युधिष्ठिर उवाच:
समागताः पाण्डवाः सृञ्जय़ाश्च; जनार्दनो युय़ुधानो विराटः |
१ क
युधिष्ठिर उवाच:
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे व्रूहि तत्सूतपुत्र ||
१ ख
सञ्जय़ उवाच:
अजातशत्रुं च वृकोदरं च; धनञ्जय़ं माद्रवतीसुतौ च |
२ क
सञ्जय़ उवाच:
आमन्त्रय़े वासुदेवं च शौरिं; युय़ुधानं चेकितानं विराटम् ||
२ ख
सञ्जय़ उवाच:
पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् |
३ क
सञ्जय़ उवाच:
सर्वे वाचं शृणुतेमां मदीय़ां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ||
३ ख
सञ्जय़ उवाच:
शमं राजा धृतराष्ट्रोऽभिनन्द; न्नय़ोजय़त्त्वरमाणो रथं मे |
४ क
सञ्जय़ उवाच:
सभ्रातृपुत्रस्वजनस्य राज्ञ; स्तद्रोचतां पाण्डवानां शमोऽस्तु ||
४ ख
सञ्जय़ उवाच:
सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन |
५ क
सञ्जय़ उवाच:
जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चय़ज्ञाः ||
५ ख
सञ्जय़ उवाच:
न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः |
६ क
सञ्जय़ उवाच:
उद्भासते ह्यञ्जनविन्दुवत्त; च्छुक्ले वस्त्रे यद्भवेत्किल्विषं वः ||
६ ख
सञ्जय़ उवाच:
सर्वक्षय़ो दृश्यते यत्र कृत्स्नः; पापोदय़ो निरय़ोऽभावसंस्थः |
७ क
सञ्जय़ उवाच:
कस्तत्कुर्याज्जातु कर्म प्रजान; न्पराजय़ो यत्र समो जय़श्च ||
७ ख
सञ्जय़ उवाच:
ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो वान्धवाश्च |
८ क
सञ्जय़ उवाच:
उपक्रुष्टं जीवितं सन्त्यजेय़ु; स्ततः कुरूणां निय़तो वै भवः स्यात् ||
८ ख
सञ्जय़ उवाच:
ते चेत्कुरूननुशास्य स्थ पार्था; निनीय़ सर्वान्द्विषतो निगृह्य |
९ क
सञ्जय़ उवाच:
समं वस्तज्जीवितं मृत्युना स्या; द्यज्जीवध्वं ज्ञातिवधे न साधु ||
९ ख
सञ्जय़ उवाच:
को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतवाहुगुप्तान् |
१० क
सञ्जय़ उवाच:
ससात्यकीन्विषहेत प्रजेतुं; लव्ध्वापि देवान्सचिवान्सहेन्द्रान् ||
१० ख
सञ्जय़ उवाच:
को वा कुरून्द्रोणभीष्माभिगुप्ता; नश्वत्थाम्ना शल्यकृपादिभिश्च |
११ क
सञ्जय़ उवाच:
रणे प्रसोढुं विषहेत राज; न्राधेय़गुप्तान्सह भूमिपालैः ||
११ ख
सञ्जय़ उवाच:
महद्वलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीय़माणः |
१२ क
सञ्जय़ उवाच:
सोऽहं जय़े चैव पराजय़े च; निःश्रेय़सं नाधिगच्छामि किञ्चित् ||
१२ ख
सञ्जय़ उवाच:
कथं हि नीचा इव दौष्कुलेय़ा; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः |
१३ क
सञ्जय़ उवाच:
सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् ||
१३ ख
सञ्जय़ उवाच:
कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जय़ानाम् |
१४ क
सञ्जय़ उवाच:
न ह्येव ते वचनं वासुदेवो; धनञ्जय़ो वा जातु किञ्चिन्न कुर्यात् ||
१४ ख
सञ्जय़ उवाच:
प्राणानादौ याच्यमानः कुतोऽन्य; देतद्विद्वन्साधनार्थं व्रवीमि |
१५ क
सञ्जय़ उवाच:
एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् ||
१५ ख