chevron_left उद्योग पर्व अध्याय २४
सञ्जय़ उवाच:
यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि |
१ क
सञ्जय़ उवाच:
अनामय़ास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ||
१ ख
सञ्जय़ उवाच:
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि |
२ क
सञ्जय़ उवाच:
दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दाय़ाँल्लोपय़ेद्व्राह्मणानाम् ||
२ ख
सञ्जय़ उवाच:
यद्युष्माकं वर्ततेऽसौ न धर्म्य; मद्रुग्धेषु द्रुग्धवत्तन्न साधु |
३ क
सञ्जय़ उवाच:
मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः ||
३ ख
सञ्जय़ उवाच:
न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो |
४ क
सञ्जय़ उवाच:
शृणोति हि व्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीय़ान् ||
४ ख
सञ्जय़ उवाच:
स्मरन्ति तुभ्यं नरदेव सङ्गमे; युद्धे च जिष्णोश्च युधां प्रणेतुः |
५ क
सञ्जय़ उवाच:
समुत्कृष्टे दुन्दुभिशङ्खशव्दे; गदापाणिं भीमसेनं स्मरन्ति ||
५ ख
सञ्जय़ उवाच:
माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः सम्पतन्तौ स्मरन्ति |
६ क
सञ्जय़ उवाच:
सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ||
६ ख
सञ्जय़ उवाच:
न त्वेव मन्ये पुरुषस्य राज; न्ननागतं ज्ञाय़ते यद्भविष्यम् |
७ क
सञ्जय़ उवाच:
त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ||
७ ख
सञ्जय़ उवाच:
त्वमेवैतत्सर्वमतश्च भूय़ः; समीकुर्याः प्रज्ञय़ाजातशत्रो |
८ क
सञ्जय़ उवाच:
न कामार्थं सन्त्यजेय़ुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ||
८ ख
सञ्जय़ उवाच:
त्वमेवैतत्प्रज्ञय़ाजातशत्रो; शमं कुर्या येन शर्माप्नुय़ुस्ते |
९ क
सञ्जय़ उवाच:
धार्तराष्ट्राः पाण्डवाः सृञ्जय़ाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः ||
९ ख
सञ्जय़ उवाच:
यन्माव्रवीद्धृतराष्ट्रो निशाय़ा; मजातशत्रो वचनं पिता ते |
१० क
सञ्जय़ उवाच:
सहामात्यः सहपुत्रश्च राज; न्समेत्य तां वाचमिमां निवोध ||
१० ख