धृतराष्ट्र उवाच:
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः |
१ क
धृतराष्ट्र उवाच:
कथं युय़ुधिरे पार्था मामकाश्च तरस्विनः ||
१ ख
धृतराष्ट्र उवाच:
किमर्जुनश्चाप्यकरोत्संशप्तकवलं प्रति |
२ क
धृतराष्ट्र उवाच:
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः |
३ क
सञ्जय़ उवाच:
स्वय़मभ्यद्रवद्भीमं नागानीकेन ते सुतः ||
३ ख
सञ्जय़ उवाच:
स नाग इव नागेन गोवृषेणेव गोवृषः |
४ क
सञ्जय़ उवाच:
समाहूतः स्वय़ं राज्ञा नागानीकमुपाद्रवत् ||
४ ख
सञ्जय़ उवाच:
स युद्धकुशलः पार्थो वाहुवीर्येण चान्वितः |
५ क
सञ्जय़ उवाच:
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ||
५ ख
सञ्जय़ उवाच:
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् |
६ क
सञ्जय़ उवाच:
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ||
६ ख
सञ्जय़ उवाच:
विधमेदभ्रजालानि यथा वाय़ुः समन्ततः |
७ क
सञ्जय़ उवाच:
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ||
७ ख
सञ्जय़ उवाच:
स तेषु विसृजन्वाणान्भीमो नागेष्वशोभत |
८ क
सञ्जय़ उवाच:
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ||
८ ख
सञ्जय़ उवाच:
ते भीमवाणैः शतशः संस्यूता विवभुर्गजाः |
९ क
सञ्जय़ उवाच:
गभस्तिभिरिवार्कस्य व्योम्नि नानावलाहकाः ||
९ ख
सञ्जय़ उवाच:
तथा गजानां कदनं कुर्वाणमनिलात्मजम् |
१० क
सञ्जय़ उवाच:
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ||
१० ख
सञ्जय़ उवाच:
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः |
११ क
सञ्जय़ उवाच:
क्षय़ं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ||
११ ख
सञ्जय़ उवाच:
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् |
१२ क
सञ्जय़ उवाच:
नाराचैरर्करश्म्याभैर्भीमसेनं स्मय़न्निव ||
१२ ख
सञ्जय़ उवाच:
तस्य नागं मणिमय़ं रत्नचित्रं ध्वजे स्थितम् |
१३ क
सञ्जय़ उवाच:
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ||
१३ ख
सञ्जय़ उवाच:
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष |
१४ क
सञ्जय़ उवाच:
चुक्षोभय़िषुरभ्यागादङ्गो मातङ्गमास्थितः ||
१४ ख
सञ्जय़ उवाच:
तमापतन्तं मातङ्गमम्वुदप्रतिमस्वनम् |
१५ क
सञ्जय़ उवाच:
कुम्भान्तरे भीमसेनो नाराचेनार्दय़द्भृशम् ||
१५ ख
सञ्जय़ उवाच:
तस्य काय़ं विनिर्भिद्य ममज्ज धरणीतले |
१६ क
सञ्जय़ उवाच:
ततः पपात द्विरदो वज्राहत इवाचलः ||
१६ ख
सञ्जय़ उवाच:
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः |
१७ क
सञ्जय़ उवाच:
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ||
१७ ख
सञ्जय़ उवाच:
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः |
१८ क
सञ्जय़ उवाच:
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ||
१८ ख
सञ्जय़ उवाच:
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः |
१९ क
सञ्जय़ उवाच:
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ||
१९ ख
सञ्जय़ उवाच:
येन नागेन मघवानजय़द्दैत्यदानवान् |
२० क
सञ्जय़ उवाच:
स नागप्रवरो भीमं सहसा समुपाद्रवत् ||
२० ख
सञ्जय़ उवाच:
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च |
२१ क
सञ्जय़ उवाच:
व्यावृत्तनय़नः क्रुद्धः प्रदहन्निव पाण्डवम् ||
२१ ख
सञ्जय़ उवाच:
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् |
२२ क
सञ्जय़ उवाच:
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ||
२२ ख
सञ्जय़ उवाच:
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी |
२३ क
सञ्जय़ उवाच:
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ||
२३ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् |
२४ क
सञ्जय़ उवाच:
भगदत्तं सपाञ्चालः सर्वतः समवारय़त् ||
२४ ख
सञ्जय़ उवाच:
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः |
२५ क
सञ्जय़ उवाच:
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ||
२५ ख
सञ्जय़ उवाच:
स विघातं पृषत्कानामङ्कुशेन समाचरन् |
२६ क
सञ्जय़ उवाच:
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ||
२६ ख
सञ्जय़ उवाच:
तदद्भुतमपश्याम भगदत्तस्य संय़ुगे |
२७ क
सञ्जय़ उवाच:
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ||
२७ ख
सञ्जय़ उवाच:
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् |
२८ क
सञ्जय़ उवाच:
तिर्यग्यातेन नागेन समदेनाशुगामिना ||
२८ ख
सञ्जय़ उवाच:
तय़ोर्युद्धं समभवन्नागय़ोर्भीमरूपय़ोः |
२९ क
सञ्जय़ उवाच:
सपक्षय़ोः पर्वतय़ोर्यथा सद्रुमय़ोः पुरा ||
२९ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च |
३० क
सञ्जय़ उवाच:
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातय़त् ||
३० ख
सञ्जय़ उवाच:
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः |
३१ क
सञ्जय़ उवाच:
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ||
३१ ख
सञ्जय़ उवाच:
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः |
३२ क
सञ्जय़ उवाच:
रथानीकेन महता सर्वतः पर्यवारय़त् ||
३२ ख
सञ्जय़ उवाच:
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः |
३३ क
सञ्जय़ उवाच:
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ||
३३ ख
सञ्जय़ उवाच:
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् |
३४ क
सञ्जय़ उवाच:
किरतां शरवर्षाणि स नागः पर्यवर्तत ||
३४ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् |
३५ क
सञ्जय़ उवाच:
प्रेषय़ामास सहसा युय़ुधानरथं प्रति ||
३५ ख
सञ्जय़ उवाच:
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः |
३६ क
सञ्जय़ उवाच:
अभिचिक्षेप वेगेन युय़ुधानस्त्वपाक्रमत् ||
३६ ख
सञ्जय़ उवाच:
वृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः |
३७ क
सञ्जय़ उवाच:
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ||
३७ ख
सञ्जय़ उवाच:
स तु लव्ध्वान्तरं नागस्त्वरितो रथमण्डलात् |
३८ क
सञ्जय़ उवाच:
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ||
३८ ख
सञ्जय़ उवाच:
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः |
३९ क
सञ्जय़ उवाच:
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ||
३९ ख
सञ्जय़ उवाच:
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः |
४० क
सञ्जय़ उवाच:
ऐरावतस्थेन यथा देवराजेन दानवाः ||
४० ख
सञ्जय़ उवाच:
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः |
४१ क
सञ्जय़ उवाच:
गजवाजिकृतः शव्दः सुमहान्समजाय़त ||
४१ ख
सञ्जय़ उवाच:
भगदत्तेन समरे काल्यमानेषु पाण्डुषु |
४२ क
सञ्जय़ उवाच:
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ||
४२ ख
सञ्जय़ उवाच:
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा |
४३ क
सञ्जय़ उवाच:
सिक्त्वा व्यत्रासय़न्नागस्ते पार्थमहरंस्ततः ||
४३ ख
सञ्जय़ उवाच:
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः |
४४ क
सञ्जय़ उवाच:
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ||
४४ ख
सञ्जय़ उवाच:
ततो रुचिरपर्वाणं शरेण नतपर्वणा |
४५ क
सञ्जय़ उवाच:
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षय़म् ||
४५ ख
सञ्जय़ उवाच:
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः |
४६ क
सञ्जय़ उवाच:
चेकितानो धृष्टकेतुर्युय़ुत्सुश्चार्दय़न्द्विपम् ||
४६ ख
सञ्जय़ उवाच:
त एनं शरधाराभिर्धाराभिरिव तोय़दाः |
४७ क
सञ्जय़ उवाच:
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ||
४७ ख
सञ्जय़ उवाच:
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः |
४८ क
सञ्जय़ उवाच:
प्रसारितकरः प्राय़ात्स्तव्धकर्णेक्षणो द्रुतम् ||
४८ ख
सञ्जय़ उवाच:
सोऽधिष्ठाय़ पदा वाहान्युय़ुत्सोः सूतमारुजत् |
४९ क
सञ्जय़ उवाच:
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ||
४९ ख
सञ्जय़ उवाच:
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः |
५० क
सञ्जय़ उवाच:
वभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ||
५० ख