वैशम्पाय़न उवाच:
वने निवसतां तेषां पाण्डवानां महात्मनाम् |
१ क
वैशम्पाय़न उवाच:
वर्षाण्येकादशातीय़ुः कृच्छ्रेण भरतर्षभ ||
१ ख
वैशम्पाय़न उवाच:
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् |
२ क
वैशम्पाय़न उवाच:
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ||
२ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् |
३ क
वैशम्पाय़न उवाच:
चिन्तय़न्स महावाहुर्भ्रातॄणां दुःखमुत्तमम् ||
३ ख
वैशम्पाय़न उवाच:
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः |
४ क
वैशम्पाय़न उवाच:
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ||
४ ख
वैशम्पाय़न उवाच:
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः |
५ क
वैशम्पाय़न उवाच:
निःश्वासपरमो दीनो विभ्रत्कोपविषं महत् ||
५ ख
वैशम्पाय़न उवाच:
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी |
६ क
वैशम्पाय़न उवाच:
स च भीमो महातेजाः सर्वेषामुत्तमो वली |
६ ख
वैशम्पाय़न उवाच:
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ||
६ ग
वैशम्पाय़न उवाच:
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः |
७ क
वैशम्पाय़न उवाच:
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ||
७ ख
वैशम्पाय़न उवाच:
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः |
८ क
वैशम्पाय़न उवाच:
आजगाम महाय़ोगी पाण्डवानवलोककः ||
८ ख
वैशम्पाय़न उवाच:
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः |
९ क
वैशम्पाय़न उवाच:
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ||
९ ख
वैशम्पाय़न उवाच:
तमासीनमुपासीनः शुश्रूषुर्निय़तेन्द्रिय़ः |
१० क
वैशम्पाय़न उवाच:
तोषय़न्प्रणिपातेन व्यासं पाण्डवनन्दनः ||
१० ख
वैशम्पाय़न उवाच:
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः |
११ क
वैशम्पाय़न उवाच:
महर्षिरनुकम्पार्थमव्रवीद्वाष्पगद्गदम् ||
११ ख
वैशम्पाय़न उवाच:
युधिष्ठिर महावाहो शृणु धर्मभृतां वर |
१२ क
वैशम्पाय़न उवाच:
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ||
१२ ख
वैशम्पाय़न उवाच:
सुखदुःखे हि पुरुषः पर्याय़ेणोपसेवते |
१३ क
वैशम्पाय़न उवाच:
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ||
१३ ख
वैशम्पाय़न उवाच:
प्रज्ञावांस्त्वेव पुरुषः संय़ुक्तः परय़ा धिय़ा |
१४ क
वैशम्पाय़न उवाच:
उदय़ास्तमय़ज्ञो हि न शोचति न हृष्यति ||
१४ ख
वैशम्पाय़न उवाच:
सुखमापतितं सेवेद्दुःखमापतितं सहेत् |
१५ क
वैशम्पाय़न उवाच:
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ||
१५ ख
वैशम्पाय़न उवाच:
तपसो हि परं नास्ति तपसा विन्दते महत् |
१६ क
वैशम्पाय़न उवाच:
नासाध्यं तपसः किञ्चिदिति वुध्यस्व भारत ||
१६ ख
वैशम्पाय़न उवाच:
सत्यमार्जवमक्रोधः संविभागो दमः शमः |
१७ क
वैशम्पाय़न उवाच:
अनसूय़ाविहिंसा च शौचमिन्द्रिय़संय़मः |
१७ ख
वैशम्पाय़न उवाच:
साधनानि महाराज नराणां पुण्यकर्मणाम् ||
१७ ग
वैशम्पाय़न उवाच:
अधर्मरुचय़ो मूढास्तिर्यग्गतिपराय़णाः |
१८ क
वैशम्पाय़न उवाच:
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ||
१८ ख
वैशम्पाय़न उवाच:
इह यत्क्रिय़ते कर्म तत्परत्रोपभुज्यते |
१९ क
वैशम्पाय़न उवाच:
तस्माच्छरीरं युञ्जीत तपसा निय़मेन च ||
१९ ख
वैशम्पाय़न उवाच:
यथाशक्ति प्रय़च्छेच्च सम्पूज्याभिप्रणम्य च |
२० क
वैशम्पाय़न उवाच:
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ||
२० ख
वैशम्पाय़न उवाच:
सत्यवादी लभेताय़ुरनाय़ासमथार्जवी |
२१ क
वैशम्पाय़न उवाच:
अक्रोधनोऽनसूय़श्च निर्वृतिं लभते पराम् ||
२१ ख
वैशम्पाय़न उवाच:
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति |
२२ क
वैशम्पाय़न उवाच:
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रिय़म् ||
२२ ख
वैशम्पाय़न उवाच:
संविभक्ता च दाता च भोगवान्सुखवान्नरः |
२३ क
वैशम्पाय़न उवाच:
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ||
२३ ख
वैशम्पाय़न उवाच:
मान्यान्मानय़िता जन्म कुले महति विन्दति |
२४ क
वैशम्पाय़न उवाच:
व्यसनैर्न तु संय़ोगं प्राप्नोति विजितेन्द्रिय़ः ||
२४ ख
वैशम्पाय़न उवाच:
शुभानुशय़वुद्धिर्हि संय़ुक्तः कालधर्मणा |
२५ क
वैशम्पाय़न उवाच:
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ||
२५ ख
युधिष्ठिर उवाच:
भगवन्दानधर्माणां तपसो वा महामुने |
२६ क
युधिष्ठिर उवाच:
किं स्विद्वहुगुणं प्रेत्य किं वा दुष्करमुच्यते ||
२६ ख
व्यास उवाच:
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन |
२७ क
व्यास उवाच:
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ||
२७ ख
व्यास उवाच:
परित्यज्य प्रिय़ान्प्राणान्धनार्थं हि महाहवम् |
२८ क
व्यास उवाच:
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ||
२८ ख
व्यास उवाच:
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः |
२९ क
व्यास उवाच:
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ||
२९ ख
व्यास उवाच:
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः |
३० क
व्यास उवाच:
न दुष्करतरं दानात्तस्माद्दानं मतं मम ||
३० ख
व्यास उवाच:
विशेषस्त्वत्र विज्ञेय़ो न्याय़ेनोपार्जितं धनम् |
३१ क
व्यास उवाच:
पात्रे देशे च काले च साधुभ्यः प्रतिपादय़ेत् ||
३१ ख
व्यास उवाच:
अन्याय़समुपात्तेन दानधर्मो धनेन यः |
३२ क
व्यास उवाच:
क्रिय़ते न स कर्तारं त्राय़ते महतो भय़ात् ||
३२ ख
व्यास उवाच:
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर |
३३ क
व्यास उवाच:
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ||
३३ ख
व्यास उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३४ क
व्यास उवाच:
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ||
३४ ख