गान्धार्यु उवाच:
सोमदत्तसुतं पश्य युय़ुधानेन पातितम् |
१ क
गान्धार्यु उवाच:
वितुद्यमानं विहगैर्वहुभिर्माधवान्तिके ||
१ ख
गान्धार्यु उवाच:
पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन |
२ क
गान्धार्यु उवाच:
युय़ुधानं महेष्वासं गर्हय़न्निव दृश्यते ||
२ ख
गान्धार्यु उवाच:
असौ तु भूरिश्रवसो माता शोकपरिप्लुता |
३ क
गान्धार्यु उवाच:
आश्वासय़ति भर्तारं सोमदत्तमनिन्दिता ||
३ ख
गान्धार्यु उवाच:
दिष्ट्या नेदं महाराज दारुणं भरतक्षय़म् |
४ क
गान्धार्यु उवाच:
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ||
४ ख
गान्धार्यु उवाच:
दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् |
५ क
गान्धार्यु उवाच:
अनेकक्रतुय़ज्वानं निहतं नाद्य पश्यसि ||
५ ख
गान्धार्यु उवाच:
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं वहु |
६ क
गान्धार्यु उवाच:
न शृणोषि महाराज सारसीनामिवार्णवे ||
६ ख
गान्धार्यु उवाच:
एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः |
७ क
गान्धार्यु उवाच:
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ||
७ ख
गान्धार्यु उवाच:
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि |
८ क
गान्धार्यु उवाच:
छिन्नवाहुं नरव्याघ्रमर्जुनेन निपातितम् ||
८ ख
गान्धार्यु उवाच:
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च |
९ क
गान्धार्यु उवाच:
स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ||
९ ख
गान्धार्यु उवाच:
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः |
१० क
गान्धार्यु उवाच:
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ||
१० ख
गान्धार्यु उवाच:
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् |
११ क
गान्धार्यु उवाच:
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ||
११ ख
गान्धार्यु उवाच:
एता विलप्य वहुलं भर्तृशोकेन कर्शिताः |
१२ क
गान्धार्यु उवाच:
पतन्त्यभिमुखा भूमौ कृपणं वत केशव ||
१२ ख
गान्धार्यु उवाच:
वीभत्सुरतिवीभत्सं कर्मेदमकरोत्कथम् |
१३ क
गान्धार्यु उवाच:
प्रमत्तस्य यदच्छैत्सीद्वाहुं शूरस्य यज्वनः ||
१३ ख
गान्धार्यु उवाच:
ततः पापतरं कर्म कृतवानपि सात्यकिः |
१४ क
गान्धार्यु उवाच:
यस्मात्प्राय़ोपविष्टस्य प्राहार्षीत्संशितात्मनः ||
१४ ख
गान्धार्यु उवाच:
एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः |
१५ क
गान्धार्यु उवाच:
इति यूपध्वजस्यैताः स्त्रिय़ः क्रोशन्ति माधव ||
१५ ख
गान्धार्यु उवाच:
भार्या यूपध्वजस्यैषा करसंमितमध्यमा |
१६ क
गान्धार्यु उवाच:
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवय़त् ||
१६ ख
गान्धार्यु उवाच:
अय़ं स रशनोत्कर्षी पीनस्तनविमर्दनः |
१७ क
गान्धार्यु उवाच:
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ||
१७ ख
गान्धार्यु उवाच:
वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा |
१८ क
गान्धार्यु उवाच:
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ||
१८ ख
गान्धार्यु उवाच:
किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन |
१९ क
गान्धार्यु उवाच:
अर्जुनस्य महत्कर्म स्वय़ं वा स किरीटवान् ||
१९ ख
गान्धार्यु उवाच:
इत्येवं गर्हय़ित्वैषा तूष्णीमास्ते वराङ्गना |
२० क
गान्धार्यु उवाच:
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ||
२० ख
गान्धार्यु उवाच:
गान्धारराजः शकुनिर्वलवान्सत्यविक्रमः |
२१ क
गान्धार्यु उवाच:
निहतः सहदेवेन भागिनेय़ेन मातुलः ||
२१ ख
गान्धार्यु उवाच:
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते |
२२ क
गान्धार्यु उवाच:
स एष पक्षिभिः पक्षैः शय़ान उपवीज्यते ||
२२ ख
गान्धार्यु उवाच:
यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः |
२३ क
गान्धार्यु उवाच:
तस्य माय़ाविनो माय़ा दग्धाः पाण्डवतेजसा ||
२३ ख
गान्धार्यु उवाच:
माय़या निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् |
२४ क
गान्धार्यु उवाच:
सभाय़ां विपुलं राज्यं स पुनर्जीवितं जितः ||
२४ ख
गान्धार्यु उवाच:
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते |
२५ क
गान्धार्यु उवाच:
कितवं मम पुत्राणां विनाशाय़ोपशिक्षितम् ||
२५ ख
गान्धार्यु उवाच:
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह |
२६ क
गान्धार्यु उवाच:
वधाय़ मम पुत्राणामात्मनः सगणस्य च ||
२६ ख
गान्धार्यु उवाच:
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो |
२७ क
गान्धार्यु उवाच:
एवमस्यापि दुर्वुद्धेर्लोकाः शस्त्रेण वै जिताः ||
२७ ख
गान्धार्यु उवाच:
कथं च नाय़ं तत्रापि पुत्रान्मे भ्रातृभिः सह |
२८ क
गान्धार्यु उवाच:
विरोधय़ेदृजुप्रज्ञाननृजुर्मधुसूदन ||
२८ ख