chevron_left वन पर्व अध्याय २४०
दानवा ऊचुः:
भोः सुय़ोधन राजेन्द्र भरतानां कुलोद्वह |
१ क
दानवा ऊचुः:
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ||
१ ख
दानवा ऊचुः:
अकार्षीः साहसमिदं कस्मात्प्राय़ोपवेशनम् |
२ क
दानवा ऊचुः:
आत्मत्यागी ह्यवाग्याति वाच्यतां चाय़शस्करीम् ||
२ ख
दानवा ऊचुः:
न हि कार्यविरुद्धेषु वह्वपाय़ेषु कर्मसु |
३ क
दानवा ऊचुः:
मूलघातिषु सज्जन्ते वुद्धिमन्तो भवद्विधाः ||
३ ख
दानवा ऊचुः:
निय़च्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् |
४ क
दानवा ऊचुः:
यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ||
४ ख
दानवा ऊचुः:
श्रूय़तां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप |
५ क
दानवा ऊचुः:
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ||
५ ख
दानवा ऊचुः:
पुरा त्वं तपसास्माभिर्लव्धो देवान्महेश्वरात् |
६ क
दानवा ऊचुः:
पूर्वकाय़श्च सर्वस्ते निर्मितो वज्रसञ्चय़ैः ||
६ ख
दानवा ऊचुः:
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकाय़श्च तेऽनघ |
७ क
दानवा ऊचुः:
कृतः पुष्पमय़ो देव्या रूपतः स्त्रीमनोहरः ||
७ ख
दानवा ऊचुः:
एवमीश्वरसंय़ुक्तस्तव देहो नृपोत्तम |
८ क
दानवा ऊचुः:
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ||
८ ख
दानवा ऊचुः:
क्षत्रिय़ाश्च महावीर्या भगदत्तपुरोगमाः |
९ क
दानवा ऊचुः:
दिव्यास्त्रविदुषः शूराः क्षपय़िष्यन्ति ते रिपून् ||
९ ख
दानवा ऊचुः:
तदलं ते विषादेन भय़ं तव न विद्यते |
१० क
दानवा ऊचुः:
साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः ||
१० ख
दानवा ऊचुः:
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः |
११ क
दानवा ऊचुः:
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ||
११ ख
दानवा ऊचुः:
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च वान्धवान् |
१२ क
दानवा ऊचुः:
नैव शिष्यान्न च ज्ञातीन्न वालान्स्थविरान्न च ||
१२ ख
दानवा ऊचुः:
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम |
१३ क
दानवा ऊचुः:
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ||
१३ ख
दानवा ऊचुः:
प्रहरिष्यन्ति वन्धुभ्यः स्नेहमुत्सृज्य दूरतः |
१४ क
दानवा ऊचुः:
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः |
१४ ख
दानवा ऊचुः:
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ||
१४ ग
दानवा ऊचुः:
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे |
१५ क
दानवा ऊचुः:
सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः |
१५ ख
दानवा ऊचुः:
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षय़म् ||
१५ ग
दानवा ऊचुः:
तेऽपि शक्त्या महात्मानः प्रतिय़ोत्स्यन्ति पाण्डवाः |
१६ क
दानवा ऊचुः:
वधं चैषां करिष्यन्ति दैवय़ुक्ता महावलाः ||
१६ ख
दानवा ऊचुः:
दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रय़ोनिषु |
१७ क
दानवा ऊचुः:
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव |
१७ ख
दानवा ऊचुः:
गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ||
१७ ग
दानवा ऊचुः:
यच्च तेऽन्तर्गतं वीर भय़मर्जुनसम्भवम् |
१८ क
दानवा ऊचुः:
तत्रापि विहितोऽस्माभिर्वधोपाय़ोऽर्जुनस्य वै ||
१८ ख
दानवा ऊचुः:
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः |
१९ क
दानवा ऊचुः:
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ||
१९ ख
दानवा ऊचुः:
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति |
२० क
दानवा ऊचुः:
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ||
२० ख
दानवा ऊचुः:
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः |
२१ क
दानवा ऊचुः:
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ||
२१ ख
दानवा ऊचुः:
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः |
२२ क
दानवा ऊचुः:
निय़ुक्ता राक्षसाश्चैव ये ते संशप्तका इति |
२२ ख
दानवा ऊचुः:
प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ||
२२ ग
दानवा ऊचुः:
असपत्ना त्वय़ा हीय़ं भोक्तव्या वसुधा नृप |
२३ क
दानवा ऊचुः:
मा विषादं नय़स्वास्मान्नैतत्त्वय़्युपपद्यते |
२३ ख
दानवा ऊचुः:
विनष्टे त्वय़ि चास्माकं पक्षो हीय़ेत कौरव ||
२३ ग
दानवा ऊचुः:
गच्छ वीर न ते वुद्धिरन्या कार्या कथञ्चन |
२४ क
दानवा ऊचुः:
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ||
२४ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् |
२५ क
वैशम्पाय़न उवाच:
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ||
२५ ख
वैशम्पाय़न उवाच:
स्थिरां कृत्वा वुद्धिमस्य प्रिय़ाण्युक्त्वा च भारत |
२६ क
वैशम्पाय़न उवाच:
गम्यतामित्यनुज्ञाय़ जय़माप्नुहि चेत्यथ ||
२६ ख
वैशम्पाय़न उवाच:
तैर्विसृष्टं महावाहुं कृत्या सैवानय़त्पुनः |
२७ क
वैशम्पाय़न उवाच:
तमेव देशं यत्रासौ तदा प्राय़मुपाविशत् ||
२७ ख
वैशम्पाय़न उवाच:
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च |
२८ क
वैशम्पाय़न उवाच:
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीय़त ||
२८ ख
वैशम्पाय़न उवाच:
गताय़ामथ तस्यां तु राजा दुर्योधनस्तदा |
२९ क
वैशम्पाय़न उवाच:
स्वप्नभूतमिदं सर्वमचिन्तय़त भारत |
२९ ख
वैशम्पाय़न उवाच:
विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ||
२९ ग
वैशम्पाय़न उवाच:
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः |
३० क
वैशम्पाय़न उवाच:
अमन्यत वधे युक्तान्समर्थांश्च सुय़ोधनः ||
३० ख
वैशम्पाय़न उवाच:
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः |
३१ क
वैशम्पाय़न उवाच:
विनिर्जय़े पाण्डवानामभवद्भरतर्षभ ||
३१ ख
वैशम्पाय़न उवाच:
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना |
३२ क
वैशम्पाय़न उवाच:
अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ||
३२ ख
वैशम्पाय़न उवाच:
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः |
३३ क
वैशम्पाय़न उवाच:
रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ||
३३ ख
वैशम्पाय़न उवाच:
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः |
३४ क
वैशम्पाय़न उवाच:
न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते |
३४ ख
वैशम्पाय़न उवाच:
न चाचचक्षे कस्मैचिदेतद्राजा सुय़ोधनः ||
३४ ग
वैशम्पाय़न उवाच:
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽव्रवीत् |
३५ क
वैशम्पाय़न उवाच:
स्मय़न्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ||
३५ ख
वैशम्पाय़न उवाच:
न मृतो जय़ते शत्रूञ्जीवन्भद्राणि पश्यति |
३६ क
वैशम्पाय़न उवाच:
मृतस्य भद्राणि कुतः कौरवेय़ कुतो जय़ः |
३६ ख
वैशम्पाय़न उवाच:
न कालोऽद्य विषादस्य भय़स्य मरणस्य वा ||
३६ ग
वैशम्पाय़न उवाच:
परिष्वज्याव्रवीच्चैनं भुजाभ्यां स महाभुजः |
३७ क
वैशम्पाय़न उवाच:
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् |
३७ ख
वैशम्पाय़न उवाच:
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ||
३७ ग
वैशम्पाय़न उवाच:
अथ वा ते भय़ं जातं दृष्ट्वार्जुनपराक्रमम् |
३८ क
वैशम्पाय़न उवाच:
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ||
३८ ख
वैशम्पाय़न उवाच:
गते त्रय़ोदशे वर्षे सत्येनाय़ुधमालभे |
३९ क
वैशम्पाय़न उवाच:
आनय़िष्याम्यहं पार्थान्वशं तव जनाधिप ||
३९ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा |
४० क
वैशम्पाय़न उवाच:
प्रणिपातेन चान्येषामुदतिष्ठत्सुय़ोधनः |
४० ख
वैशम्पाय़न उवाच:
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ||
४० ग
वैशम्पाय़न उवाच:
ततो मनुजशार्दूलो योजय़ामास वाहिनीम् |
४१ क
वैशम्पाय़न उवाच:
रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ||
४१ ख
वैशम्पाय़न उवाच:
गङ्गौघप्रतिमा राजन्प्रय़ाता सा महाचमूः |
४२ क
वैशम्पाय़न उवाच:
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ||
४२ ख
वैशम्पाय़न उवाच:
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला |
४३ क
वैशम्पाय़न उवाच:
व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ||
४३ ख
वैशम्पाय़न उवाच:
जय़ाशीर्भिर्द्विजेन्द्रैस्तु स्तूय़मानोऽधिराजवत् |
४४ क
वैशम्पाय़न उवाच:
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ||
४४ ख
वैशम्पाय़न उवाच:
सुय़ोधनो यय़ावग्रे श्रिय़ा परमय़ा ज्वलन् |
४५ क
वैशम्पाय़न उवाच:
कर्णेन सार्धं राजेन्द्र सौवलेन च देविना ||
४५ ख