वैशम्पाय़न उवाच:
तस्मिन्दशार्हाधिपतौ प्रय़ाते; युधिष्ठिरो भीमसेनार्जुनौ च |
१ क
वैशम्पाय़न उवाच:
यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वय़ुक्तान् ||
१ ख
वैशम्पाय़न उवाच:
आस्थाय़ वीराः सहिता वनाय़; प्रतस्थिरे भूतपतिप्रकाशाः |
२ क
वैशम्पाय़न उवाच:
हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय़ शिक्षाक्षरमन्त्रविद्भ्यः ||
२ ख
वैशम्पाय़न उवाच:
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् |
३ क
वैशम्पाय़न उवाच:
मौर्वीश्च यन्त्राणि च साय़कांश्च; सर्वे समादाय़ जघन्यमीय़ुः ||
३ ख
वैशम्पाय़न उवाच:
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च |
४ क
वैशम्पाय़न उवाच:
तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपय़यौ रथेन ||
४ ख
वैशम्पाय़न उवाच:
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः |
५ क
वैशम्पाय़न उवाच:
तं व्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ||
५ ख
वैशम्पाय़न उवाच:
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः |
६ क
वैशम्पाय़न उवाच:
तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ||
६ ख
वैशम्पाय़न उवाच:
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा |
७ क
वैशम्पाय़न उवाच:
ते चापि तस्मिन्भरतप्रवर्हे; तदा वभूवुः पितरीव पुत्राः ||
७ ख
वैशम्पाय़न उवाच:
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः |
८ क
वैशम्पाय़न उवाच:
हा नाथ हा धर्म इति व्रुवन्तो; ह्रिय़ा च सर्वेऽश्रुमुखा वभूवुः ||
८ ख
वैशम्पाय़न उवाच:
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय़ चास्मान् |
९ क
वैशम्पाय़न उवाच:
पौरानिमाञ्जानपदांश्च सर्वा; न्हित्वा प्रय़ातः क्व नु धर्मराजः ||
९ ख
वैशम्पाय़न उवाच:
धिग्धार्तराष्ट्रं सुनृशंसवुद्धिं; ससौवलं पापमतिं च कर्णम् |
१० क
वैशम्पाय़न उवाच:
अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ||
१० ख
वैशम्पाय़न उवाच:
स्वय़ं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् |
११ क
वैशम्पाय़न उवाच:
शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रय़ातः क्व नु धर्मराजः ||
११ ख
वैशम्पाय़न उवाच:
चकार यामप्रतिमां महात्मा; सभां मय़ो देवसभाप्रकाशाम् |
१२ क
वैशम्पाय़न उवाच:
तां देवगुप्तामिव देवमाय़ां; हित्वा प्रय़ातः क्व नु धर्मराजः ||
१२ ख
वैशम्पाय़न उवाच:
तान्धर्मकामार्थविदुत्तमौजा; वीभत्सुरुच्चैः सहितानुवाच |
१३ क
वैशम्पाय़न उवाच:
आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ||
१३ ख
वैशम्पाय़न उवाच:
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च |
१४ क
वैशम्पाय़न उवाच:
प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ||
१४ ख
वैशम्पाय़न उवाच:
इत्येवमुक्ते वचनेऽर्जुनेन; ते व्राह्मणाः सर्ववर्णाश्च राजन् |
१५ क
वैशम्पाय़न उवाच:
मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ||
१५ ख
वैशम्पाय़न उवाच:
आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जय़ं याज्ञसेनीं यमौ च |
१६ क
वैशम्पाय़न उवाच:
प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ||
१६ ख