वैशम्पाय़न उवाच:
अथाव्रवीद्द्रौपदी राजपुत्री; पृष्टा शिवीनां प्रवरेण तेन |
१ क
वैशम्पाय़न उवाच:
अवेक्ष्य मन्दं प्रविमुच्य शाखां; सङ्गृह्णती कौशिकमुत्तरीय़म् ||
१ ख
वैशम्पाय़न उवाच:
वुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा |
२ क
वैशम्पाय़न उवाच:
न त्वेह वक्तास्ति तवेह वाक्य; मन्यो नरो वाप्यथ वापि नारी ||
२ ख
वैशम्पाय़न उवाच:
एका ह्यहं सम्प्रति तेन वाचं; ददानि वै भद्र निवोध चेदम् |
३ क
वैशम्पाय़न उवाच:
अहं ह्यरण्ये कथमेकमेका; त्वामालपेय़ं निरता स्वधर्मे ||
३ ख
वैशम्पाय़न उवाच:
जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः |
४ क
वैशम्पाय़न उवाच:
तस्मादहं शैव्य तथैव तुभ्य; माख्यामि वन्धून्प्रति तन्निवोध ||
४ ख
वैशम्पाय़न उवाच:
अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैव्य विदुर्मनुष्याः |
५ क
वैशम्पाय़न उवाच:
साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ||
५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |
६ क
वैशम्पाय़न उवाच:
ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगय़ां प्रय़ाताः ||
६ ख
वैशम्पाय़न उवाच:
प्राचीं राजा दक्षिणां भीमसेनो; जय़ः प्रतीचीं यमजावुदीचीम् |
७ क
वैशम्पाय़न उवाच:
मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपय़ातुम् ||
७ ख
वैशम्पाय़न उवाच:
संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहय़ध्वम् |
८ क
वैशम्पाय़न उवाच:
प्रिय़ातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ||
८ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा द्रुपदात्मजा सा; शैव्यात्मजं चन्द्रमुखी प्रतीता |
९ क
वैशम्पाय़न उवाच:
विवेश तां पर्णकुटीं प्रशस्तां; सञ्चिन्त्य तेषामतिथिस्वधर्मम् ||
९ ख