chevron_left शान्ति पर्व अध्याय २४१
व्यास उवाच:
सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति |
१ क
व्यास उवाच:
गुणान्विक्रिय़तः सर्वानुदासीनवदीश्वरः ||
१ ख
व्यास उवाच:
स्वभावय़ुक्तं तत्सर्वं यदिमान्सृजते गुणान् |
२ क
व्यास उवाच:
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ||
२ ख
व्यास उवाच:
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते |
३ क
व्यास उवाच:
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ||
३ ख
व्यास उवाच:
उभय़ं सम्प्रधार्यैतदध्यवस्येद्यथामति |
४ क
व्यास उवाच:
अनेनैव विधानेन भवेद्गर्भशय़ो महान् ||
४ ख
व्यास उवाच:
अनादिनिधनं नित्यमासाद्य विचरेन्नरः |
५ क
व्यास उवाच:
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ||
५ ख
व्यास उवाच:
इत्येवं हृदय़ग्रन्थिं वुद्धिचिन्तामय़ं दृढम् |
६ क
व्यास उवाच:
अतीत्य सुखमासीत अशोचंश्छिन्नसंशय़ः ||
६ ख
व्यास उवाच:
तप्येय़ुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः |
७ क
व्यास उवाच:
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ||
७ ख
व्यास उवाच:
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् |
८ क
व्यास उवाच:
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ||
८ ख
व्यास उवाच:
एवं वुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् |
९ क
व्यास उवाच:
समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् ||
९ ख
व्यास उवाच:
एतद्वै जन्मसामर्थ्यं व्राह्मणस्य विशेषतः |
१० क
व्यास उवाच:
आत्मज्ञानं शमश्चैव पर्याप्तं तत्पराय़णम् ||
१० ख
व्यास उवाच:
एतद्वुद्ध्वा भवेद्वुद्धः किमन्यद्वुद्धलक्षणम् |
११ क
व्यास उवाच:
विज्ञाय़ैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ||
११ ख
व्यास उवाच:
न भवति विदुषां महद्भय़ं; यदविदुषां सुमहद्भय़ं भवेत् |
१२ क
व्यास उवाच:
न हि गतिरधिकास्ति कस्य चि; द्भवति हि या विदुषः सनातनी ||
१२ ख
व्यास उवाच:
लोकमातुरमसूय़ते जन; स्तत्तदेव च निरीक्ष्य शोचते |
१३ क
व्यास उवाच:
तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभय़ं कृताकृतम् ||
१३ ख
व्यास उवाच:
यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् |
१४ क
व्यास उवाच:
न प्रिय़ं तदुभय़ं न चाप्रिय़ं; तस्य तज्जनय़तीह कुर्वतः ||
१४ ख