गान्धार्यु उवाच:
काम्वोजं पश्य दुर्धर्षं काम्वोजास्तरणोचितम् |
१ क
गान्धार्यु उवाच:
शय़ानमृषभस्कन्धं हतं पांसुशु माधव ||
१ ख
गान्धार्यु उवाच:
यस्य क्षतजसन्दिग्धौ वाहू चन्दनरूषितौ |
२ क
गान्धार्यु उवाच:
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ||
२ ख
गान्धार्यु उवाच:
इमौ तौ परिघप्रख्यौ वाहू शुभतलाङ्गुली |
३ क
गान्धार्यु उवाच:
यय़ोर्विवरमापन्नां न रतिर्मां पुराजहत् ||
३ ख
गान्धार्यु उवाच:
कां गतिं नु गमिष्यामि त्वय़ा हीना जनेश्वर |
४ क
गान्धार्यु उवाच:
दूरवन्धुरनाथेव अतीव मधुरस्वरा ||
४ ख
गान्धार्यु उवाच:
आतपे क्लाम्यमानानां विविधानामिव स्रजाम् |
५ क
गान्धार्यु उवाच:
क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ||
५ ख
गान्धार्यु उवाच:
शय़ानमभितः शूरं कालिङ्गं मधुसूदन |
६ क
गान्धार्यु उवाच:
पश्य दीप्ताङ्गदय़ुगप्रतिवद्धमहाभुजम् ||
६ ख
गान्धार्यु उवाच:
मागधानामधिपतिं जय़त्सेनं जनार्दन |
७ क
गान्धार्यु उवाच:
परिवार्य प्ररुदिता मागध्यः पश्य योषितः ||
७ ख
गान्धार्यु उवाच:
आसामाय़तनेत्राणां सुस्वराणां जनार्दन |
८ क
गान्धार्यु उवाच:
मनःश्रुतिहरो नादो मनो मोहय़तीव मे ||
८ ख
गान्धार्यु उवाच:
प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः |
९ क
गान्धार्यु उवाच:
स्वास्तीर्णशय़नोपेता मागध्यः शेरते भुवि ||
९ ख
गान्धार्यु उवाच:
कोसलानामधिपतिं राजपुत्रं वृहद्वलम् |
१० क
गान्धार्यु उवाच:
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रिय़ः ||
१० ख
गान्धार्यु उवाच:
अस्य गात्रगतान्वाणान्कार्ष्णिवाहुवलार्पितान् |
११ क
गान्धार्यु उवाच:
उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ||
११ ख
गान्धार्यु उवाच:
आसां सर्वानवद्यानामातपेन परिश्रमात् |
१२ क
गान्धार्यु उवाच:
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ||
१२ ख
गान्धार्यु उवाच:
द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः |
१३ क
गान्धार्यु उवाच:
द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकय़ाः ||
१३ ख
गान्धार्यु उवाच:
तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः |
१४ क
गान्धार्यु उवाच:
भासय़न्ति महीं भासा ज्वलिता इव पावकाः ||
१४ ख
गान्धार्यु उवाच:
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् |
१५ क
गान्धार्यु उवाच:
महाद्विपमिवारण्ये सिंहेन महता हतम् ||
१५ ख
गान्धार्यु उवाच:
पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् |
१६ क
गान्धार्यु उवाच:
आतपत्रं समाभाति शरदीव दिवाकरः ||
१६ ख
गान्धार्यु उवाच:
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः |
१७ क
गान्धार्यु उवाच:
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ||
१७ ख
गान्धार्यु उवाच:
धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः |
१८ क
गान्धार्यु उवाच:
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ||
१८ ख
गान्धार्यु उवाच:
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन |
१९ क
गान्धार्यु उवाच:
महेष्वासो हतः शेते नद्या हृत इव द्रुमः ||
१९ ख
गान्धार्यु उवाच:
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः |
२० क
गान्धार्यु उवाच:
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ||
२० ख
गान्धार्यु उवाच:
वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः |
२१ क
गान्धार्यु उवाच:
चेदिराजं हृषीकेश हतं सवलवान्धवम् ||
२१ ख
गान्धार्यु उवाच:
दाशार्हीपुत्रजं वीरं शय़ानं सत्यविक्रमम् |
२२ क
गान्धार्यु उवाच:
आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ||
२२ ख
गान्धार्यु उवाच:
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् |
२३ क
गान्धार्यु उवाच:
द्रोणेन समरे पश्य निकृत्तं वहुधा शरैः ||
२३ ख
गान्धार्यु उवाच:
पितरं नूनमाजिस्थं युध्यमानं परैः सह |
२४ क
गान्धार्यु उवाच:
नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ||
२४ ख
गान्धार्यु उवाच:
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् |
२५ क
गान्धार्यु उवाच:
दुर्योधनं महावाहो लक्ष्मणः परवीरहा ||
२५ ख
गान्धार्यु उवाच:
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव |
२६ क
गान्धार्यु उवाच:
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ||
२६ ख
गान्धार्यु उवाच:
काञ्चनाङ्गदवर्माणौ वाणखड्गधनुर्धरौ |
२७ क
गान्धार्यु उवाच:
ऋषभप्रतिरूपाक्षौ शय़ानौ विमलस्रजौ ||
२७ ख
गान्धार्यु उवाच:
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वय़ा सह |
२८ क
गान्धार्यु उवाच:
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ||
२८ ख
गान्धार्यु उवाच:
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् |
२९ क
गान्धार्यु उवाच:
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः |
२९ ख
गान्धार्यु उवाच:
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ||
२९ ग
गान्धार्यु उवाच:
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् |
३० क
गान्धार्यु उवाच:
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन |
३० ख
गान्धार्यु उवाच:
यदिमे निहताः शूराः क्षत्रिय़ैः क्षत्रिय़र्षभाः ||
३० ग
गान्धार्यु उवाच:
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः |
३१ क
गान्धार्यु उवाच:
यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ||
३१ ख
गान्धार्यु उवाच:
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च |
३२ क
गान्धार्यु उवाच:
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ||
३२ ख
गान्धार्यु उवाच:
तय़ोर्न दर्शनं तात मिथ्या भवितुमर्हति |
३३ क
गान्धार्यु उवाच:
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ||
३३ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता |
३४ क
वैशम्पाय़न उवाच:
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ||
३४ ख
वैशम्पाय़न उवाच:
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता |
३५ क
वैशम्पाय़न उवाच:
जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिय़ा ||
३५ ख
गान्धार्यु उवाच:
पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् |
३६ क
गान्धार्यु उवाच:
उपेक्षिता विनश्यन्तस्त्वय़ा कस्माज्जनार्दन ||
३६ ख
गान्धार्यु उवाच:
शक्तेन वहुभृत्येन विपुले तिष्ठता वले |
३७ क
गान्धार्यु उवाच:
उभय़त्र समर्थेन श्रुतवाक्येन चैव ह ||
३७ ख
गान्धार्यु उवाच:
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन |
३८ क
गान्धार्यु उवाच:
यस्मात्त्वय़ा महावाहो फलं तस्मादवाप्नुहि ||
३८ ख
गान्धार्यु उवाच:
पतिशुश्रूषय़ा यन्मे तपः किञ्चिदुपार्जितम् |
३९ क
गान्धार्यु उवाच:
तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ||
३९ ख
गान्धार्यु उवाच:
यस्मात्परस्परं घ्नन्तो ज्ञातय़ः कुरुपाण्डवाः |
४० क
गान्धार्यु उवाच:
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ||
४० ख
गान्धार्यु उवाच:
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन |
४१ क
गान्धार्यु उवाच:
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः |
४१ ख
गान्धार्यु उवाच:
कुत्सितेनाभ्युपाय़ेन निधनं समवाप्स्यसि ||
४१ ग
गान्धार्यु उवाच:
तवाप्येवं हतसुता निहतज्ञातिवान्धवाः |
४२ क
गान्धार्यु उवाच:
स्त्रिय़ः परिपतिष्यन्ति यथैता भरतस्त्रिय़ः ||
४२ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः |
४३ क
वैशम्पाय़न उवाच:
उवाच देवीं गान्धारीमीषदभ्युत्स्मय़न्निव ||
४३ ख
वैशम्पाय़न उवाच:
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे |
४४ क
वैशम्पाय़न उवाच:
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिय़े ||
४४ ख
वैशम्पाय़न उवाच:
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः |
४५ क
वैशम्पाय़न उवाच:
परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ||
४५ ख
वैशम्पाय़न उवाच:
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः |
४६ क
वैशम्पाय़न उवाच:
वभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ||
४६ ख