chevron_left शल्य पर्व अध्याय २५
सञ्जय़ उवाच:
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत |
१ क
सञ्जय़ उवाच:
वध्यमाने वले चैव भीमसेनेन संय़ुगे ||
१ ख
सञ्जय़ उवाच:
चरन्तं च तथा दृष्ट्वा भीमसेनमरिन्दमम् |
२ क
सञ्जय़ उवाच:
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ||
२ ख
सञ्जय़ उवाच:
समेत्य समरे राजन्हतशेषाः सुतास्तव |
३ क
सञ्जय़ उवाच:
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव |
३ ख
सञ्जय़ उवाच:
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ||
३ ग
सञ्जय़ उवाच:
दुर्मर्षणो महाराज जैत्रो भूरिवलो रविः |
४ क
सञ्जय़ उवाच:
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः |
४ ख
सञ्जय़ उवाच:
भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ||
४ ग
सञ्जय़ उवाच:
ततो भीमो महाराज स्वरथं पुनरास्थितः |
५ क
सञ्जय़ उवाच:
मुमोच निशितान्वाणान्पुत्राणां तव मर्मसु ||
५ ख
सञ्जय़ उवाच:
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे |
६ क
सञ्जय़ उवाच:
भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ||
६ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह |
७ क
सञ्जय़ उवाच:
क्षुरप्रेण प्रमथ्याशु पातय़ामास भूतले ||
७ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन सर्वावरणभेदिना |
८ क
सञ्जय़ उवाच:
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ||
८ ख
सञ्जय़ उवाच:
जय़त्सेनं ततो विद्ध्वा नाराचेन हसन्निव |
९ क
सञ्जय़ उवाच:
पातय़ामास कौरव्यं रथोपस्थादरिन्दमः |
९ ख
सञ्जय़ उवाच:
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ||
९ ग
सञ्जय़ उवाच:
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष |
१० क
सञ्जय़ उवाच:
शतेन गृध्रवाजानां शराणां नतपर्वणाम् ||
१० ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे भीमो जैत्रं भूरिवलं रविम् |
११ क
सञ्जय़ उवाच:
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ||
११ ख
सञ्जय़ उवाच:
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः |
१२ क
सञ्जय़ उवाच:
वसन्ते पुष्पशवला निकृत्ता इव किंशुकाः ||
१२ ख
सञ्जय़ उवाच:
ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः |
१३ क
सञ्जय़ उवाच:
दुर्विमोचनमाहत्य प्रेषय़ामास मृत्यवे ||
१३ ख
सञ्जय़ उवाच:
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः |
१४ क
सञ्जय़ उवाच:
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ||
१४ ख
सञ्जय़ उवाच:
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव |
१५ क
सञ्जय़ उवाच:
एकैकं न्यवधीत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे |
१५ ख
सञ्जय़ उवाच:
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ||
१५ ग
सञ्जय़ उवाच:
ततो यतन्तमपरमभिवीक्ष्य सुतं तव |
१६ क
सञ्जय़ उवाच:
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे |
१६ ख
सञ्जय़ उवाच:
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ||
१६ ग
सञ्जय़ उवाच:
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संय़ुगे |
१७ क
सञ्जय़ उवाच:
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ||
१७ ख
सञ्जय़ उवाच:
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् |
१८ क
सञ्जय़ उवाच:
विसृजन्साय़कांश्चैव विषाग्निप्रतिमान्वहून् ||
१८ ख
सञ्जय़ उवाच:
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे |
१९ क
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ||
१९ ख
सञ्जय़ उवाच:
ततोऽन्यद्धनुरादाय़ भीमसेनो महारथः |
२० क
सञ्जय़ उवाच:
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाव्रवीत् ||
२० ख
सञ्जय़ उवाच:
महदासीत्तय़ोर्युद्धं चित्ररूपं भय़ानकम् |
२१ क
सञ्जय़ उवाच:
यादृशं समरे पूर्वं जम्भवासवय़ोरभूत् ||
२१ ख
सञ्जय़ उवाच:
तय़ोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः |
२२ क
सञ्जय़ उवाच:
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ||
२२ ख
सञ्जय़ उवाच:
ततः श्रुतर्वा सङ्क्रुद्धो धनुराय़म्य साय़कैः |
२३ क
सञ्जय़ उवाच:
भीमसेनं रणे राजन्वाह्वोरुरसि चार्पय़त् ||
२३ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना |
२४ क
सञ्जय़ उवाच:
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ||
२४ ख
सञ्जय़ उवाच:
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष |
२५ क
सञ्जय़ उवाच:
सारथिं चतुरश्चाश्वान्वाणैर्निन्ये यमक्षय़म् ||
२५ ख
सञ्जय़ उवाच:
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः |
२६ क
सञ्जय़ उवाच:
अवाकिरदमेय़ात्मा दर्शय़न्पाणिलाघवम् ||
२६ ख
सञ्जय़ उवाच:
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी |
२७ क
सञ्जय़ उवाच:
अथास्याददतः खड्गं शतचन्द्रं च भानुमत् |
२७ ख
सञ्जय़ उवाच:
क्षुरप्रेण शिरः काय़ात्पातय़ामास पाण्डवः ||
२७ ग
सञ्जय़ उवाच:
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः |
२८ क
सञ्जय़ उवाच:
पपात काय़ः स रथाद्वसुधामनुनादय़न् ||
२८ ख
सञ्जय़ उवाच:
तस्मिन्निपतिते वीरे तावका भय़मोहिताः |
२९ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युय़ुत्सवः ||
२९ ख
सञ्जय़ उवाच:
तानापतत एवाशु हतशेषाद्वलार्णवात् |
३० क
सञ्जय़ उवाच:
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् |
३० ख
सञ्जय़ उवाच:
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ||
३० ग
सञ्जय़ उवाच:
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः |
३१ क
सञ्जय़ उवाच:
पीडय़ामास तान्सर्वान्सहस्राक्ष इवासुरान् ||
३१ ख
सञ्जय़ उवाच:
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् |
३२ क
सञ्जय़ उवाच:
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ||
३२ ख
सञ्जय़ उवाच:
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः |
३३ क
सञ्जय़ उवाच:
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ||
३३ ख
सञ्जय़ उवाच:
भीमसेनस्तु कौन्तेय़ो हत्वा युद्धे सुतांस्तव |
३४ क
सञ्जय़ उवाच:
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ||
३४ ख
सञ्जय़ उवाच:
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् |
३५ क
सञ्जय़ उवाच:
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ||
३५ ख
सञ्जय़ उवाच:
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् |
३६ क
सञ्जय़ उवाच:
दोर्भ्यां शव्दं ततश्चक्रे त्रासय़ानो महाद्विपान् ||
३६ ख
सञ्जय़ उवाच:
हतभूय़िष्ठय़ोधा तु तव सेना विशां पते |
३७ क
सञ्जय़ उवाच:
किञ्चिच्छेषा महाराज कृपणा समपद्यत ||
३७ ख