व्यास उवाच:
मनः प्रसृजते भावं वुद्धिरध्यवसाय़िनी |
१ क
व्यास उवाच:
हृदय़ं प्रिय़ाप्रिय़े वेद त्रिविधा कर्मचोदना ||
१ ख
व्यास उवाच:
इन्द्रिय़ेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः |
२ क
व्यास उवाच:
मनसस्तु परा वुद्धिर्वुद्धेरात्मा परो मतः ||
२ ख
व्यास उवाच:
वुद्धिरात्मा मनुष्यस्य वुद्धिरेवात्मनोऽऽत्मिका |
३ क
व्यास उवाच:
यदा विकुरुते भावं तदा भवति सा मनः ||
३ ख
व्यास उवाच:
इन्द्रिय़ाणां पृथग्भावाद्वुद्धिर्विक्रिय़ते ह्यणु |
४ क
व्यास उवाच:
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ||
४ ख
व्यास उवाच:
पश्यन्ती भवते दृष्टी रसती रसनं भवेत् |
५ क
व्यास उवाच:
जिघ्रती भवति घ्राणं वुद्धिर्विक्रिय़ते पृथक् ||
५ ख
व्यास उवाच:
इन्द्रिय़ाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति |
६ क
व्यास उवाच:
तिष्ठती पुरुषे वुद्धिस्त्रिषु भावेषु वर्तते ||
६ ख
व्यास उवाच:
कदाचिल्लभते प्रीतिं कदाचिदपि शोचते |
७ क
व्यास उवाच:
न सुखेन न दुःखेन कदाचिदिह युज्यते ||
७ ख
व्यास उवाच:
सेय़ं भावात्मिका भावांस्त्रीनेतानतिवर्तते |
८ क
व्यास उवाच:
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ||
८ ख
व्यास उवाच:
यदा प्रार्थय़ते किञ्चित्तदा भवति सा मनः |
९ क
व्यास उवाच:
अधिष्ठानानि वै वुद्ध्या पृथगेतानि संस्मरेत् |
९ ख
व्यास उवाच:
इन्द्रिय़ाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः ||
९ ग
व्यास उवाच:
सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीय़ते |
१० क
व्यास उवाच:
अविभागगता वुद्धिर्भावे मनसि वर्तते |
१० ख
व्यास उवाच:
प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते ||
१० ग
व्यास उवाच:
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु |
११ क
व्यास उवाच:
अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव ||
११ ख
व्यास उवाच:
प्रदीपार्थं नरः कुर्यादिन्द्रिय़ैर्वुद्धिसत्तमैः |
१२ क
व्यास उवाच:
निश्चरद्भिर्यथाय़ोगमुदासीनैर्यदृच्छय़ा ||
१२ ख
व्यास उवाच:
एवंस्वभावमेवेदमिति विद्वान्न मुह्यति |
१३ क
व्यास उवाच:
अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ||
१३ ख
व्यास उवाच:
न ह्यात्मा शक्यते द्रष्टुमिन्द्रिय़ैः कामगोचरैः |
१४ क
व्यास उवाच:
प्रवर्तमानैरनय़े दुर्धरैरकृतात्मभिः ||
१४ ख
व्यास उवाच:
तेषां तु मनसा रश्मीन्यदा सम्यङ्निय़च्छति |
१५ क
व्यास उवाच:
तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् |
१५ ख
व्यास उवाच:
सर्वेषामेव भूतानां तमस्यपगते यथा ||
१५ ग
व्यास उवाच:
यथा वारिचरः पक्षी न लिप्यति जले चरन् |
१६ क
व्यास उवाच:
एवमेव कृतप्रज्ञो न दोषैर्विषय़ांश्चरन् |
१६ ख
व्यास उवाच:
असज्जमानः सर्वेषु न कथञ्चन लिप्यते ||
१६ ग
व्यास उवाच:
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि |
१७ क
व्यास उवाच:
सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः ||
१७ ख
व्यास उवाच:
सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न |
१८ क
व्यास उवाच:
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ||
१८ ख
व्यास उवाच:
परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् |
१९ क
व्यास उवाच:
सत्त्वक्षेत्रज्ञय़ोरेतदन्तरं विद्धि सूक्ष्मय़ोः ||
१९ ख
व्यास उवाच:
सृजते तु गुणानेक एको न सृजते गुणान् |
२० क
व्यास उवाच:
पृथग्भूतौ प्रकृत्या तौ सम्प्रय़ुक्तौ च सर्वदा ||
२० ख
व्यास उवाच:
यथा मत्स्योऽद्भिरन्यः सन्सम्प्रय़ुक्तौ तथैव तौ |
२१ क
व्यास उवाच:
मशकोदुम्वरौ चापि सम्प्रय़ुक्तौ यथा सह ||
२१ ख
व्यास उवाच:
इषीका वा यथा मुञ्जे पृथक्च सह चैव च |
२२ क
व्यास उवाच:
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ||
२२ ख