chevron_left वन पर्व अध्याय २४९
कोटिकाश्य उवाच:
का त्वं कदम्वस्य विनम्य शाखा; मेकाश्रमे तिष्ठसि शोभमाना |
१ क
कोटिकाश्य उवाच:
देदीप्यमानाग्निशिखेव नक्तं; दोधूय़माना पवनेन सुभ्रूः ||
१ ख
कोटिकाश्य उवाच:
अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु विभेषि किं नु |
२ क
कोटिकाश्य उवाच:
देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा ||
२ ख
कोटिकाश्य उवाच:
वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री |
३ क
कोटिकाश्य उवाच:
यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य ||
३ ख
कोटिकाश्य उवाच:
धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना |
४ क
कोटिकाश्य उवाच:
न ह्येव नः पृच्छसि ये वय़ं स्म; न चापि जानीम तवेह नाथम् ||
४ ख
कोटिकाश्य उवाच:
वय़ं हि मानं तव वर्धय़न्तः; पृच्छाम भद्रे प्रभवं प्रभुं च |
५ क
कोटिकाश्य उवाच:
आचक्ष्व वन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् ||
५ ख
कोटिकाश्य उवाच:
अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः |
६ क
कोटिकाश्य उवाच:
असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चय़ने यथैव |
६ ख
कोटिकाश्य उवाच:
त्रिगर्तराजः कमलाय़ताक्षि; क्षेमङ्करो नाम स एष वीरः ||
६ ग
कोटिकाश्य उवाच:
अस्मात्परस्त्वेष महाधनुष्मा; न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः |
७ क
कोटिकाश्य उवाच:
निरीक्षते त्वां विपुलाय़तांसः; सुविस्मितः पर्वतवासनित्यः ||
७ ख
कोटिकाश्य उवाच:
असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीय़ः |
८ क
कोटिकाश्य उवाच:
इक्ष्वाकुराज्ञः सुवलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि ||
८ ख
कोटिकाश्य उवाच:
यस्यानुय़ात्रं ध्वजिनः प्रय़ान्ति; सौवीरका द्वादश राजपुत्राः |
९ क
कोटिकाश्य उवाच:
शोणाश्वय़ुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः ||
९ ख
कोटिकाश्य उवाच:
अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुञ्जय़ः सञ्जय़सुप्रवृद्धौ |
१० क
कोटिकाश्य उवाच:
प्रभङ्करोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम ||
१० ख
कोटिकाश्य उवाच:
यं षट्सहस्रा रथिनोऽनुय़ान्ति; नागा हय़ाश्चैव पदातिनश्च |
११ क
कोटिकाश्य उवाच:
जय़द्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः ||
११ ख
कोटिकाश्य उवाच:
तस्यापरे भ्रातरोऽदीनसत्त्वा; वलाहकानीकविदारणाध्याः |
१२ क
कोटिकाश्य उवाच:
सौवीरवीराः प्रवरा युवानो; राजानमेते वलिनोऽनुय़ान्ति ||
१२ ख
कोटिकाश्य उवाच:
एतैः सहाय़ैरुपय़ाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः |
१३ क
कोटिकाश्य उवाच:
अजानतां ख्यापय़ नः सुकेशि; कस्यासि भार्या दुहिता च कस्य ||
१३ ख