्रीभगवानु उवाच:
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
२३ क
श्रीभगवानु उवाच:
न चैनं क्लेदय़न्त्यापो न शोषय़ति मारुतः ||
२३ ख
श्रीभगवानु उवाच:
अच्छेद्योऽय़मदाह्योऽय़मक्लेद्योऽशोष्य एव च |
२४ क
श्रीभगवानु उवाच:
नित्यः सर्वगतः स्थाणुरचलोऽय़ं सनातनः ||
२४ ख
श्रीभगवानु उवाच:
अव्यक्तोऽय़मचिन्त्योऽय़मविकार्योऽय़मुच्यते |
२५ क
श्रीभगवानु उवाच:
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||
२५ ख
श्रीभगवानु उवाच:
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
२६ क
श्रीभगवानु उवाच:
तथापि त्वं महावाहो नैनं शोचितुमर्हसि ||
२६ ख
श्रीभगवानु उवाच:
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
२७ क
श्रीभगवानु उवाच:
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||
२७ ख
श्रीभगवानु उवाच:
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
२८ क
श्रीभगवानु उवाच:
अव्यक्तनिधनान्येव तत्र का परिदेवना ||
२८ ख
श्रीभगवानु उवाच:
आश्चर्यवत्पश्यति कश्चिदेन; माश्चर्यवद्वदति तथैव चान्यः |
२९ क
श्रीभगवानु उवाच:
आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ||
२९ ख
श्रीभगवानु उवाच:
देही नित्यमवध्योऽय़ं देहे सर्वस्य भारत |
३० क
श्रीभगवानु उवाच:
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||
३० ख
श्रीभगवानु उवाच:
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
३१ क
श्रीभगवानु उवाच:
धर्म्याद्धि युद्धाच्छ्रेय़ोऽन्यत्क्षत्रिय़स्य न विद्यते ||
३१ ख
श्रीभगवानु उवाच:
यदृच्छय़ा चोपपन्नं स्वर्गद्वारमपावृतम् |
३२ क
श्रीभगवानु उवाच:
सुखिनः क्षत्रिय़ाः पार्थ लभन्ते युद्धमीदृशम् ||
३२ ख
श्रीभगवानु उवाच:
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि |
३३ क
श्रीभगवानु उवाच:
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||
३३ ख
श्रीभगवानु उवाच:
अकीर्तिं चापि भूतानि कथय़िष्यन्ति तेऽव्ययाम् |
३४ क
श्रीभगवानु उवाच:
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||
३४ ख
श्रीभगवानु उवाच:
भय़ाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
३५ क
श्रीभगवानु उवाच:
येषां च त्वं वहुमतो भूत्वा यास्यसि लाघवम् ||
३५ ख
श्रीभगवानु उवाच:
अवाच्यवादांश्च वहून्वदिष्यन्ति तवाहिताः |
३६ क
श्रीभगवानु उवाच:
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||
३६ ख
श्रीभगवानु उवाच:
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
३७ क
श्रीभगवानु उवाच:
तस्मादुत्तिष्ठ कौन्तेय़ युद्धाय़ कृतनिश्चय़ः ||
३७ ख
श्रीभगवानु उवाच:
सुखदुःखे समे कृत्वा लाभालाभौ जय़ाजय़ौ |
३८ क
श्रीभगवानु उवाच:
ततो युद्धाय़ युज्यस्व नैवं पापमवाप्स्यसि ||
३८ ख
श्रीभगवानु उवाच:
एषा तेऽभिहिता साङ्ख्ये वुद्धिर्योगे त्विमां शृणु |
३९ क
श्रीभगवानु उवाच:
वुद्ध्या युक्तो यय़ा पार्थ कर्मवन्धं प्रहास्यसि ||
३९ ख
श्रीभगवानु उवाच:
नेहाभिक्रमनाशोऽस्ति प्रत्यवाय़ो न विद्यते |
४० क
श्रीभगवानु उवाच:
स्वल्पमप्यस्य धर्मस्य त्राय़ते महतो भय़ात् ||
४० ख
श्रीभगवानु उवाच:
व्यवसाय़ात्मिका वुद्धिरेकेह कुरुनन्दन |
४१ क
श्रीभगवानु उवाच:
वहुशाखा ह्यनन्ताश्च वुद्धय़ोऽव्यवसाय़िनाम् ||
४१ ख
श्रीभगवानु उवाच:
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
४२ क
श्रीभगवानु उवाच:
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||
४२ ख
श्रीभगवानु उवाच:
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
४३ क
श्रीभगवानु उवाच:
क्रिय़ाविशेषवहुलां भोगैश्वर्यगतिं प्रति ||
४३ ख
श्रीभगवानु उवाच:
भोगैश्वर्यप्रसक्तानां तय़ापहृतचेतसाम् |
४४ क
श्रीभगवानु उवाच:
व्यवसाय़ात्मिका वुद्धिः समाधौ न विधीय़ते ||
४४ ख
श्रीभगवानु उवाच:
त्रैगुण्यविषय़ा वेदा निस्त्रैगुण्यो भवार्जुन |
४५ क
श्रीभगवानु उवाच:
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||
४५ ख
श्रीभगवानु उवाच:
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
४६ क
श्रीभगवानु उवाच:
तावान्सर्वेषु वेदेषु व्राह्मणस्य विजानतः ||
४६ ख
श्रीभगवानु उवाच:
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
४७ क
श्रीभगवानु उवाच:
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||
४७ ख
श्रीभगवानु उवाच:
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय़ |
४८ क
श्रीभगवानु उवाच:
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||
४८ ख
श्रीभगवानु उवाच:
दूरेण ह्यवरं कर्म वुद्धिय़ोगाद्धनञ्जय़ |
४९ क
श्रीभगवानु उवाच:
वुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||
४९ ख
श्रीभगवानु उवाच:
वुद्धिय़ुक्तो जहातीह उभे सुकृतदुष्कृते |
५० क
श्रीभगवानु उवाच:
तस्माद्योगाय़ युज्यस्व योगः कर्मसु कौशलम् ||
५० ख