chevron_left कर्ण पर्व अध्याय २५
दुर्योधन उवाच:
एवं स भगवान्देवः सर्वलोकपितामहः |
१ क
दुर्योधन उवाच:
सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी ||
१ ख
दुर्योधन उवाच:
रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः |
२ क
दुर्योधन उवाच:
तस्मात्त्वं पुरुषव्याघ्र निय़च्छ तुरगान्युधि ||
२ ख
सञ्जय़ उवाच:
ततः शल्यः परिष्वज्य सुतं ते वाक्यमव्रवीत् |
३ क
सञ्जय़ उवाच:
दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ||
३ ख
सञ्जय़ उवाच:
एवं चेन्मन्यसे राजन्गान्धारे प्रिय़दर्शन |
४ क
सञ्जय़ उवाच:
तस्मात्ते यत्प्रिय़ं किञ्चित्तत्सर्वं करवाण्यहम् ||
४ ख
सञ्जय़ उवाच:
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् |
५ क
सञ्जय़ उवाच:
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ||
५ ख
सञ्जय़ उवाच:
यत्तु कर्णमहं व्रूय़ां हितकामः प्रिय़ाप्रिय़म् |
६ क
सञ्जय़ उवाच:
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ||
६ ख
कर्ण उवाच:
ईशानस्य यथा व्रह्मा यथा पार्थस्य केशवः |
७ क
कर्ण उवाच:
तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ||
७ ख
शल्य उवाच:
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |
८ क
शल्य उवाच:
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||
८ ख
शल्य उवाच:
यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव |
९ क
शल्य उवाच:
आत्मनः स्तवसंय़ुक्तं तन्निवोध यथातथम् ||
९ ख
शल्य उवाच:
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो |
१० क
शल्य उवाच:
अप्रमादप्रय़ोगाच्च ज्ञानविद्याचिकित्सितैः ||
१० ख
शल्य उवाच:
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ |
११ क
शल्य उवाच:
वाहय़िष्यामि तुरगान्विज्वरो भव सूतज ||
११ ख