जनमेजय़ उवाच:
दुर्योधनं मोचय़ित्वा पाण्डुपुत्रा महावलाः |
१ क
जनमेजय़ उवाच:
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ||
१ ख
वैशम्पाय़न उवाच:
ततः शय़ानं कौन्तेय़ं रात्रौ द्वैतवने मृगाः |
२ क
वैशम्पाय़न उवाच:
स्वप्नान्ते दर्शय़ामासुर्वाष्पकण्ठा युधिष्ठिरम् ||
२ ख
वैशम्पाय़न उवाच:
तानव्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् |
३ क
वैशम्पाय़न उवाच:
व्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ||
३ ख
वैशम्पाय़न उवाच:
एवमुक्ताः पाण्डवेन कौन्तेय़ेन यशस्विना |
४ क
वैशम्पाय़न उवाच:
प्रत्यव्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ||
४ ख
वैशम्पाय़न उवाच:
वय़ं मृगा द्वैतवने हतशिष्टाः स्म भारत |
५ क
वैशम्पाय़न उवाच:
नोत्सीदेम महाराज क्रिय़तां वासपर्ययः ||
५ ख
वैशम्पाय़न उवाच:
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः |
६ क
वैशम्पाय़न उवाच:
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ||
६ ख
वैशम्पाय़न उवाच:
वीजभूता वय़ं केचिदवशिष्टा महामते |
७ क
वैशम्पाय़न उवाच:
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ||
७ ख
वैशम्पाय़न उवाच:
तान्वेपमानान्वित्रस्तान्वीजमात्रावशेषितान् |
८ क
वैशम्पाय़न उवाच:
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ||
८ ख
वैशम्पाय़न उवाच:
तांस्तथेत्यव्रवीद्राजा सर्वभूतहिते रतः |
९ क
वैशम्पाय़न उवाच:
तथ्यं भवन्तो व्रुवते करिष्यामि च तत्तथा ||
९ ख
वैशम्पाय़न उवाच:
इत्येवं प्रतिवुद्धः स रात्र्यन्ते राजसत्तमः |
१० क
वैशम्पाय़न उवाच:
अव्रवीत्सहितान्भ्रातॄन्दय़ापन्नो मृगान्प्रति ||
१० ख
वैशम्पाय़न उवाच:
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः |
११ क
वैशम्पाय़न उवाच:
तनुभूताः स्म भद्रं ते दय़ा नः क्रिय़तामिति ||
११ ख
वैशम्पाय़न उवाच:
ते सत्यमाहुः कर्तव्या दय़ास्माभिर्वनौकसाम् |
१२ क
वैशम्पाय़न उवाच:
साष्टमासं हि नो वर्षं यदेनानुपय़ुञ्ज्महे ||
१२ ख
वैशम्पाय़न उवाच:
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम् |
१३ क
वैशम्पाय़न उवाच:
मरुभूमेः शिरः ख्यातं तृणविन्दुसरः प्रति |
१३ ख
वैशम्पाय़न उवाच:
तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ||
१३ ग
वैशम्पाय़न उवाच:
ततस्ते पाण्डवाः शीघ्रं प्रय़युर्धर्मकोविदाः |
१४ क
वैशम्पाय़न उवाच:
व्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः |
१४ ख
वैशम्पाय़न उवाच:
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ||
१४ ग
वैशम्पाय़न उवाच:
ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः |
१५ क
वैशम्पाय़न उवाच:
ददृशुः काम्यकं पुण्यमाश्रमं तापसाय़ुतम् ||
१५ ख
वैशम्पाय़न उवाच:
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा |
१६ क
वैशम्पाय़न उवाच:
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ||
१६ ख