chevron_left आदि पर्व अध्याय २४
सूत उवाच:
इत्युक्तो गरुडः सर्पैस्ततो मातरमव्रवीत् |
१ क
सूत उवाच:
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||
१ ख
विनतो उवाच:
समुद्रकुक्षावेकान्ते निषादालय़मुत्तमम् |
२ क
विनतो उवाच:
सहस्राणामनेकानां तान्भुक्त्वामृतमानय़ ||
२ ख
विनतो उवाच:
न तु ते व्राह्मणं हन्तुं कार्या वुद्धिः कथञ्चन |
३ क
विनतो उवाच:
अवध्यः सर्वभूतानां व्राह्मणो ह्यनलोपमः ||
३ ख
विनतो उवाच:
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः |
४ क
विनतो उवाच:
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||
४ ख
गरुड उवाच:
यथाहमभिजानीय़ां व्राह्मणं लक्षणैः शुभैः |
५ क
गरुड उवाच:
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||
५ ख
विनतो उवाच:
यस्ते कण्ठमनुप्राप्तो निगीर्णं वडिशं यथा |
६ क
विनतो उवाच:
दहेदङ्गारवत्पुत्र तं विद्याद्वाह्मणर्षभम् ||
६ ख
सूत उवाच:
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः |
७ क
सूत उवाच:
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||
७ ख
सूत उवाच:
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक |
८ क
सूत उवाच:
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||
८ ख
सूत उवाच:
अहं च ते सदा पुत्र शान्तिस्वस्तिपराय़णा |
९ क
सूत उवाच:
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धय़े ||
९ ख
सूत उवाच:
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात |
१० क
सूत उवाच:
ततो निषादान्वलवानुपागम; द्वुभुक्षितः काल इवान्तको महान् ||
१० ख
सूत उवाच:
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय़ नभःस्पृशं महत् |
११ क
सूत उवाच:
समुद्रकुक्षौ च विशोषय़न्पय़ः; समीपगान्भूमिधरान्विचालय़न् ||
११ ख
सूत उवाच:
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् |
१२ क
सूत उवाच:
ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||
१२ ख
सूत उवाच:
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः |
१३ क
सूत उवाच:
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||
१३ ख
सूत उवाच:
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महावलः |
१४ क
सूत उवाच:
निषूदय़न्वहुविधमत्स्यभक्षिणो; वुभुक्षितो गगनचरेश्वरस्तदा ||
१४ ख