व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
चातुर्होत्रविधानस्य विधानमिह यादृशम् ||
१ ख
व्राह्मण उवाच:
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते |
२ क
व्राह्मण उवाच:
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ||
२ ख
व्राह्मण उवाच:
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि |
३ क
व्राह्मण उवाच:
चत्वार एते होतारो यैरिदं जगदावृतम् ||
३ ख
व्राह्मण उवाच:
होतॄणां साधनं चैव शृणु सर्वमशेषतः |
४ क
व्राह्मण उवाच:
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |
४ ख
व्राह्मण उवाच:
मनो वुद्धिश्च सप्तैते विज्ञेय़ा गुणहेतवः ||
४ ग
व्राह्मण उवाच:
गन्धो रसश्च रूपं च शव्दः स्पर्शश्च पञ्चमः |
५ क
व्राह्मण उवाच:
मन्तव्यमथ वोद्धव्यं सप्तैते कर्महेतवः ||
५ ख
व्राह्मण उवाच:
घ्राता भक्षय़िता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
६ क
व्राह्मण उवाच:
मन्ता वोद्धा च सप्तैते विज्ञेय़ाः कर्तृहेतवः ||
६ ख
व्राह्मण उवाच:
स्वगुणं भक्षय़न्त्येते गुणवन्तः शुभाशुभम् |
७ क
व्राह्मण उवाच:
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ||
७ ख
व्राह्मण उवाच:
विदुषां वुध्यमानानां स्वं स्वं स्थानं यथाविधि |
८ क
व्राह्मण उवाच:
गुणास्ते देवताभूताः सततं भुञ्जते हविः ||
८ ख
व्राह्मण उवाच:
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते |
९ क
व्राह्मण उवाच:
आत्मार्थं पाचय़न्नित्यं ममत्वेनोपहन्यते ||
९ ख
व्राह्मण उवाच:
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् |
१० क
व्राह्मण उवाच:
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते वुधः ||
१० ख
व्राह्मण उवाच:
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनय़तीश्वरः |
११ क
व्राह्मण उवाच:
स चान्नाज्जाय़ते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ||
११ ख
व्राह्मण उवाच:
मनसा गम्यते यच्च यच्च वाचा निरुद्यते |
१२ क
व्राह्मण उवाच:
श्रोत्रेण श्रूय़ते यच्च चक्षुषा यच्च दृश्यते ||
१२ ख
व्राह्मण उवाच:
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्राय़ते च यत् |
१३ क
व्राह्मण उवाच:
मनःषष्ठानि संय़म्य हवींष्येतानि सर्वशः ||
१३ ख
व्राह्मण उवाच:
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः |
१४ क
व्राह्मण उवाच:
योगय़ज्ञः प्रवृत्तो मे ज्ञानव्रह्ममनोद्भवः |
१४ ख
व्राह्मण उवाच:
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ||
१४ ग
व्राह्मण उवाच:
कर्मानुमन्ता व्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः |
१५ क
व्राह्मण उवाच:
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ||
१५ ख
व्राह्मण उवाच:
ऋचश्चाप्यत्र शंसन्ति नाराय़णविदो जनाः |
१६ क
व्राह्मण उवाच:
नाराय़णाय़ देवाय़ यदवध्नन्पशून्पुरा ||
१६ ख
व्राह्मण उवाच:
तत्र सामानि गाय़न्ति तानि चाहुर्निदर्शनम् |
१७ क
व्राह्मण उवाच:
देवं नाराय़णं भीरु सर्वात्मानं निवोध मे ||
१७ ख