भीष्म उवाच:
भूतानां गुणसङ्ख्यानं भूय़ः पुत्र निशामय़ |
१ क
भीष्म उवाच:
द्वैपाय़नमुखाद्भ्रष्टं श्लाघय़ा परय़ानघ ||
१ ख
भीष्म उवाच:
दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे |
२ क
भीष्म उवाच:
ततोऽहमपि वक्ष्यामि भूय़ः पुत्र निदर्शनम् ||
२ ख
भीष्म उवाच:
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता |
३ क
भीष्म उवाच:
गन्धो गुरुत्वं शक्तिश्च सङ्घातः स्थापना धृतिः ||
३ ख
भीष्म उवाच:
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता |
४ क
भीष्म उवाच:
जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा ||
४ ख
भीष्म उवाच:
अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् |
५ क
भीष्म उवाच:
शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता ||
५ ख
भीष्म उवाच:
वाय़ोरनिय़मः स्पर्शो वादस्थानं स्वतन्त्रता |
६ क
भीष्म उवाच:
वलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः ||
६ ख
भीष्म उवाच:
आकाशस्य गुणः शव्दो व्यापित्वं छिद्रतापि च |
७ क
भीष्म उवाच:
अनाश्रय़मनालम्वमव्यक्तमविकारिता ||
७ ख
भीष्म उवाच:
अप्रतीघातता चैव भूतत्वं विकृतानि च |
८ क
भीष्म उवाच:
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः ||
८ ख
भीष्म उवाच:
चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा |
९ क
भीष्म उवाच:
सदसच्चाशुता चैव मनसो नव वै गुणाः ||
९ ख
भीष्म उवाच:
इष्टानिष्टविकल्पश्च व्यवसाय़ः समाधिता |
१० क
भीष्म उवाच:
संशय़ः प्रतिपत्तिश्च वुद्धौ पञ्चेह ये गुणाः ||
१० ख
युधिष्ठिर उवाच:
कथं पञ्चगुणा वुद्धिः कथं पञ्चेन्द्रिय़ा गुणाः |
११ क
युधिष्ठिर उवाच:
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ||
११ ख
भीष्म उवाच:
आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः |
१२ क
भीष्म उवाच:
भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति ||
१२ ख
भीष्म उवाच:
तत्पुत्र चिन्ताकलितं यदुक्त; मनागतं वै तव सम्प्रतीह |
१३ क
भीष्म उवाच:
भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तवुद्धिः ||
१३ ख