नारद उवाच:
विनीय़ दुःखमवला सा त्वतीवाय़तेक्षणा |
१ क
नारद उवाच:
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ||
१ ख
नारद उवाच:
त्वय़ा सृष्टा कथं नारी मादृशी वदतां वर |
२ क
नारद उवाच:
रौद्रकर्माभिजाय़ेत सर्वप्राणिभय़ङ्करी ||
२ ख
नारद उवाच:
विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे |
३ क
नारद उवाच:
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ||
३ ख
नारद उवाच:
वालान्वृद्धान्वय़ःस्थांश्च न हरेय़मनागसः |
४ क
नारद उवाच:
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ||
४ ख
नारद उवाच:
प्रिय़ान्पुत्रान्वय़स्यांश्च भ्रातॄन्मातॄः पितॄनपि |
५ क
नारद उवाच:
अपध्यास्यन्ति यद्देव मृतांस्तेषां विभेम्यहम् ||
५ ख
नारद उवाच:
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः |
६ क
नारद उवाच:
तेभ्योऽहं वलवद्भीता शरणं त्वामुपागता ||
६ ख
नारद उवाच:
यमस्य भवने देव यात्यन्ते पापकर्मिणः |
७ क
नारद उवाच:
प्रसादय़े त्वा वरद प्रसादं कुरु मे प्रभो ||
७ ख
नारद उवाच:
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह |
८ क
नारद उवाच:
इच्छेय़ं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ||
८ ख
पितामह उवाच:
मृत्यो सङ्कल्पिता मे त्वं प्रजासंहारहेतुना |
९ क
पितामह उवाच:
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय़ ||
९ ख
पितामह उवाच:
एतदेवमवश्यं हि भविता नैतदन्यथा |
१० क
पितामह उवाच:
क्रिय़तामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ||
१० ख
नारद उवाच:
एवमुक्ता महावाहो मृत्युः परपुरञ्जय़ |
११ क
नारद उवाच:
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ||
११ ख
नारद उवाच:
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी |
१२ क
नारद उवाच:
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ||
१२ ख
नारद उवाच:
प्रससाद किल व्रह्मा स्वय़मेवात्मनात्मवान् |
१३ क
नारद उवाच:
स्मय़मानश्च लोकेशो लोकान्सर्वानवैक्षत ||
१३ ख
नारद उवाच:
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते |
१४ क
नारद उवाच:
सा कन्यापजगामास्य समीपादिति नः श्रुतम् ||
१४ ख
नारद उवाच:
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा |
१५ क
नारद उवाच:
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ||
१५ ख
नारद उवाच:
सा तत्र परमं देवी तपोऽचरत दुश्चरम् |
१६ क
नारद उवाच:
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ||
१६ ख
नारद उवाच:
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् |
१७ क
नारद उवाच:
पुनरेव महातेजा व्रह्मा वचनमव्रवीत् ||
१७ ख
नारद उवाच:
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा |
१८ क
नारद उवाच:
तथैवैकपदे तात पुनरन्यानि सप्त सा ||
१८ ख
नारद उवाच:
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद |
१९ क
नारद उवाच:
भूय़ः पद्माय़ुतं तात मृगैः सह चचार सा ||
१९ ख
नारद उवाच:
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् |
२० क
नारद उवाच:
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ||
२० ख
नारद उवाच:
ततो जगाम सा कन्या कौशिकीं भरतर्षभ |
२१ क
नारद उवाच:
तत्र वाय़ुजलाहारा चचार निय़मं पुनः ||
२१ ख
नारद उवाच:
ततो यय़ौ महाभागा गङ्गां मेरुं च केवलम् |
२२ क
नारद उवाच:
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ||
२२ ख
नारद उवाच:
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे |
२३ क
नारद उवाच:
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः |
२३ ख
नारद उवाच:
तस्थौ पितामहं चैव तोषय़ामास यत्नतः ||
२३ ग
नारद उवाच:
ततस्तामव्रवीत्तत्र लोकानां प्रभवाप्ययः |
२४ क
नारद उवाच:
किमिदं वर्तते पुत्रि क्रिय़तां तद्वचो मम ||
२४ ख
नारद उवाच:
ततोऽव्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् |
२५ क
नारद उवाच:
न हरेय़ं प्रजा देव पुनस्त्वाहं प्रसादय़े ||
२५ ख
नारद उवाच:
तामधर्मभय़त्रस्तां पुनरेव च याचतीम् |
२६ क
नारद उवाच:
तदाव्रवीद्देवदेवो निगृह्येदं वचस्ततः ||
२६ ख
नारद उवाच:
अधर्मो नास्ति ते मृत्यो संय़च्छेमाः प्रजाः शुभे |
२७ क
नारद उवाच:
मय़ा ह्युक्तं मृषा भद्रे भविता नेह किञ्चन ||
२७ ख
नारद उवाच:
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते |
२८ क
नारद उवाच:
अहं च विवुधाश्चैव त्वद्धिते निरताः सदा ||
२८ ख
नारद उवाच:
इममन्यं च ते कामं ददामि मनसेप्सितम् |
२९ क
नारद उवाच:
न त्वा दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः ||
२९ ख
नारद उवाच:
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि |
३० क
नारद उवाच:
स्त्रीषु स्त्रीरूपिणी चैव तृतीय़ेषु नपुंसकम् ||
३० ख
नारद उवाच:
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह |
३१ क
नारद उवाच:
पुनरेव महात्मानं नेति देवेशमव्ययम् ||
३१ ख
नारद उवाच:
तामव्रवीत्तदा देवो मृत्यो संहर मानवान् |
३२ क
नारद उवाच:
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ||
३२ ख
नारद उवाच:
यानश्रुविन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात् |
३३ क
नारद उवाच:
ते व्याधय़ो मानवान्घोररूपाः; प्राप्ते काले पीडय़िष्यन्ति मृत्यो ||
३३ ख
नारद उवाच:
सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजय़ेथाः |
३४ क
नारद उवाच:
एवं धर्मस्त्वामुपैष्यत्यमेय़ो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः ||
३४ ख
नारद उवाच:
एवं धर्मं पालय़िष्यस्यथोक्तं; न चात्मानं मज्जय़िष्यस्यधर्मे |
३५ क
नारद उवाच:
तस्मात्कामं रोचय़ाभ्यागतं त्वं; संय़ोज्याथो संहरस्वेह जन्तून् ||
३५ ख
नारद उवाच:
सा वै तदा मृत्युसञ्ज्ञापदेशा; च्छापाद्भीता वाढमित्यव्रवीत्तम् |
३६ क
नारद उवाच:
अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति ||
३६ ख
नारद उवाच:
मृत्योर्ये ते व्याधय़श्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् |
३७ क
नारद उवाच:
सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा वुध्य वुद्ध्या ||
३७ ख
नारद उवाच:
सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव |
३८ क
नारद उवाच:
एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह ||
३८ ख
नारद उवाच:
वाय़ुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः |
३९ क
नारद उवाच:
नानावृत्तिर्देहिनां देहभेदे; तस्माद्वाय़ुर्देवदेवो विशिष्टः ||
३९ ख
नारद उवाच:
सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टाः; सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः |
४० क
नारद उवाच:
तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह ||
४० ख
नारद उवाच:
एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् |
४१ क
नारद उवाच:
तस्याश्चैव व्याधय़स्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् ||
४१ ख