स्थाणुरु उवाच:
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो |
१ क
स्थाणुरु उवाच:
विद्धि सृष्टास्त्वय़ा हीमा मा कुप्यासां पितामह ||
१ ख
स्थाणुरु उवाच:
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः |
२ क
स्थाणुरु उवाच:
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ||
२ ख
प्रजापतिरु उवाच:
न कुप्ये न च मे कामो न भवेरन्प्रजा इति |
३ क
प्रजापतिरु उवाच:
लाघवार्थं धरण्यास्तु ततः संहार इष्यते ||
३ ख
प्रजापतिरु उवाच:
इय़ं हि मां सदा देवी भारार्ता समचोदय़त् |
४ क
प्रजापतिरु उवाच:
संहारार्थं महादेव भारेणाप्सु निमज्जति ||
४ ख
प्रजापतिरु उवाच:
यदाहं नाधिगच्छामि वुद्ध्या वहु विचारय़न् |
५ क
प्रजापतिरु उवाच:
संहारमासां वृद्धानां ततो मां क्रोध आविशत् ||
५ ख
स्थाणुरु उवाच:
संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर |
६ क
स्थाणुरु उवाच:
मा प्रजाः स्थावरं वैच जङ्गमं च विनीनशः ||
६ ख
स्थाणुरु उवाच:
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् |
७ क
स्थाणुरु उवाच:
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ||
७ ख
स्थाणुरु उवाच:
तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् |
८ क
स्थाणुरु उवाच:
प्रसीद भगवन्साधो वर एष वृतो मय़ा ||
८ ख
स्थाणुरु उवाच:
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन |
९ क
स्थाणुरु उवाच:
तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा ||
९ ख
स्थाणुरु उवाच:
उपाय़मन्यं सम्पश्य प्रजानां हितकाम्यया |
१० क
स्थाणुरु उवाच:
यथेमे जन्तवः सर्वे निवर्तेरन्परन्तप ||
१० ख
स्थाणुरु उवाच:
अभावमभिगच्छेय़ुरुत्सन्नप्रजनाः प्रजाः |
११ क
स्थाणुरु उवाच:
अधिदैवनिय़ुक्तोऽस्मि त्वय़ा लोकेष्विहेश्वर ||
११ ख
स्थाणुरु उवाच:
त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम् |
१२ क
स्थाणुरु उवाच:
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ||
१२ ख
नारद उवाच:
श्रुत्वा तु वचनं देवः स्थाणोर्निय़तवाङ्मनाः |
१३ क
नारद उवाच:
तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना ||
१३ ख
नारद उवाच:
ततोऽग्निमुपसङ्गृह्य भगवाँल्लोकपूजितः |
१४ क
नारद उवाच:
प्रवृत्तिं च निवृत्तिं च कल्पय़ामास वै प्रभुः ||
१४ ख
नारद उवाच:
उपसंहरतस्तस्य तमग्निं रोषजं तदा |
१५ क
नारद उवाच:
प्रादुर्वभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ||
१५ ख
नारद उवाच:
कृष्णा रक्ताम्वरधरा रक्तनेत्रतलान्तरा |
१६ क
नारद उवाच:
दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता ||
१६ ख
नारद उवाच:
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् |
१७ क
नारद उवाच:
ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ ||
१७ ख
नारद उवाच:
तामाहूय़ तदा देवो लोकानामादिरीश्वरः |
१८ क
नारद उवाच:
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ||
१८ ख
नारद उवाच:
त्वं हि संहारवुद्ध्या मे चिन्तिता रुषितेन च |
१९ क
नारद उवाच:
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ||
१९ ख
नारद उवाच:
अविशेषेण चैव त्वं प्रजाः संहर भामिनि |
२० क
नारद उवाच:
मम त्वं हि निय़ोगेन श्रेय़ः परमवाप्स्यसि ||
२० ख
नारद उवाच:
एवमुक्ता तु सा देवी मृत्युः कमलमालिनी |
२१ क
नारद उवाच:
प्रदध्यौ दुःखिता वाला साश्रुपातमतीव हि ||
२१ ख
नारद उवाच:
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः |
२२ क
नारद उवाच:
मानवानां हितार्थाय़ यय़ाचे पुनरेव च ||
२२ ख