अर्जुन उवाच:
ज्याय़सी चेत्कर्मणस्ते मता वुद्धिर्जनार्दन |
१ क
अर्जुन उवाच:
तत्किं कर्मणि घोरे मां निय़ोजय़सि केशव ||
१ ख
अर्जुन उवाच:
व्यामिश्रेणैव वाक्येन वुद्धिं मोहय़सीव मे |
२ क
अर्जुन उवाच:
तदेकं वद निश्चित्य येन श्रेय़ोऽहमाप्नुय़ाम् ||
२ ख
श्रीभगवानु उवाच:
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मय़ानघ |
३ क
श्रीभगवानु उवाच:
ज्ञानय़ोगेन साङ्ख्यानां कर्मय़ोगेन योगिनाम् ||
३ ख
श्रीभगवानु उवाच:
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |
४ क
श्रीभगवानु उवाच:
न च संन्यसनादेव सिद्धिं समधिगच्छति ||
४ ख
श्रीभगवानु उवाच:
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |
५ क
श्रीभगवानु उवाच:
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||
५ ख
श्रीभगवानु उवाच:
कर्मेन्द्रिय़ाणि संय़म्य य आस्ते मनसा स्मरन् |
६ क
श्रीभगवानु उवाच:
इन्द्रिय़ार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||
६ ख
श्रीभगवानु उवाच:
यस्त्विन्द्रिय़ाणि मनसा निय़म्यारभतेऽर्जुन |
७ क
श्रीभगवानु उवाच:
कर्मेन्द्रिय़ैः कर्मय़ोगमसक्तः स विशिष्यते ||
७ ख
श्रीभगवानु उवाच:
निय़तं कुरु कर्म त्वं कर्म ज्याय़ो ह्यकर्मणः |
८ क
श्रीभगवानु उवाच:
शरीरय़ात्रापि च ते न प्रसिध्येदकर्मणः ||
८ ख
श्रीभगवानु उवाच:
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽय़ं कर्मवन्धनः |
९ क
श्रीभगवानु उवाच:
तदर्थं कर्म कौन्तेय़ मुक्तसङ्गः समाचर ||
९ ख
श्रीभगवानु उवाच:
सहय़ज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
१० क
श्रीभगवानु उवाच:
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||
१० ख
श्रीभगवानु उवाच:
देवान्भावय़तानेन ते देवा भावय़न्तु वः |
११ क
श्रीभगवानु उवाच:
परस्परं भावय़न्तः श्रेय़ः परमवाप्स्यथ ||
११ ख
श्रीभगवानु उवाच:
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |
१२ क
श्रीभगवानु उवाच:
तैर्दत्तानप्रदाय़ैभ्यो यो भुङ्क्ते स्तेन एव सः ||
१२ ख
श्रीभगवानु उवाच:
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः |
१३ क
श्रीभगवानु उवाच:
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||
१३ ख
श्रीभगवानु उवाच:
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |
१४ क
श्रीभगवानु उवाच:
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||
१४ ख
श्रीभगवानु उवाच:
कर्म व्रह्मोद्भवं विद्धि व्रह्माक्षरसमुद्भवम् |
१५ क
श्रीभगवानु उवाच:
तस्मात्सर्वगतं व्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||
१५ ख
श्रीभगवानु उवाच:
एवं प्रवर्तितं चक्रं नानुवर्तय़तीह यः |
१६ क
श्रीभगवानु उवाच:
अघाय़ुरिन्द्रिय़ारामो मोघं पार्थ स जीवति ||
१६ ख
श्रीभगवानु उवाच:
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |
१७ क
श्रीभगवानु उवाच:
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||
१७ ख
श्रीभगवानु उवाच:
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
१८ क
श्रीभगवानु उवाच:
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय़ः ||
१८ ख
श्रीभगवानु उवाच:
तस्मादसक्तः सततं कार्यं कर्म समाचर |
१९ क
श्रीभगवानु उवाच:
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||
१९ ख
श्रीभगवानु उवाच:
कर्मणैव हि संसिद्धिमास्थिता जनकादय़ः |
२० क
श्रीभगवानु उवाच:
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||
२० ख
श्रीभगवानु उवाच:
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
२१ क
श्रीभगवानु उवाच:
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||
२१ ख
श्रीभगवानु उवाच:
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |
२२ क
श्रीभगवानु उवाच:
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||
२२ ख
श्रीभगवानु उवाच:
यदि ह्यहं न वर्तेय़ं जातु कर्मण्यतन्द्रितः |
२३ क
श्रीभगवानु उवाच:
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
२३ ख
श्रीभगवानु उवाच:
उत्सीदेय़ुरिमे लोका न कुर्यां कर्म चेदहम् |
२४ क
श्रीभगवानु उवाच:
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||
२४ ख
श्रीभगवानु उवाच:
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
२५ क
श्रीभगवानु उवाच:
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ||
२५ ख
श्रीभगवानु उवाच:
न वुद्धिभेदं जनय़ेदज्ञानां कर्मसङ्गिनाम् |
२६ क
श्रीभगवानु उवाच:
जोषय़ेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||
२६ ख
श्रीभगवानु उवाच:
प्रकृतेः क्रिय़माणानि गुणैः कर्माणि सर्वशः |
२७ क
श्रीभगवानु उवाच:
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||
२७ ख
श्रीभगवानु उवाच:
तत्त्ववित्तु महावाहो गुणकर्मविभागय़ोः |
२८ क
श्रीभगवानु उवाच:
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||
२८ ख
श्रीभगवानु उवाच:
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु |
२९ क
श्रीभगवानु उवाच:
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालय़ेत् ||
२९ ख
श्रीभगवानु उवाच:
मय़ि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
३० क
श्रीभगवानु उवाच:
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||
३० ख
श्रीभगवानु उवाच:
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |
३१ क
श्रीभगवानु उवाच:
श्रद्धावन्तोऽनसूय़न्तो मुच्यन्ते तेऽपि कर्मभिः ||
३१ ख
श्रीभगवानु उवाच:
ये त्वेतदभ्यसूय़न्तो नानुतिष्ठन्ति मे मतम् |
३२ क
श्रीभगवानु उवाच:
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||
३२ ख
श्रीभगवानु उवाच:
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
३३ क
श्रीभगवानु उवाच:
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||
३३ ख
श्रीभगवानु उवाच:
इन्द्रिय़स्येन्द्रिय़स्यार्थे रागद्वेषौ व्यवस्थितौ |
३४ क
श्रीभगवानु उवाच:
तय़ोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||
३४ ख
श्रीभगवानु उवाच:
श्रेय़ान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
३५ क
श्रीभगवानु उवाच:
स्वधर्मे निधनं श्रेय़ः परधर्मो भय़ावहः ||
३५ ख
अर्जुन उवाच:
अथ केन प्रय़ुक्तोऽय़ं पापं चरति पूरुषः |
३६ क
अर्जुन उवाच:
अनिच्छन्नपि वार्ष्णेय़ वलादिव निय़ोजितः ||
३६ ख
श्रीभगवानु उवाच:
काम एष क्रोध एष रजोगुणसमुद्भवः |
३७ क
श्रीभगवानु उवाच:
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||
३७ ख
श्रीभगवानु उवाच:
धूमेनाव्रिय़ते वह्निर्यथादर्शो मलेन च |
३८ क
श्रीभगवानु उवाच:
यथोल्वेनावृतो गर्भस्तथा तेनेदमावृतम् ||
३८ ख
श्रीभगवानु उवाच:
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
३९ क
श्रीभगवानु उवाच:
कामरूपेण कौन्तेय़ दुष्पूरेणानलेन च ||
३९ ख
श्रीभगवानु उवाच:
इन्द्रिय़ाणि मनो वुद्धिरस्याधिष्ठानमुच्यते |
४० क
श्रीभगवानु उवाच:
एतैर्विमोहय़त्येष ज्ञानमावृत्य देहिनम् ||
४० ख
श्रीभगवानु उवाच:
तस्मात्त्वमिन्द्रिय़ाण्यादौ निय़म्य भरतर्षभ |
४१ क
श्रीभगवानु उवाच:
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ||
४१ ख
श्रीभगवानु उवाच:
इन्द्रिय़ाणि पराण्याहुरिन्द्रिय़ेभ्यः परं मनः |
४२ क
श्रीभगवानु उवाच:
मनसस्तु परा वुद्धिर्यो वुद्धेः परतस्तु सः ||
४२ ख
श्रीभगवानु उवाच:
एवं वुद्धेः परं वुद्ध्वा संस्तभ्यात्मानमात्मना |
४३ क
श्रीभगवानु उवाच:
जहि शत्रुं महावाहो कामरूपं दुरासदम् ||
४३ ख