chevron_left भीष्म पर्व अध्याय ५२
सञ्जय़ उवाच:
प्रभाताय़ां तु शर्वर्यां भीष्मः शान्तनवस्ततः |
१ क
सञ्जय़ उवाच:
अनीकान्यनुसंय़ाने व्यादिदेशाथ भारत ||
१ ख
सञ्जय़ उवाच:
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा |
२ क
सञ्जय़ उवाच:
पुत्राणां ते जय़ाकाङ्क्षी भीष्मः कुरुपितामहः ||
२ ख
सञ्जय़ उवाच:
गरुडस्य स्वय़ं तुण्डे पिता देवव्रतस्तव |
३ क
सञ्जय़ उवाच:
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ||
३ ख
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ |
४ क
सञ्जय़ उवाच:
त्रिगर्तैर्मत्स्यकैकेय़ैर्वाटधानैश्च संय़ुतौ ||
४ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |
५ क
सञ्जय़ उवाच:
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ||
५ ख
सञ्जय़ उवाच:
जय़द्रथेन सहिता ग्रीवाय़ां संनिवेशिताः |
६ क
सञ्जय़ उवाच:
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ||
६ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ काम्वोजश्च शकैः सह |
७ क
सञ्जय़ उवाच:
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ||
७ ख
सञ्जय़ उवाच:
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह |
८ क
सञ्जय़ उवाच:
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ||
८ ख
सञ्जय़ उवाच:
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा |
९ क
सञ्जय़ उवाच:
वृहद्वलेन सहिता वामं पक्षमुपाश्रिताः ||
९ ख
सञ्जय़ उवाच:
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः |
१० क
सञ्जय़ उवाच:
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संय़ुगे |
१० ख
सञ्जय़ उवाच:
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ||
१० ग
सञ्जय़ उवाच:
दक्षिणं शृङ्गमास्थाय़ भीमसेनो व्यरोचत |
११ क
सञ्जय़ उवाच:
नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ||
११ ख
सञ्जय़ उवाच:
तदन्वेव विराटश्च द्रुपदश्च महारथः |
१२ क
सञ्जय़ उवाच:
तदनन्तरमेवासीन्नीलो नीलाय़ुधैः सह ||
१२ ख
सञ्जय़ उवाच:
नीलादनन्तरं चैव धृष्टकेतुर्महारथः |
१३ क
सञ्जय़ उवाच:
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ||
१३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः |
१४ क
सञ्जय़ उवाच:
मध्ये सैन्यस्य महतः स्थिता युद्धाय़ भारत ||
१४ ख
सञ्जय़ उवाच:
तथैव धर्मराजोऽपि गजानीकेन संवृतः |
१५ क
सञ्जय़ उवाच:
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ||
१५ ख
सञ्जय़ उवाच:
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् |
१६ क
सञ्जय़ उवाच:
भैमसेनिस्ततो राजन्केकय़ाश्च महारथाः ||
१६ ख
सञ्जय़ उवाच:
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः |
१७ क
सञ्जय़ उवाच:
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ||
१७ ख
सञ्जय़ उवाच:
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः |
१८ क
सञ्जय़ उवाच:
वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ||
१८ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
१९ क
सञ्जय़ उवाच:
तावकानां परेषां च निघ्नतामितरेतरम् ||
१९ ख
सञ्जय़ उवाच:
हय़ौघाश्च रथौघाश्च तत्र तत्र विशां पते |
२० क
सञ्जय़ उवाच:
सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ||
२० ख
सञ्जय़ उवाच:
धावतां च रथौघानां निघ्नतां च पृथक्पृथक् |
२१ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दो विमिश्रो दुन्दुभिस्वनैः ||
२१ ख
सञ्जय़ उवाच:
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् |
२२ क
सञ्जय़ उवाच:
सम्प्रहारे सुतुमुले तव तेषां च भारत ||
२२ ख