chevron_left आश्वमेधिक पर्व अध्याय २४
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
नारदस्य च संवादमृषेर्देवमतस्य च ||
१ ख
देवमत उवाच:
जन्तोः सञ्जाय़मानस्य किं नु पूर्वं प्रवर्तते |
२ क
देवमत उवाच:
प्राणोऽपानः समानो वा व्यानो वोदान एव च ||
२ ख
नारद उवाच:
येनाय़ं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् |
३ क
नारद उवाच:
प्राणद्वन्द्वं च विज्ञेय़ं तिर्यगं चोर्ध्वगं च यत् ||
३ ख
देवमत उवाच:
केनाय़ं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् |
४ क
देवमत उवाच:
प्राणद्वन्द्वं च मे व्रूहि तिर्यगूर्ध्वं च निश्चय़ात् ||
४ ख
नारद उवाच:
सङ्कल्पाज्जाय़ते हर्षः शव्दादपि च जाय़ते |
५ क
नारद उवाच:
रसात्सञ्जाय़ते चापि रूपादपि च जाय़ते ||
५ ख
नारद उवाच:
स्पर्शात्सञ्जाय़ते चापि गन्धादपि च जाय़ते |
६ क
नारद उवाच:
एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः ||
६ ख
नारद उवाच:
कामात्सञ्जाय़ते शुक्रं कामात्सञ्जाय़ते रसः |
७ क
नारद उवाच:
समानव्यानजनिते सामान्ये शुक्रशोणिते ||
७ ख
नारद उवाच:
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते |
८ क
नारद उवाच:
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ||
८ ख
नारद उवाच:
प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः |
९ क
नारद उवाच:
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ||
९ ख
नारद उवाच:
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् |
१० क
नारद उवाच:
सञ्जाय़ते व्राह्मणेषु ज्ञानं वुद्धिसमन्वितम् ||
१० ख
नारद उवाच:
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः |
११ क
नारद उवाच:
सत्त्वं सञ्जाय़ते तस्य यत्र प्रक्षिप्यते हविः ||
११ ख
नारद उवाच:
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः |
१२ क
नारद उवाच:
प्राणापानावाज्यभागौ तय़ोर्मध्ये हुताशनः |
१२ ख
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१२ ग
नारद उवाच:
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु |
१४ क
नारद उवाच:
अहोरात्रमिदं द्वन्द्वं तय़ोर्मध्ये हुताशनः |
१४ ख
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१४ ग
नारद उवाच:
उभे चैवाय़ने द्वन्द्वं तय़ोर्मध्ये हुताशनः |
१५ क
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१५ ख
नारद उवाच:
उभे सत्यानृते द्वन्द्वं तय़ोर्मध्ये हुताशनः |
१६ क
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१६ ख
नारद उवाच:
उभे शुभाशुभे द्वन्द्वं तय़ोर्मध्ये हुताशनः |
१७ क
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१७ ख
नारद उवाच:
सच्चासच्चैव तद्द्वन्द्वं तय़ोर्मध्ये हुताशनः |
१८ क
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
१८ ख
नारद उवाच:
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् |
१९ क
नारद उवाच:
तृतीय़ं तु समानेन पुनरेव व्यवस्यते ||
१९ ख
नारद उवाच:
शान्त्यर्थं वामदेवं च शान्तिर्व्रह्म सनातनम् |
२० क
नारद उवाच:
एतद्रूपमुदानस्य परमं व्राह्मणा विदुः ||
२० ख