chevron_left द्रोण पर्व अध्याय २५
सञ्जय़ उवाच:
तमार्जुनिर्द्वादशभिर्युय़ुत्सुर्दशभिः शरैः |
५१ क
सञ्जय़ उवाच:
त्रिभिस्त्रिभिर्द्रौपदेय़ा धृष्टकेतुश्च विव्यधुः ||
५१ ख
सञ्जय़ उवाच:
सोऽरिय़त्नार्पितैर्वाणैराचितो द्विरदो वभौ |
५२ क
सञ्जय़ उवाच:
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ||
५२ ख
सञ्जय़ उवाच:
निय़न्तुः शिल्पय़त्नाभ्यां प्रेषितोऽरिशरार्दितः |
५३ क
सञ्जय़ उवाच:
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ||
५३ ख
सञ्जय़ उवाच:
गोपाल इव दण्डेन यथा पशुगणान्वने |
५४ क
सञ्जय़ उवाच:
आवेष्टय़त तां सेनां भगदत्तस्तथा मुहुः ||
५४ ख
सञ्जय़ उवाच:
क्षिप्रं श्येनाभिपन्नानां वाय़सानामिव स्वनः |
५५ क
सञ्जय़ उवाच:
वभूव पाण्डवेय़ानां भृशं विद्रवतां स्वनः ||
५५ ख
सञ्जय़ उवाच:
स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप |
५६ क
सञ्जय़ उवाच:
भय़ं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ||
५६ ख
सञ्जय़ उवाच:
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै; र्भय़ाद्द्रवद्भिर्जनितोऽतिभैरवः |
५७ क
सञ्जय़ उवाच:
क्षितिं विय़द्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संय़ुगे तदा ||
५७ ख
सञ्जय़ उवाच:
स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् |
५८ क
सञ्जय़ उवाच:
पुरा सुगुप्तां विवुधैरिवाहवे; विरोचनो देववरूथिनीमिव ||
५८ ख
सञ्जय़ उवाच:
भृशं ववौ ज्वलनसखो विय़द्रजः; समावृणोन्मुहुरपि चैव सैनिकान् |
५९ क
सञ्जय़ उवाच:
तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ||
५९ ख