युधिष्ठिर उवाच:
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः |
१ क
युधिष्ठिर उवाच:
कोऽय़ं धर्मः कुतो धर्मस्तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
धर्मो न्वय़मिहार्थः किममुत्रार्थोऽपि वा भवेत् |
२ क
युधिष्ठिर उवाच:
उभय़ार्थोऽपि वा धर्मस्तन्मे व्रूहि पितामह ||
२ ख
भीष्म उवाच:
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् |
३ क
भीष्म उवाच:
चतुर्थमर्थमित्याहुः कवय़ो धर्मलक्षणम् ||
३ ख
भीष्म उवाच:
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे |
४ क
भीष्म उवाच:
लोकय़ात्रार्थमेवेह धर्मस्य निय़मः कृतः |
४ ख
भीष्म उवाच:
उभय़त्र सुखोदर्क इह चैव परत्र च ||
४ ग
भीष्म उवाच:
अलव्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति |
५ क
भीष्म उवाच:
न च पापकृतः पापान्मुच्यन्ते केचिदापदि ||
५ ख
भीष्म उवाच:
अपापवादी भवति यदा भवति धर्मवित् |
६ क
भीष्म उवाच:
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ||
६ ख
भीष्म उवाच:
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः |
७ क
भीष्म उवाच:
रमते निर्हरन्स्तेनः परवित्तमराजके ||
७ ख
भीष्म उवाच:
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति |
८ क
भीष्म उवाच:
तदा तेषां स्पृहय़ते ये वै तुष्टाः स्वकैर्धनैः ||
८ ख
भीष्म उवाच:
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः |
९ क
भीष्म उवाच:
न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति ||
९ ख
भीष्म उवाच:
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |
१० क
भीष्म उवाच:
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ||
१० ख
भीष्म उवाच:
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् |
११ क
भीष्म उवाच:
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रय़ाः |
११ ख
भीष्म उवाच:
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येय़ुरसंशय़म् ||
११ ग
भीष्म उवाच:
न हर्तव्यं परधनमिति धर्मः सनातनः |
१२ क
भीष्म उवाच:
मन्यन्ते वलवन्तस्तं दुर्वलैः सम्प्रवर्तितम् |
१२ ख
भीष्म उवाच:
यदा निय़तिदौर्वल्यमथैषामेव रोचते ||
१२ ग
भीष्म उवाच:
न ह्यत्यन्तं वलय़ुता भवन्ति सुखिनोऽपि वा |
१३ क
भीष्म उवाच:
तस्मादनार्जवे वुद्धिर्न कार्या ते कथञ्चन ||
१३ ख
भीष्म उवाच:
असाधुभ्योऽस्य न भय़ं न चोरेभ्यो न राजतः |
१४ क
भीष्म उवाच:
न किञ्चित्कस्यचित्कुर्वन्निर्भय़ः शुचिरावसेत् ||
१४ ख
भीष्म उवाच:
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेय़िवान् |
१५ क
भीष्म उवाच:
वहुधाचरितं पापमन्यत्रैवानुपश्यति ||
१५ ख
भीष्म उवाच:
मुदितः शुचिरभ्येति सर्वतो निर्भय़ः सदा |
१६ क
भीष्म उवाच:
न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति ||
१६ ख
भीष्म उवाच:
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः |
१७ क
भीष्म उवाच:
तं मन्यन्ते धनय़ुताः कृपणैः सम्प्रवर्तितम् ||
१७ ख
भीष्म उवाच:
यदा निय़तिकार्पण्यमथैषामेव रोचते |
१८ क
भीष्म उवाच:
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ||
१८ ख
भीष्म उवाच:
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः |
१९ क
भीष्म उवाच:
न तत्परेषु कुर्वीत जानन्नप्रिय़मात्मनः ||
१९ ख
भीष्म उवाच:
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति |
२० क
भीष्म उवाच:
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ||
२० ख
भीष्म उवाच:
जीवितुं यः स्वय़ं चेच्छेत्कथं सोऽन्यं प्रघातय़ेत् |
२१ क
भीष्म उवाच:
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तय़ेत् ||
२१ ख
भीष्म उवाच:
अतिरिक्तैः संविभजेद्भोगैरन्यानकिञ्चनान् |
२२ क
भीष्म उवाच:
एतस्मात्कारणाद्धात्रा कुसीदं सम्प्रवर्तितम् ||
२२ ख
भीष्म उवाच:
यस्मिंस्तु देवाः समय़े सन्तिष्ठेरंस्तथा भवेत् |
२३ क
भीष्म उवाच:
अथ चेल्लाभसमय़े स्थितिर्धर्मेऽपि शोभना ||
२३ ख
भीष्म उवाच:
सर्वं प्रिय़ाभ्युपगतं धर्ममाहुर्मनीषिणः |
२४ क
भीष्म उवाच:
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ||
२४ ख
भीष्म उवाच:
लोकसङ्ग्रहसंय़ुक्तं विधात्रा विहितं पुरा |
२५ क
भीष्म उवाच:
सूक्ष्मधर्मार्थनिय़तं सतां चरितमुत्तमम् ||
२५ ख
भीष्म उवाच:
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम |
२६ क
भीष्म उवाच:
तस्मादनार्जवे वुद्धिर्न कार्या ते कथञ्चन ||
२६ ख