सञ्जय़ उवाच:
अस्यतां यतमानानां शूराणामनिवर्तिनाम् |
१ क
सञ्जय़ उवाच:
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जय़ः ||
१ ख
सञ्जय़ उवाच:
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः |
२ क
सञ्जय़ उवाच:
विसृजन्दृश्यते वाणान्धारा मुञ्चन्निवाम्वुदः ||
२ ख
सञ्जय़ उवाच:
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना |
३ क
सञ्जय़ उवाच:
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ||
३ ख
सञ्जय़ उवाच:
हतधुर्या रथाः केचिद्धतसूतास्तथापरे |
४ क
सञ्जय़ उवाच:
भग्नाक्षय़ुगचक्रेषाः केचिदासन्विशां पते ||
४ ख
सञ्जय़ उवाच:
अन्येषां साय़काः क्षीणास्तथान्ये शरपीडिताः |
५ क
सञ्जय़ उवाच:
अक्षता युगपत्केचित्प्राद्रवन्भय़पीडिताः ||
५ ख
सञ्जय़ उवाच:
केचित्पुत्रानुपादाय़ हतभूय़िष्ठवाहनाः |
६ क
सञ्जय़ उवाच:
विचुक्रुशुः पितॄनन्ये सहाय़ानपरे पुनः ||
६ ख
सञ्जय़ उवाच:
वान्धवांश्च नरव्याघ्र भ्रातॄन्सम्वन्धिनस्तथा |
७ क
सञ्जय़ उवाच:
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ||
७ ख
सञ्जय़ उवाच:
वहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः |
८ क
सञ्जय़ उवाच:
निष्टनन्तः स्म दृश्यन्ते पार्थवाणहता नराः ||
८ ख
सञ्जय़ उवाच:
तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् |
९ क
सञ्जय़ उवाच:
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय़ जग्मिरे ||
९ ख
सञ्जय़ उवाच:
तानपास्य गताः केचित्पुनरेव युय़ुत्सवः |
१० क
सञ्जय़ उवाच:
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ||
१० ख
सञ्जय़ उवाच:
पानीय़मपरे पीत्वा पर्याश्वास्य च वाहनम् |
११ क
सञ्जय़ उवाच:
वर्माणि च समारोप्य केचिद्भरतसत्तम ||
११ ख
सञ्जय़ उवाच:
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिविरेऽपि च |
१२ क
सञ्जय़ उवाच:
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचय़न् ||
१२ ख
सञ्जय़ उवाच:
सज्जय़ित्वा रथान्केचिद्यथामुख्यं विशां पते |
१३ क
सञ्जय़ उवाच:
आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचय़न् ||
१३ ख
सञ्जय़ उवाच:
ते शूराः किङ्किणीजालैः समाच्छन्ना वभासिरे |
१४ क
सञ्जय़ उवाच:
त्रैलोक्यविजय़े युक्ता यथा दैतेय़दानवाः ||
१४ ख
सञ्जय़ उवाच:
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः |
१५ क
सञ्जय़ उवाच:
पाण्डवानामनीकेषु धृष्टद्युम्नमय़ोधय़न् ||
१५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः |
१६ क
सञ्जय़ उवाच:
नाकुलिश्च शतानीको रथानीकमय़ोधय़न् ||
१६ ख
सञ्जय़ उवाच:
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः |
१७ क
सञ्जय़ उवाच:
अभ्यद्रवत्सुसंरव्धस्तावकान्हन्तुमुद्यतः ||
१७ ख
सञ्जय़ उवाच:
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप |
१८ क
सञ्जय़ उवाच:
वाणसङ्घाननेकान्वै प्रेषय़ामास भारत ||
१८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना |
१९ क
सञ्जय़ उवाच:
नाराचैर्वहुभिः क्षिप्रं वाह्वोरुरसि चार्पितः ||
१९ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः |
२० क
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो वाणैः प्रेषय़ामास मृत्यवे |
२० ख
सञ्जय़ उवाच:
सारथेश्चास्य भल्लेन शिरः काय़ादपाहरत् ||
२० ग
सञ्जय़ उवाच:
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः |
२१ क
सञ्जय़ उवाच:
अपाक्रामद्धतरथो नातिदूरमरिन्दमः ||
२१ ख
सञ्जय़ उवाच:
दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महावलः |
२२ क
सञ्जय़ उवाच:
तव पुत्रो महाराज प्रय़यौ यत्र सौवलः ||
२२ ख
सञ्जय़ उवाच:
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः |
२३ क
सञ्जय़ उवाच:
पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारय़न् ||
२३ ख
सञ्जय़ उवाच:
ते वृताः समरे पञ्च गजानीकेन भारत |
२४ क
सञ्जय़ उवाच:
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ||
२४ ख
सञ्जय़ उवाच:
ततोऽर्जुनो महाराज लव्धलक्षो महाभुजः |
२५ क
सञ्जय़ उवाच:
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ||
२५ ख
सञ्जय़ उवाच:
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः |
२६ क
सञ्जय़ उवाच:
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथय़त् ||
२६ ख
सञ्जय़ उवाच:
तत्रैकवाणनिहतानपश्याम महागजान् |
२७ क
सञ्जय़ उवाच:
पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ||
२७ ख
सञ्जय़ उवाच:
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः |
२८ क
सञ्जय़ उवाच:
करेण गृह्य महतीं गदामभ्यपतद्वली |
२८ ख
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ||
२८ ग
सञ्जय़ उवाच:
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् |
२९ क
सञ्जय़ उवाच:
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः |
२९ ख
सञ्जय़ उवाच:
आविग्नं च वलं सर्वं गदाहस्ते वृकोदरे ||
२९ ग
सञ्जय़ उवाच:
गदय़ा भीमसेनेन भिन्नकुम्भान्रजस्वलान् |
३० क
सञ्जय़ उवाच:
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ||
३० ख
सञ्जय़ उवाच:
प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः |
३१ क
सञ्जय़ उवाच:
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रय़ः ||
३१ ख
सञ्जय़ उवाच:
तान्भिन्नकुम्भान्सुवहून्द्रवमाणानितस्ततः |
३२ क
सञ्जय़ उवाच:
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ||
३२ ख
सञ्जय़ उवाच:
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ |
३३ क
सञ्जय़ उवाच:
गृध्रपक्षैः शितैर्वाणैर्जघ्नुर्वै गजय़ोधिनः ||
३३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् |
३४ क
सञ्जय़ उवाच:
अपक्रान्ते तव सुते हय़पृष्ठं समाश्रिते ||
३४ ख
सञ्जय़ उवाच:
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् |
३५ क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः |
३५ ख
सञ्जय़ उवाच:
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ||
३५ ग
सञ्जय़ उवाच:
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् |
३६ क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
३६ ख
सञ्जय़ उवाच:
अपृच्छन्क्षत्रिय़ांस्तत्र क्व नु दुर्योधनो गतः ||
३६ ग
सञ्जय़ उवाच:
अपश्यमाना राजानं वर्तमाने जनक्षय़े |
३७ क
सञ्जय़ उवाच:
मन्वाना निहतं तत्र तव पुत्रं महारथाः |
३७ ख
सञ्जय़ उवाच:
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ||
३७ ग
सञ्जय़ उवाच:
आहुः केचिद्धते सूते प्रय़ातो यत्र सौवलः |
३८ क
सञ्जय़ उवाच:
अपरे त्वव्रुवंस्तत्र क्षत्रिय़ा भृशविक्षताः ||
३८ ख
सञ्जय़ उवाच:
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति |
३९ क
सञ्जय़ उवाच:
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ||
३९ ख
सञ्जय़ उवाच:
ते क्षत्रिय़ाः क्षतैर्गात्रैर्हतभूय़िष्ठवाहनाः |
४० क
सञ्जय़ उवाच:
शरैः सम्पीड्यमानाश्च नातिव्यक्तमिवाव्रुवन् ||
४० ख
सञ्जय़ उवाच:
इदं सर्वं वलं हन्मो येन स्म परिवारिताः |
४१ क
सञ्जय़ उवाच:
एते सर्वे गजान्हत्वा उपय़ान्ति स्म पाण्डवाः ||
४१ ख
सञ्जय़ उवाच:
श्रुत्वा तु वचनं तेषामश्वत्थामा महावलः |
४२ क
सञ्जय़ उवाच:
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ||
४२ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च प्रय़युर्यत्र सौवलः |
४३ क
सञ्जय़ उवाच:
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ||
४३ ख
सञ्जय़ उवाच:
ततस्तेषु प्रय़ातेषु धृष्टद्युम्नपुरोगमाः |
४४ क
सञ्जय़ उवाच:
आय़युः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ||
४४ ख
सञ्जय़ उवाच:
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् |
४५ क
सञ्जय़ उवाच:
पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा |
४५ ख
सञ्जय़ उवाच:
विवर्णमुखभूय़िष्ठमभवत्तावकं वलम् ||
४५ ग
सञ्जय़ उवाच:
परिक्षीणाय़ुधान्दृष्ट्वा तानहं परिवारितान् |
४६ क
सञ्जय़ उवाच:
राजन्वलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः ||
४६ ख
सञ्जय़ उवाच:
आत्मनापञ्चमोऽय़ुध्यं पाञ्चालस्य वलेन ह |
४७ क