जनमेजय़ उवाच:
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु |
१ क
जनमेजय़ उवाच:
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ||
१ ख
जनमेजय़ उवाच:
कर्णो वैकर्तनश्चापि शकुनिश्च महावलः |
२ क
जनमेजय़ उवाच:
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ||
२ ख
वैशम्पाय़न उवाच:
एवं गतेषु पार्थेषु विसृष्टे च सुय़ोधने |
३ क
वैशम्पाय़न उवाच:
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः |
३ ख
वैशम्पाय़न उवाच:
भीष्मोऽव्रवीन्महाराज धार्तराष्ट्रमिदं वचः ||
३ ग
वैशम्पाय़न उवाच:
उक्तं तात मय़ा पूर्वं गच्छतस्ते तपोवनम् |
४ क
वैशम्पाय़न उवाच:
गमनं मे न रुचितं तव तन्न कृतं च ते ||
४ ख
वैशम्पाय़न उवाच:
ततः प्राप्तं त्वय़ा वीर ग्रहणं शत्रुभिर्वलात् |
५ क
वैशम्पाय़न उवाच:
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ||
५ ख
वैशम्पाय़न उवाच:
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते |
६ क
वैशम्पाय़न उवाच:
सूतपुत्रोऽपय़ाद्भीतो गन्धर्वाणां तदा रणात् |
६ ख
वैशम्पाय़न उवाच:
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ||
६ ग
वैशम्पाय़न उवाच:
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् |
७ क
वैशम्पाय़न उवाच:
कर्णस्य च महावाहो सूतपुत्रस्य दुर्मतेः ||
७ ख
वैशम्पाय़न उवाच:
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम |
८ क
वैशम्पाय़न उवाच:
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ||
८ ख
वैशम्पाय़न उवाच:
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः |
९ क
वैशम्पाय़न उवाच:
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धय़े ||
९ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः |
१० क
वैशम्पाय़न उवाच:
प्रहस्य सहसा राजन्विप्रतस्थे ससौवलः ||
१० ख
वैशम्पाय़न उवाच:
तं तु प्रस्थितमाज्ञाय़ कर्णदुःशासनादय़ः |
११ क
वैशम्पाय़न उवाच:
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महावलम् ||
११ ख
वैशम्पाय़न उवाच:
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः |
१२ क
वैशम्पाय़न उवाच:
लज्जय़ा व्रीडितो राजञ्जगाम स्वं निवेशनम् ||
१२ ख
वैशम्पाय़न उवाच:
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः |
१३ क
वैशम्पाय़न उवाच:
पुनरागम्य तं देशममन्त्रय़त मन्त्रिभिः ||
१३ ख
वैशम्पाय़न उवाच:
किमस्माकं भवेच्छ्रेय़ः किं कार्यमवशिष्यते |
१४ क
वैशम्पाय़न उवाच:
कथं नु सुकृतं च स्यान्मन्त्रय़ामास भारत ||
१४ ख
कर्ण उवाच:
दुर्योधन निवोधेदं यत्त्वा वक्ष्यामि कौरव |
१५ क
कर्ण उवाच:
श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिन्दम ||
१५ ख
कर्ण उवाच:
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम |
१६ क
कर्ण उवाच:
तां पालय़ यथा शक्रो हतशत्रुर्महामनाः ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कर्णेन कर्णं राजाव्रवीत्पुनः |
१७ क
वैशम्पाय़न उवाच:
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ||
१७ ख
वैशम्पाय़न उवाच:
सहाय़श्चानुरक्तश्च मदर्थं च समुद्यतः |
१८ क
वैशम्पाय़न उवाच:
अभिप्राय़स्तु मे कश्चित्तं वै शृणु यथातथम् ||
१८ ख
वैशम्पाय़न उवाच:
राजसूय़ं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा |
१९ क
वैशम्पाय़न उवाच:
मम स्पृहा समुत्पन्ना तां सम्पादय़ सूतज ||
१९ ख
वैशम्पाय़न उवाच:
एवमुक्तस्ततः कर्णो राजानमिदमव्रवीत् |
२० क
वैशम्पाय़न उवाच:
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ||
२० ख
वैशम्पाय़न उवाच:
आहूय़न्तां द्विजवराः सम्भाराश्च यथाविधि |
२१ क
वैशम्पाय़न उवाच:
सम्भ्रिय़न्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ||
२१ ख
वैशम्पाय़न उवाच:
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः |
२२ क
वैशम्पाय़न उवाच:
क्रिय़ां कुर्वन्तु ते राजन्यथाशास्त्रमरिन्दम ||
२२ ख
वैशम्पाय़न उवाच:
वह्वन्नपानसंय़ुक्तः सुसमृद्धगुणान्वितः |
२३ क
वैशम्पाय़न उवाच:
प्रवर्ततां महाय़ज्ञस्तवापि भरतर्षभ ||
२३ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते |
२४ क
वैशम्पाय़न उवाच:
पुरोहितं समानाय़्य इदं वचनमव्रवीत् ||
२४ ख
वैशम्पाय़न उवाच:
राजसूय़ं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् |
२५ क
वैशम्पाय़न उवाच:
आहर त्वं मम कृते यथान्याय़ं यथाक्रमम् ||
२५ ख
वैशम्पाय़न उवाच:
स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः |
२६ क
वैशम्पाय़न उवाच:
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे |
२६ ख
वैशम्पाय़न उवाच:
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ||
२६ ग
वैशम्पाय़न उवाच:
दीर्घाय़ुर्जीवति च वै धृतराष्ट्रः पिता तव |
२७ क
वैशम्पाय़न उवाच:
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ||
२७ ख
वैशम्पाय़न उवाच:
अस्ति त्वन्यन्महत्सत्रं राजसूय़समं प्रभो |
२८ क
वैशम्पाय़न उवाच:
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ||
२८ ख
वैशम्पाय़न उवाच:
य इमे पृथिवीपालाः करदास्तव पार्थिव |
२९ क
वैशम्पाय़न उवाच:
ते करान्सम्प्रय़च्छन्तु सुवर्णं च कृताकृतम् ||
२९ ख
वैशम्पाय़न उवाच:
तेन ते क्रिय़तामद्य लाङ्गलं नृपसत्तम |
३० क
वैशम्पाय़न उवाच:
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ||
३० ख
वैशम्पाय़न उवाच:
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः |
३१ क
वैशम्पाय़न उवाच:
प्रवर्ततां यथान्याय़ं सर्वतो ह्यनिवारितः ||
३१ ख
वैशम्पाय़न उवाच:
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः |
३२ क
वैशम्पाय़न उवाच:
एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ||
३२ ख
वैशम्पाय़न उवाच:
राजसूय़ं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः |
३३ क
वैशम्पाय़न उवाच:
अस्माकं रोचते चैव श्रेय़श्च तव भारत |
३३ ख
वैशम्पाय़न उवाच:
अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ||
३३ ग
वैशम्पाय़न उवाच:
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः |
३४ क
वैशम्पाय़न उवाच:
कर्णं च सौवलं चैव भ्रातॄंश्चैवेदमव्रवीत् ||
३४ ख
वैशम्पाय़न उवाच:
रोचते मे वचः कृत्स्नं व्राह्मणानां न संशय़ः |
३५ क
वैशम्पाय़न उवाच:
रोचते यदि युष्माकं तन्मा प्रव्रूत माचिरम् ||
३५ ख
वैशम्पाय़न उवाच:
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् |
३६ क
वैशम्पाय़न उवाच:
सन्दिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ||
३६ ख
वैशम्पाय़न उवाच:
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः |
३७ क
वैशम्पाय़न उवाच:
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ||
३७ ख