chevron_left शान्ति पर्व अध्याय २४४
व्यास उवाच:
द्वन्द्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः |
१ क
व्यास उवाच:
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ||
१ ख
व्यास उवाच:
आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी |
२ क
व्यास उवाच:
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ||
२ ख
व्यास उवाच:
अन्तरात्मकमाकाशं तन्मय़ं श्रोत्रमिन्द्रिय़म् |
३ क
व्यास उवाच:
तस्य शव्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् ||
३ ख
व्यास उवाच:
चरणं मारुतात्मेति प्राणापानौ च तन्मय़ौ |
४ क
व्यास उवाच:
स्पर्शनं चेन्द्रिय़ं विद्यात्तथा स्पर्शं च तन्मय़म् ||
४ ख
व्यास उवाच:
ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मय़म् |
५ क
व्यास उवाच:
तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् ||
५ ख
व्यास उवाच:
प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते |
६ क
व्यास उवाच:
रसनं चेन्द्रिय़ं जिह्वा रसश्चापां गुणो मतः ||
६ ख
व्यास उवाच:
सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च |
७ क
व्यास उवाच:
श्मश्रु लोम च केशाश्च सिराः स्नाय़ु च चर्म च ||
७ ख
व्यास उवाच:
इन्द्रिय़ं घ्राणसञ्ज्ञानं नासिकेत्यभिधीय़ते |
८ क
व्यास उवाच:
गन्धश्चैवेन्द्रिय़ार्थोऽय़ं विज्ञेय़ः पृथिवीमय़ः ||
८ ख
व्यास उवाच:
उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः |
९ क
व्यास उवाच:
पञ्चानां भूतसङ्घानां सन्ततिं मुनय़ो विदुः ||
९ ख
व्यास उवाच:
मनो नवममेषां तु वुद्धिस्तु दशमी स्मृता |
१० क
व्यास उवाच:
एकादशोऽन्तरात्मा च सर्वतः पर उच्यते ||
१० ख
व्यास उवाच:
व्यवसाय़ात्मिका वुद्धिर्मनो व्याकरणात्मकम् |
११ क
व्यास उवाच:
कर्मानुमानाद्विज्ञेय़ः स जीवः क्षेत्रसञ्ज्ञकः ||
११ ख
व्यास उवाच:
एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम् |
१२ क
व्यास उवाच:
पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते ||
१२ ख