व्यास उवाच:
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् |
१ क
व्यास उवाच:
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ||
१ ख
व्यास उवाच:
यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः |
२ क
व्यास उवाच:
देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि ||
२ ख
व्यास उवाच:
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते |
३ क
व्यास उवाच:
सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति ||
३ ख
व्यास उवाच:
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः |
४ क
व्यास उवाच:
स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति निय़तेन्द्रिय़ाः ||
४ ख
व्यास उवाच:
स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् |
५ क
व्यास उवाच:
प्रधानद्वैधय़ुक्तानां जहतां कर्मजं रजः ||
५ ख
व्यास उवाच:
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि |
६ क
व्यास उवाच:
वशे तिष्ठति सत्त्वात्मा सततं योगय़ोगिनाम् ||
६ ख
व्यास उवाच:
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः |
७ क
व्यास उवाच:
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ||
७ ख
व्यास उवाच:
मनोवुद्धिपराभूतः स्वदेहपरदेहवित् |
८ क
व्यास उवाच:
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखय़ोः ||
८ ख
व्यास उवाच:
तत्रापि लभते दुःखं तत्रापि लभते सुखम् |
९ क
व्यास उवाच:
क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति ||
९ ख
व्यास उवाच:
प्रीणितश्चापि भवति महतोऽर्थानवाप्य च |
१० क
व्यास उवाच:
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ||
१० ख
व्यास उवाच:
तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् |
११ क
व्यास उवाच:
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ||
११ ख
व्यास उवाच:
शास्त्रय़ोगपरा भूत्वा स्वमात्मानं परीप्सवः |
१२ क
व्यास उवाच:
अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि ||
१२ ख
व्यास उवाच:
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु |
१३ क
व्यास उवाच:
समाधौ योगमेवैतच्छाण्डिल्यः शममव्रवीत् ||
१३ ख
व्यास उवाच:
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् |
१४ क
व्यास उवाच:
प्रधानविनिय़ोगस्थः परं व्रह्माधिगच्छति ||
१४ ख