chevron_left शान्ति पर्व अध्याय २५
वैशम्पाय़न उवाच:
पुनरेव महर्षिस्तं कृष्णद्वैपाय़नोऽव्रवीत् |
१ क
वैशम्पाय़न उवाच:
अजातशत्रुं कौन्तेय़मिदं वचनमर्थवत् ||
१ ख
वैशम्पाय़न उवाच:
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् |
२ क
वैशम्पाय़न उवाच:
मनोरथा महाराज ये तत्रासन्युधिष्ठिर ||
२ ख
वैशम्पाय़न उवाच:
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः |
३ क
वैशम्पाय़न उवाच:
प्रशाधि पृथिवीं पार्थ यय़ातिरिव नाहुषः ||
३ ख
वैशम्पाय़न उवाच:
अरण्ये दुःखवसतिरनुभूता तपस्विभिः |
४ क
वैशम्पाय़न उवाच:
दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ||
४ ख
वैशम्पाय़न उवाच:
धर्ममर्थं च कामं च भ्रातृभिः सह भारत |
५ क
वैशम्पाय़न उवाच:
अनुभूय़ ततः पश्चात्प्रस्थातासि विशां पते ||
५ ख
वैशम्पाय़न उवाच:
अतिथीनां च पितॄणां देवतानां च भारत |
६ क
वैशम्पाय़न उवाच:
आनृण्यं गच्छ कौन्तेय़ ततः स्वर्गं गमिष्यसि ||
६ ख
वैशम्पाय़न उवाच:
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन |
७ क
वैशम्पाय़न उवाच:
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ||
७ ख
वैशम्पाय़न उवाच:
भ्रातॄंश्च सर्वान्क्रतुभिः संय़ोज्य वहुदक्षिणैः |
८ क
वैशम्पाय़न उवाच:
सम्प्राप्तः कीर्तिमतुलां पाण्डवेय़ भविष्यसि ||
८ ख
वैशम्पाय़न उवाच:
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन |
९ क
वैशम्पाय़न उवाच:
शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ||
९ ख
वैशम्पाय़न उवाच:
आददानस्य च धनं निग्रहं च युधिष्ठिर |
१० क
वैशम्पाय़न उवाच:
समानं धर्मकुशलाः स्थापय़न्ति नरेश्वर ||
१० ख
वैशम्पाय़न उवाच:
देशकालप्रतीक्षे यो दस्योर्दर्शय़ते नृपः |
११ क
वैशम्पाय़न उवाच:
शास्त्रजां वुद्धिमास्थाय़ नैनसा स हि युज्यते ||
११ ख
वैशम्पाय़न उवाच:
आदाय़ वलिषड्भागं यो राष्ट्रं नाभिरक्षति |
१२ क
वैशम्पाय़न उवाच:
प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ||
१२ ख
वैशम्पाय़न उवाच:
निवोध च यथातिष्ठन्धर्मान्न च्यवते नृपः |
१३ क
वैशम्पाय़न उवाच:
निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः |
१३ ख
वैशम्पाय़न उवाच:
कामक्रोधावनादृत्य पितेव समदर्शनः ||
१३ ग
वैशम्पाय़न उवाच:
दैवेनोपहते राजा कर्मकाले महाद्युते |
१४ क
वैशम्पाय़न उवाच:
प्रमादय़ति तत्कर्म न तत्राहुरतिक्रमम् ||
१४ ख
वैशम्पाय़न उवाच:
तरसा वुद्धिपूर्वं वा निग्राह्या एव शत्रवः |
१५ क
वैशम्पाय़न उवाच:
पापैः सह न सन्दध्याद्राष्ट्रं पण्यं न कारय़ेत् ||
१५ ख
वैशम्पाय़न उवाच:
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर |
१६ क
वैशम्पाय़न उवाच:
गोमतो धनिनश्चैव परिपाल्या विशेषतः ||
१६ ख
वैशम्पाय़न उवाच:
व्यवहारेषु धर्म्येषु निय़ोज्याश्च वहुश्रुताः |
१७ क
वैशम्पाय़न उवाच:
गुणय़ुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ||
१७ ख
वैशम्पाय़न उवाच:
अरक्षिता दुर्विनीतो मानी स्तव्धोऽभ्यसूय़कः |
१८ क
वैशम्पाय़न उवाच:
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ||
१८ ख
वैशम्पाय़न उवाच:
येऽरक्ष्यमाणा हीय़न्ते दैवेनोपहते नृपे |
१९ क
वैशम्पाय़न उवाच:
तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्विषम् ||
१९ ख
वैशम्पाय़न उवाच:
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते |
२० क
वैशम्पाय़न उवाच:
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ||
२० ख
वैशम्पाय़न उवाच:
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः |
२१ क
वैशम्पाय़न उवाच:
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ||
२१ ख
वैशम्पाय़न उवाच:
अत्र ते राजशार्दूल वर्तय़िष्ये कथामिमाम् |
२२ क
वैशम्पाय़न उवाच:
यद्वृत्तं पूर्वराजर्षेर्हय़ग्रीवस्य पार्थिव ||
२२ ख
वैशम्पाय़न उवाच:
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः |
२३ क
वैशम्पाय़न उवाच:
असहाय़स्य धीरस्य निर्जितस्य युधिष्ठिर ||
२३ ख
वैशम्पाय़न उवाच:
यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् |
२४ क
वैशम्पाय़न उवाच:
कृत्वा कर्म प्राप्य कीर्तिं सुय़ुद्धे; वाजिग्रीवो मोदते देवलोके ||
२४ ख
वैशम्पाय़न उवाच:
सन्त्यक्तात्मा समरेष्वातताय़ी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः |
२५ क
वैशम्पाय़न उवाच:
अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके ||
२५ ख
वैशम्पाय़न उवाच:
धनुर्यूपो रशना ज्या शरः स्रु; क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् |
२६ क
वैशम्पाय़न उवाच:
रथो वेदी कामगो युद्धमग्नि; श्चातुर्होत्रं चतुरो वाजिमुख्याः ||
२६ ख
वैशम्पाय़न उवाच:
हुत्वा तस्मिन्यज्ञवह्नावथारी; न्पापान्मुक्तो राजसिंहस्तरस्वी |
२७ क
वैशम्पाय़न उवाच:
प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके ||
२७ ख
वैशम्पाय़न उवाच:
राष्ट्रं रक्षन्वुद्धिपूर्वं नय़ेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |
२८ क
वैशम्पाय़न उवाच:
सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके ||
२८ ख
वैशम्पाय़न उवाच:
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्याय़ैः पालय़ित्वा महीं च |
२९ क
वैशम्पाय़न उवाच:
तस्माद्राजा धर्मशीलो महात्मा; हय़ग्रीवो मोदते स्वर्गलोके ||
२९ ख
वैशम्पाय़न उवाच:
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ; स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा |
३० क
वैशम्पाय़न उवाच:
मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा ||
३० ख
वैशम्पाय़न उवाच:
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालय़ित्वा महात्मा |
३१ क
वैशम्पाय़न उवाच:
चातुर्वर्ण्यं स्थापय़ित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके ||
३१ ख
वैशम्पाय़न उवाच:
जित्वा सङ्ग्रामान्पालय़ित्वा प्रजाश्च; सोमं पीत्वा तर्पय़ित्वा द्विजाग्र्यान् |
३२ क
वैशम्पाय़न उवाच:
युक्त्या दण्डं धारय़ित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||
३२ ख
वैशम्पाय़न उवाच:
वृत्तं यस्य श्लाघनीय़ं मनुष्याः; सन्तो विद्वांसश्चार्हय़न्त्यर्हणीय़ाः |
३३ क
वैशम्पाय़न उवाच:
स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ||
३३ ख