सञ्जय़ उवाच:
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् |
४८ क
सञ्जय़ उवाच:
सुस्रुवुश्च शकृन्मूत्रं प्रध्याय़न्तो विशां पते ||
४८ ख
सञ्जय़ उवाच:
अन्तर्हिता महानादाः श्रूय़न्ते भरतर्षभ |
४९ क
सञ्जय़ उवाच:
रक्षसां पुरुषादानां नदतां भैरवान्रवान् ||
४९ ख
सञ्जय़ उवाच:
सम्पतन्तः स्म दृश्यन्ते गोमाय़ुवकवाय़साः |
५० क
सञ्जय़ उवाच:
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ||
५० ख
सञ्जय़ उवाच:
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् |
५१ क
सञ्जय़ उवाच:
निपेतुः सहसा भूमौ वेदय़ाना महद्भय़म् ||
५१ ख
सञ्जय़ उवाच:
महान्त्यनीकानि महासमुच्छ्रय़े; समागमे पाण्डवधार्तराष्ट्रय़ोः |
५२ क
सञ्जय़ उवाच:
प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वाय़ुना ||
५२ ख
सञ्जय़ उवाच:
नरेन्द्रनागाश्वसमाकुलाना; मभ्याय़तीनामशिवे मुहूर्ते |
५३ क
सञ्जय़ उवाच:
वभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||
५३ ख